03.227
वैशम्पायन उवाच॥
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा। हृष्टो भूत्वा पुनर्दीन इदं वचनमब्रवीत् ॥०३-२२७-१॥
ब्रवीषि यदिदं कर्ण सर्वं मे मनसि स्थितम्। न त्वभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः ॥०३-२२७-२॥
परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः। मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान् ॥०३-२२७-३॥
अथ वाप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम्। एवमप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति ॥०३-२२७-४॥
न हि द्वैतवने किञ्चिद्विद्यतेऽन्यत्प्रयोजनम्। उत्सादनमृते तेषां वनस्थानां मम द्विषाम् ॥०३-२२७-५॥
जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते। अब्रवीद्यच्च मां त्वां च सौबलं च वचस्तदा ॥०३-२२७-६॥
तानि पूर्वाणि वाक्यानि यच्चान्यत्परिदेवितम्। विचिन्त्य नाधिगच्छामि गमनायेतराय वा ॥०३-२२७-७॥
ममापि हि महान्हर्षो यदहं भीमफल्गुनौ। क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति ॥०३-२२७-८॥
न तथा प्राप्नुयां प्रीतिमवाप्य वसुधामपि। दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः ॥०३-२२७-९॥
किं नु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम्। द्रौपदीं कर्ण पश्येयं काषायवसनां वने ॥०३-२२७-१०॥
यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः। युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत् ॥०३-२२७-११॥
उपायं न तु पश्यामि येन गच्छेम तद्वनम्। यथा चाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः ॥०३-२२७-१२॥
स सौबलेन सहितस्तथा दुःशासनेन च। उपायं पश्य निपुणं येन गच्छेम तद्वनम् ॥०३-२२७-१३॥
अहमप्यद्य निश्चित्य गमनायेतराय वा। काल्यमेव गमिष्यामि समीपं पार्थिवस्य ह ॥०३-२२७-१४॥
मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे। उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः ॥०३-२२७-१५॥
ततो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति। व्यवसायं करिष्येऽहमनुनीय पितामहम् ॥०३-२२७-१६॥
तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान्प्रति। व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात् ॥०३-२२७-१७॥
ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत्। उपायः परिदृष्टोऽयं तं निबोध जनेश्वर ॥०३-२२७-१८॥
घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप। घोषयात्रापदेशेन गमिष्यामो न संशयः ॥०३-२२७-१९॥
उचितं हि सदा गन्तुं घोषयात्रां विशां पते। एवं च त्वां पिता राजन्समनुज्ञातुमर्हति ॥०३-२२७-२०॥
तथा कथयमानौ तौ घोषयात्राविनिश्चयम्। गान्धारराजः शकुनिः प्रत्युवाच हसन्निव ॥०३-२२७-२१॥
उपायोऽयं मया दृष्टो गमनाय निरामयः। अनुज्ञास्यति नो राजा चोदयिष्यति चाप्युत ॥०३-२२७-२२॥
घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप। घोषयात्रापदेशेन गमिष्यामो न संशयः ॥०३-२२७-२३॥
ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः। तदेव च विनिश्चित्य ददृशुः कुरुसत्तमम् ॥०३-२२७-२४॥