Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.210
मार्कण्डेय उवाच॥
काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः। अग्निराङ्गिरसश्चैव च्यवनस्त्रिषुवर्चकः ॥०३-२१०-१॥
अचरन्त तपस्तीव्रं पुत्रार्थे बहुवार्षिकम्। पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम् ॥०३-२१०-२॥
महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ। जज्ञे तेजोमयोऽर्चिष्मान्पञ्चवर्णः प्रभावनः ॥०३-२१०-३॥
समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा। त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत ॥०३-२१०-४॥
पञ्चवर्णः स तपसा कृतस्तैः पञ्चभिर्जनैः। पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस्तु सः ॥०३-२१०-५॥
दश वर्षसहस्राणि तपस्तप्त्वा महातपाः। जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन् ॥०३-२१०-६॥
बृहद्रथन्तरं मूर्ध्नो वक्त्राच्च तरसाहरौ। शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत् ॥०३-२१०-७॥
बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह। एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान् ॥०३-२१०-८॥
बृहदूर्जस्य प्रणिधिः काश्यपस्य बृहत्तरः। भानुरङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः ॥०३-२१०-९॥
प्राणस्य चानुदात्तश्च व्याख्याताः पञ्च वंशजाः। देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान् ॥०३-२१०-१०॥
अभीममतिभीमं च भीमं भीमबलाबलम्। एतान्यज्ञमुषः पञ्च देवानभ्यसृजत्तपः ॥०३-२१०-११॥
सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम्। मित्रधर्माणमित्येतान्देवानभ्यसृजत्तपः ॥०३-२१०-१२॥
सुरप्रवीरं वीरं च सुकेशं च सुवर्चसम्। सुराणामपि हन्तारं पञ्चैतानसृजत्तपः ॥०३-२१०-१३॥
त्रिविधं संस्थिता ह्येते पञ्च पञ्च पृथक्पृथक्। मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञयाजिनः ॥०३-२१०-१४॥
तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्भुवि। स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च ॥०३-२१०-१५॥
हविर्वेद्यां तदादानं कुशलैः सम्प्रवर्तितम्। तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् ॥०३-२१०-१६॥
चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते। मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम् ॥०३-२१०-१७॥
बृहदुक्थतपस्यैव पुत्रो भूमिमुपाश्रितः। अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते ॥०३-२१०-१८॥
रथन्तरश्च तपसः पुत्रोऽग्निः परिपठ्यते। मित्रविन्दाय वै तस्य हविरध्वर्यवो विदुः ॥ मुमुदे परमप्रीतः सह पुत्रैर्महायशाः ॥०३-२१०-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.