03.223
द्रौपद्युवाच॥
इमं तु ते मार्गमपेतदोषं; वक्ष्यामि चित्तग्रहणाय भर्तुः। यस्मिन्यथावत्सखि वर्तमाना; भर्तारमाच्छेत्स्यसि कामिनीभ्यः ॥०३-२२३-१॥
नैतादृशं दैवतमस्ति सत्ये; सर्वेषु लोकेषु सदैवतेषु। यथा पतिस्तस्य हि सर्वकामा; लभ्याः प्रसादे कुपितश्च हन्यात् ॥०३-२२३-२॥
तस्मादपत्यं विविधाश्च भोगाः; शय्यासनान्यद्भुतदर्शनानि। वस्त्राणि माल्यानि तथैव गन्धाः; स्वर्गश्च लोको विषमा च कीर्तिः ॥०३-२२३-३॥
सुखं सुखेनेह न जातु लभ्यं; दुःखेन साध्वी लभते सुखानि। सा कृष्णमाराधय सौहृदेन; प्रेम्णा च नित्यं प्रतिकर्मणा च ॥०३-२२३-४॥
तथाशनैश्चारुभिरग्र्यमाल्यै; र्दाक्षिण्ययोगैर्विविधैश्च गन्धैः। अस्याः प्रियोऽस्मीति यथा विदित्वा; त्वामेव संश्लिष्यति सर्वभावैः ॥०३-२२३-५॥
श्रुत्वा स्वरं द्वारगतस्य भर्तुः; प्रत्युत्थिता तिष्ठ गृहस्य मध्ये। दृष्ट्वा प्रविष्टं त्वरितासनेन; पाद्येन चैव प्रतिपूजय त्वम् ॥०३-२२३-६॥
सम्प्रेषितायामथ चैव दास्या; मुत्थाय सर्वं स्वयमेव कुर्याः। जानातु कृष्णस्तव भावमेतं; सर्वात्मना मां भजतीति सत्ये ॥०३-२२३-७॥
त्वत्संनिधौ यत्कथयेत्पतिस्ते; यद्यप्यगुह्यं परिरक्षितव्यम्। काचित्सपत्नी तव वासुदेवं; प्रत्यादिशेत्तेन भवेद्विरागः ॥०३-२२३-८॥
प्रियांश्च रक्तांश्च हितांश्च भर्तु; स्तान्भोजयेथा विविधैरुपायैः। द्वेष्यैरपक्षैरहितैश्च तस्य; भिद्यस्व नित्यं कुहकोद्धतैश्च ॥०३-२२३-९॥
मदं प्रमादं पुरुषेषु हित्वा; संयच्छ भावं प्रतिगृह्य मौनम्। प्रद्युम्नसाम्बावपि ते कुमारौ; नोपासितव्यौ रहिते कदाचित् ॥०३-२२३-१०॥
महाकुलीनाभिरपापिकाभिः; स्त्रीभिः सतीभिस्तव सख्यमस्तु। चण्डाश्च शौण्डाश्च महाशनाश्च; चौराश्च दुष्टाश्चपलाश्च वर्ज्याः ॥०३-२२३-११॥
एतद्यशस्यं भगवेदनं च; स्वर्ग्यं तथा शत्रुनिबर्हणं च। महार्हमाल्याभरणाङ्गरागा; भर्तारमाराधय पुण्यगन्धा ॥०३-२२३-१२॥