03.171
अर्जुन उवाच॥
ततो मामभिविश्वस्तं संरूढशरविक्षतम्। देवराजोऽनुगृह्येदं काले वचनमब्रवीत् ॥०३-१७१-१॥
दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत। न त्वाभिभवितुं शक्तो मानुषो भुवि कश्चन ॥०३-१७१-२॥
भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः। सङ्ग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम् ॥०३-१७१-३॥
इदं च मे तनुत्राणं प्रायच्छन्मघवान्प्रभुः। अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम् ॥०३-१७१-४॥
देवदत्तं च मे शङ्खं देवः प्रादान्महारवम्। दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह ॥०३-१७१-५॥
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च। प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च ॥०३-१७१-६॥
एवं सम्पूजितस्तत्र सुखमस्म्युषितो नृप। इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह ॥०३-१७१-७॥
ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह। समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते ॥०३-१७१-८॥
एवमिन्द्रस्य भवने पञ्च वर्षाणि भारत। उषितानि मया राजन्स्मरता द्यूतजं कलिम् ॥०३-१७१-९॥
ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम्। गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि ॥०३-१७१-१०॥
युधिष्ठिर उवाच॥
दिष्ट्या धनञ्जयास्त्राणि त्वया प्राप्तानि भारत। दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः ॥०३-१७१-११॥
दिष्ट्या च भगवान्स्थाणुर्देव्या सह परन्तप। साक्षाद्दृष्टः सुयुद्धेन तोषितश्च त्वयानघ ॥०३-१७१-१२॥
दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ। दिष्ट्या वर्धामहे सर्वे दिष्ट्यासि पुनरागतः ॥०३-१७१-१३॥
अद्य कृत्स्नामिमां देवीं विजितां पुरमालिनीम्। मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान् ॥०३-१७१-१४॥
तानि त्विच्छामि ते द्रष्टुं दिव्यान्यस्त्राणि भारत। यैस्तथा वीर्यवन्तस्ते निवातकवचा हता ॥०३-१७१-१५॥
अर्जुन उवाच॥
श्वः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशः। निवातकवचा घोरा यैर्मया विनिपातिताः ॥०३-१७१-१६॥
वैशम्पायन उवाच॥
एवमागमनं तत्र कथयित्वा धनञ्जयः। भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह ॥०३-१७१-१७॥