03.221
मार्कण्डेय उवाच॥
यदाभिषिक्तो भगवान्सेनापत्येन पावकिः। तदा सम्प्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः ॥ रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः ॥०३-२२१-१॥
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे। उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितः ॥०३-२२१-२॥
ते पिबन्त इवाकाशं त्रासयन्तश्चराचरान्। सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः ॥०३-२२१-३॥
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह। विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा ॥०३-२२१-४॥
अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह। आस्थाय रुचिरं याति पुष्पकं नरवाहनः ॥०३-२२१-५॥
ऐरावतं समास्थाय शक्रश्चापि सुरैः सह। पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम् ॥०३-२२१-६॥
जम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलङ्कृतः। यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः ॥०३-२२१-७॥
तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः। गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह सङ्गताः ॥०३-२२१-८॥
यमश्च मृत्युना सार्धं सर्वतः परिवारितः। घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा ॥०३-२२१-९॥
यमस्य पृष्ठतश्चैव घोरस्त्रिशिखरः शितः। विजयो नाम रुद्रस्य याति शूलः स्वलङ्कृतः ॥०३-२२१-१०॥
तमुग्रपाशो वरुणो भगवान्सलिलेश्वरः। परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः ॥०३-२२१-११॥
पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः। गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः ॥०३-२२१-१२॥
पट्टिशं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम्। कमण्डलुश्चाप्यनु तं महर्षिगणसंवृतः ॥०३-२२१-१३॥
तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः। भृग्वङ्गिरोभिः सहितो देवैश्चाप्यभिपूजितः ॥०३-२२१-१४॥
एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः। याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः ॥०३-२२१-१५॥
ऋषयश्चैव देवाश्च गन्धर्वा भुजगास्तथा। नद्यो नदा द्रुमाश्चैव तथैवाप्सरसां गणाः ॥०३-२२१-१६॥
नक्षत्राणि ग्रहाश्चैव देवानां शिशवश्च ये। स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः ॥ सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः ॥०३-२२१-१७॥
पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम्। छत्रं तु पाण्डुरं सोमस्तस्य मूर्धन्यधारयत् ॥ चामरे चापि वायुश्च गृहीत्वाग्निश्च विष्ठितौ ॥०३-२२१-१८॥
शक्रश्च पृष्ठतस्तस्य याति राजञ्श्रिया वृतः। सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम् ॥०३-२२१-१९॥
गौरी विद्याथ गान्धारी केशिनी मित्रसाह्वया। सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः ॥०३-२२१-२०॥
तत्र विद्यागणाः सर्वे ये केचित्कविभिः कृताः। यस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे ॥०३-२२१-२१॥
स गृहीत्वा पताकां तु यात्यग्रे राक्षसो ग्रहः। व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा ॥ पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः ॥०३-२२१-२२॥
एभिः स सहितस्तत्र ययौ देवो यथासुखम्। अग्रतः पृष्ठतश्चैव न हि तस्य गतिर्ध्रुवा ॥०३-२२१-२३॥
रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम्। शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम् ॥ भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम् ॥०३-२२१-२४॥
