03.172
वैशम्पायन उवाच॥
तस्यां रजन्यां व्युष्टायां धर्मराजो युधिष्ठिरः। उत्थायावश्यकार्याणि कृतवान्भ्रतृभिः सह ॥०३-१७२-१॥
ततः सञ्चोदयामास सोऽर्जुनं भ्रातृनन्दनम्। दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया ॥०३-१७२-२॥
ततो धनञ्जयो राजन्देवैर्दत्तानि पाण्डवः। अस्त्राणि तानि दिव्यानि दर्शयामास भारत ॥०३-१७२-३॥
यथान्यायं महातेजाः शौचं परममास्थितः। गिरिकूबरं पादपाङ्गं शुभवेणु त्रिवेणुकम् ॥ पार्थिवं रथमास्थाय शोभमानो धनञ्जयः ॥०३-१७२-४॥
ततः सुदंशितस्तेन कवचेन सुवर्चसा। धनुरादाय गाण्डीवं देवदत्तं च वारिजम् ॥०३-१७२-५॥
शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः। अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे ॥०३-१७२-६॥
अथ प्रयोक्ष्यमाणेन दिव्यान्यस्त्राणि तेन वै। समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा ॥०३-१७२-७॥
क्षुभिताः सरितश्चैव तथैव च महोदधिः। शैलाश्चापि व्यशीर्यन्त न ववौ च समीरणः ॥०३-१७२-८॥
न बभासे सहस्रांशुर्न जज्वाल च पावकः। न वेदाः प्रतिभान्ति स्म द्विजातीनां कथञ्चन ॥०३-१७२-९॥
अन्तर्भूमिगता ये च प्राणिनो जनमेजय। पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन् ॥०३-१७२-१०॥
वेपमानाः प्राञ्जलयस्ते सर्वे पिहिताननाः। दह्यमानास्तदास्त्रैस्तैर्याचन्ति स्म धनञ्जयम् ॥०३-१७२-११॥
ततो ब्रह्मर्षयश्चैव सिद्धाश्चैव सुरर्षयः। जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे ॥०३-१७२-१२॥
राजर्षयश्च प्रवरास्तथैव च दिवौकसः। यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः ॥०३-१७२-१३॥
ततः पितामहश्चैव लोकपालाश्च सर्वशः। भगवांश्च महादेवः सगणोऽभ्याययौ तदा ॥०३-१७२-१४॥
ततो वायुर्महाराज दिव्यैर्माल्यैः सुगन्धिभिः। अभितः पाण्डवांश्चित्रैरवचक्रे समन्ततः ॥०३-१७२-१५॥
जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः। ननृतुः सङ्घशश्चैव राजन्नप्सरसां गणाः ॥०३-१७२-१६॥
तस्मिंस्तु तुमुले काले नारदः सुरचोदितः। आगम्याह वचः पार्थं श्रवणीयमिदं नृप ॥०३-१७२-१७॥
अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्यस्त्राणि भारत। नैतानि निरधिष्ठाने प्रयुज्यन्ते कदाचन ॥०३-१७२-१८॥
अधिष्ठाने न वानार्तः प्रयुञ्जीत कदाचन। प्रयोगे सुमहान्दोषो ह्यस्त्राणां कुरुनन्दन ॥०३-१७२-१९॥
एतानि रक्ष्यमाणानि धनञ्जय यथागमम्। बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः ॥०३-१७२-२०॥
अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव। भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित् ॥०३-१७२-२१॥
अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे। योज्यमानानि पार्थेन द्विषतामवमर्दने ॥०३-१७२-२२॥
निवार्याथ ततः पार्थं सर्वे देवा यथागतम्। जग्मुरन्ये च ये तत्र समाजग्मुर्नरर्षभ ॥०३-१७२-२३॥
तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः। तस्मिन्नेव वने हृष्टास्त ऊषुः सह कृष्णया ॥०३-१७२-२४॥