03.222
द्रौपदिसत्यभामासंवादपर्व
वैशम्पायन उवाच॥
उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु। द्रौपदी सत्यभामा च विविशाते तदा समम् ॥ जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः ॥०३-२२२-१॥
चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे। कथयामासतुश्चित्राः कथाः कुरुयदुक्षिताम् ॥०३-२२२-२॥
अथाब्रवीत्सत्यभामा कृष्णस्य महिषी प्रिया। सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा ॥०३-२२२-३॥
केन द्रौपदि वृत्तेन पाण्डवानुपतिष्ठसि। लोकपालोपमान्वीरान्यूनः परमसंमतान् ॥ कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे ॥०३-२२२-४॥
तव वश्या हि सततं पाण्डवाः प्रियदर्शने। मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे ॥०३-२२२-५॥
व्रतचर्या तपो वापि स्नानमन्त्रौषधानि वा। विद्यावीर्यं मूलवीर्यं जपहोमस्तथागदाः ॥०३-२२२-६॥
मम आचक्ष्व पाञ्चालि यशस्यं भगवेदनम्। येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः ॥०३-२२२-७॥
एवमुक्त्वा सत्यभामा विरराम यशस्विनी। पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम् ॥०३-२२२-८॥
असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि। असदाचरिते मार्गे कथं स्यादनुकीर्तनम् ॥०३-२२२-९॥
अनुप्रश्नः संशयो वा नैतत्त्वय्युपपद्यते। तथा ह्युपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया ॥०३-२२२-१०॥
यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम्। उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव ॥०३-२२२-११॥
उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम्। न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात् ॥०३-२२२-१२॥
अमित्रप्रहितांश्चापि गदान्परमदारुणान्। मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः ॥०३-२२२-१३॥
जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते। तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम् ॥०३-२२२-१४॥
जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा। अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा ॥०३-२२२-१५॥
पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत। न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथञ्चन ॥०३-२२२-१६॥
वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु। तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि ॥०३-२२२-१७॥
अहङ्कारं विहायाहं कामक्रोधौ च सर्वदा। सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम् ॥०३-२२२-१८॥
प्रणयं प्रतिसङ्गृह्य निधायात्मानमात्मनि। शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी ॥०३-२२२-१९॥
दुर्व्याहृताच्छङ्कमाना दुःस्थिताद्दुरवेक्षितात्। दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि ॥०३-२२२-२०॥
सूर्यवैश्वानरनिभान्सोमकल्पान्महारथान्। सेवे चक्षुर्हणः पार्थानुग्रतेजःप्रतापिनः ॥०३-२२२-२१॥
देवो मनुष्यो गन्धर्वो युवा चापि स्वलङ्कृतः। द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः ॥०३-२२२-२२॥
नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि। न संविशामि नाश्नामि सदा कर्मकरेष्वपि ॥०३-२२२-२३॥
क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गृहमागतम्। प्रत्युत्थायाभिनन्दामि आसनेनोदकेन च ॥०३-२२२-२४॥
प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी। संयता गुप्तधान्या च सुसंमृष्टनिवेशना ॥०३-२२२-२५॥
अतिरस्कृतसम्भाषा दुःस्त्रियो नानुसेवती। अनुकूलवती नित्यं भवाम्यनलसा सदा ॥०३-२२२-२६॥
अनर्मे चापि हसनं द्वारि स्थानमभीक्ष्णशः। अवस्करे चिरस्थानं निष्कुटेषु च वर्जये ॥०३-२२२-२७॥
अतिहासातिरोषौ च क्रोधस्थानं च वर्जये। निरताहं सदा सत्ये भर्तॄणामुपसेवने ॥ सर्वथा भर्तृरहितं न ममेष्टं कथञ्चन ॥०३-२२२-२८॥
यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित्। सुमनोवर्णकापेता भवामि व्रतचारिणी ॥०३-२२२-२९॥
यच्च भर्ता न पिबति यच्च भर्ता न खादति। यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम् ॥०३-२२२-३०॥
यथोपदेशं नियता वर्तमाना वराङ्गने। स्वलङ्कृता सुप्रयता भर्तुः प्रियहिते रता ॥०३-२२२-३१॥
ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा। भिक्षाबलिश्राद्धमिति स्थालीपाकाश्च पर्वसु ॥ मान्यानां मानसत्कारा ये चान्ये विदिता मया ॥०३-२२२-३२॥
तान्सर्वाननुवर्तामि दिवारात्रमतन्द्रिता। विनयान्नियमांश्चापि सदा सर्वात्मना श्रिता ॥०३-२२२-३३॥
मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः। आशीविषानिव क्रुद्धान्पतीन्परिचराम्यहम् ॥०३-२२२-३४॥
पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः। स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत् ॥०३-२२२-३५॥
अहं पतीन्नातिशये नात्यश्ने नातिभूषये। नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता ॥०३-२२२-३६॥
अवधानेन सुभगे नित्योत्थानतयैव च। भर्तारो वशगा मह्यं गुरुशुश्रूषणेन च ॥०३-२२२-३७॥
नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम्। स्वयं परिचराम्येका स्नानाच्छादनभोजनैः ॥०३-२२२-३८॥
नैतामतिशये जातु वस्त्रभूषणभोजनैः। नापि परिवदे चाहं तां पृथां पृथिवीसमाम् ॥०३-२२२-३९॥
अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा। भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥०३-२२२-४०॥
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः। त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ॥०३-२२२-४१॥
दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम्। ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम् ॥०३-२२२-४२॥
तान्सर्वानग्रहारेण ब्राह्मणान्ब्रह्मवादिनः। यथार्हं पूजयामि स्म पानाच्छादनभोजनैः ॥०३-२२२-४३॥
शतं दासीसहस्राणि कौन्तेयस्य महात्मनः। कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः ॥०३-२२२-४४॥
महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः। मणीन्हेम च बिभ्रत्यो नृत्यगीतविशारदाः ॥०३-२२२-४५॥
तासां नाम च रूपं च भोजनाच्छादनानि च। सर्वासामेव वेदाहं कर्म चैव कृताकृतम् ॥०३-२२२-४६॥
शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः। पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ॥०३-२२२-४७॥
शतमश्वसहस्राणि दश नागायुतानि च। युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः ॥०३-२२२-४८॥
एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत्। येषां सङ्ख्याविधिं चैव प्रदिशामि शृणोमि च ॥०३-२२२-४९॥
अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः। आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥०३-२२२-५०॥
सर्वं राज्ञः समुदयमायं च व्ययमेव च। एकाहं वेद्मि कल्याणि पाण्डवानां यशस्विनाम् ॥०३-२२२-५१॥
मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः। उपासनरताः सर्वे घटन्ते स्म शुभानने ॥०३-२२२-५२॥
तमहं भारमासक्तमनाधृष्यं दुरात्मभिः। सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै ॥०३-२२२-५३॥
अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम्। एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम् ॥०३-२२२-५४॥
अनिशायां निशायां च सहायाः क्षुत्पिपासयोः। आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे ॥०३-२२२-५५॥
प्रथमं प्रतिबुध्यामि चरमं संविशामि च। नित्यकालमहं सत्ये एतत्संवननं मम ॥०३-२२२-५६॥
एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत्। असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये ॥०३-२२२-५७॥
तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा। उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम् ॥०३-२२२-५८॥
अभिपन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व मे। कामकारः सखीनां हि सोपहासं प्रभाषितुम् ॥०३-२२२-५९॥