देवसेनापतिस्त्वेवं देवसेनाभिरावृतः। अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः ॥०३-२२१-२५॥
अथाब्रवीन्महासेनं महादेवो बृहद्वचः। सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः ॥०३-२२१-२६॥
स्कन्द उवाच॥
सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो। यदन्यदपि मे कार्यं देव तद्वद माचिरम् ॥०३-२२१-२७॥
रुद्र उवाच॥
कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि। दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि ॥०३-२२१-२८॥
मार्कण्डेय उवाच॥
इत्युक्त्वा विससर्जैनं परिष्वज्य महेष्वरः। विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत् ॥ सहसैव महाराज देवान्सर्वान्प्रमोहयत् ॥०३-२२१-२९॥
जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम्। चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो ॥०३-२२१-३०॥
ततस्तद्दारुणं दृष्ट्वा क्षुभितः शङ्करस्तदा। उमा चैव महाभागा देवाश्च समहर्षयः ॥०३-२२१-३१॥
ततस्तेषु प्रमूढेषु पर्वताम्बुदसंनिभम्। नानाप्रहरणं घोरमदृश्यत महद्बलम् ॥०३-२२१-३२॥
तद्धि घोरमसङ्ख्येयं गर्जच्च विविधा गिरः। अभ्यद्रवद्रणे देवान्भगवन्तं च शङ्करम् ॥०३-२२१-३३॥
तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः। पर्वताश्च शतघ्न्यश्च प्रासाश्च परिघा गदाः ॥०३-२२१-३४॥
निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः। क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत ॥०३-२२१-३५॥
निकृत्तयोधनागाश्वं कृत्तायुधमहारथम्। दानवैरर्दितं सैन्यं देवानां विमुखं बभौ ॥०३-२२१-३६॥
असुरैर्वध्यमानं तत्पावकैरिव काननम्। अपतद्दग्धभूयिष्ठं महाद्रुमवनं यथा ॥०३-२२१-३७॥
ते विभिन्नशिरोदेहाः प्रच्यवन्ते दिवौकसः। न नाथमध्यगच्छन्त वध्यमाना महारणे ॥०३-२२१-३८॥
अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः। आश्वासयन्नुवाचेदं बलवद्दानवार्दितम् ॥०३-२२१-३९॥
भयं त्यजत भद्रं वः शूराः शस्त्राणि गृह्णत। कुरुध्वं विक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत् ॥०३-२२१-४०॥
जयतैनान्सुदुर्वृत्तान्दानवान्घोरदर्शनान्। अभिद्रवत भद्रं वो मया सह महासुरान् ॥०३-२२१-४१॥
शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः। दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् ॥०३-२२१-४२॥
ततस्ते त्रिदशाः सर्वे मरुतश्च महाबलाः। प्रत्युद्ययुर्महावेगाः साध्याश्च वसुभिः सह ॥०३-२२१-४३॥
तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे। शराश्च दैत्यकायेषु पिबन्ति स्मासृगुल्बणम् ॥०३-२२१-४४॥
तेषां देहान्विनिर्भिद्य शरास्ते निशितास्तदा। निष्पतन्तो अदृश्यन्त नगेभ्य इव पन्नगाः ॥०३-२२१-४५॥
तानि दैत्यशरीराणि निर्भिन्नानि स्म सायकैः। अपतन्भूतले राजंश्छिन्नाभ्राणीव सर्वशः ॥०३-२२१-४६॥
ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि। त्रासितं विविधैर्बाणैः कृतं चैव पराङ्मुखम् ॥०३-२२१-४७॥
अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः। संहतानि च तूर्याणि तदा सर्वाण्यनेकशः ॥०३-२२१-४८॥
एवमन्योन्यसंयुक्तं युद्धमासीत्सुदारुणम्। देवानां दानवानां च मांसशोणितकर्दमम् ॥०३-२२१-४९॥
अनयो देवलोकस्य सहसैव व्यदृश्यत। तथा हि दानवा घोरा विनिघ्नन्ति दिवौकसः ॥०३-२२१-५०॥
ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः। बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः ॥०३-२२१-५१॥
अथ दैत्यबलाद्घोरान्निष्पपात महाबलः। दानवो महिषो नाम प्रगृह्य विपुलं गिरिम् ॥०३-२२१-५२॥
ते तं घनैरिवादित्यं दृष्ट्वा सम्परिवारितम्। समुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः ॥०३-२२१-५३॥
अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम्। पतता तेन गिरिणा देवसैन्यस्य पार्थिव ॥ भीमरूपेण निहतमयुतं प्रापतद्भुवि ॥०३-२२१-५४॥
अथ तैर्दानवैः सार्धं महिषस्त्रासयन्सुरान्। अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव ॥०३-२२१-५५॥
तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः। व्यद्रवन्त रणे भीता विशीर्णायुधकेतनाः ॥०३-२२१-५६॥
ततः स महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ। अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम् ॥०३-२२१-५७॥
यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः। रेसतू रोदसी गाढं मुमुहुश्च महर्षयः ॥०३-२२१-५८॥
व्यनदंश्च महाकाया दैत्या जलधरोपमाः। आसीच्च निश्चितं तेषां जितमस्माभिरित्युत ॥०३-२२१-५९॥
तथाभूते तु भगवान्नावधीन्महिषं रणे। सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः ॥०३-२२१-६०॥
महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य नानदत्। देवान्सन्त्रासयंश्चापि दैत्यांश्चापि प्रहर्षयन् ॥०३-२२१-६१॥
ततस्तस्मिन्भये घोरे देवानां समुपस्थिते। आजगाम महासेनः क्रोधात्सूर्य इव ज्वलन् ॥०३-२२१-६२॥
लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः। लोहितास्यो महाबाहुर्हिरण्यकवचः प्रभुः ॥०३-२२१-६३॥
रथमादित्यसङ्काशमास्थितः कनकप्रभम्। तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे ॥०३-२२१-६४॥
स चापि तां प्रज्वलितां महिषस्य विदारिणीम्। मुमोच शक्तिं राजेन्द्र महासेनो महाबलः ॥०३-२२१-६५॥
सा मुक्ताभ्यहनच्छक्तिर्महिषस्य शिरो महत्। पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः ॥०३-२२१-६६॥
क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः। स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः ॥०३-२२१-६७॥
प्रायः शरैर्विनिहता महासेनेन धीमता। शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः ॥ स्कन्दस्य पार्षदैर्हत्वा भक्षिताः शतसङ्घशः ॥०३-२२१-६८॥
दानवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम्। क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः ॥०३-२२१-६९॥
तमांसीव यथा सूर्यो वृक्षानग्निर्घनान्खगः। तथा स्कन्दोऽजयच्छत्रून्स्वेन वीर्येण कीर्तिमान् ॥०३-२२५-७०॥
सम्पूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम्। शुशुभे कृत्तिकापुत्रः प्रकीर्णांशुरिवांशुमान् ॥०३-२२१-७१॥
नष्टशत्रुर्यदा स्कन्दः प्रयातश्च महेश्वरम्। अथाब्रवीन्महासेनं परिष्वज्य पुरंदरः ॥०३-२२१-७२॥
ब्रह्मदत्तवरः स्कन्द त्वयायं महिषो हतः। देवास्तृणमया यस्य बभूवुर्जयतां वर ॥ सोऽयं त्वया महाबाहो शमितो देवकण्टकः ॥०३-२२१-७३॥
शतं महिषतुल्यानां दानवानां त्वया रणे। निहतं देवशत्रूणां यैर्वयं पूर्वतापिताः ॥०३-२२१-७४॥
तावकैर्भक्षिताश्चान्ये दानवाः शतसङ्घशः। अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः ॥०३-२२१-७५॥
एतत्ते प्रथमं देव ख्यातं कर्म भविष्यति। त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति ॥ वशगाश्च भविष्यन्ति सुरास्तव सुरात्मज ॥०३-२२१-७६॥
महासेनेत्येवमुक्त्वा निवृत्तः सह दैवतैः। अनुज्ञातो भगवता त्र्यम्बकेन शचीपतिः ॥०३-२२१-७७॥
गतो भद्रवटं रुद्रो निवृत्ताश्च दिवौकसः। उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव ॥०३-२२१-७८॥
स हत्वा दानवगणान्पूज्यमानो महर्षिभिः। एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः ॥०३-२२१-७९॥
स्कन्दस्य य इदं जन्म पठते सुसमाहितः। स पुष्टिमिह सम्प्राप्य स्कन्दसालोक्यतामियात् ॥०३-२२१-८०॥