03.228
वैशम्पायन उवाच॥
धृतराष्ट्रं ततः सर्वे ददृशुर्जनमेजय। पृष्ट्वा सुखमथो राज्ञः पृष्ट्वा राज्ञा च भारत ॥०३-२२८-१॥
ततस्तैर्विहितः पूर्वं समङ्गो नाम बल्लवः। समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत् ॥०३-२२८-२॥
अनन्तरं च राधेयः शकुनिश्च विशां पते। आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् ॥०३-२२८-३॥
रमणीयेषु देशेषु घोषाः सम्प्रति कौरव। स्मारणासमयः प्राप्तो वत्सानामपि चाङ्कनम् ॥०३-२२८-४॥
मृगया चोचिता राजन्नस्मिन्काले सुतस्य ते। दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि ॥०३-२२८-५॥
धृतराष्ट्र उवाच॥
मृगया शोभना तात गवां च समवेक्षणम्। विश्रम्भस्तु न गन्तव्यो बल्लवानामिति स्मरे ॥०३-२२८-६॥
ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम्। अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् ॥०३-२२८-७॥
छद्मना निर्जितास्ते हि कर्शिताश्च महावने। तपोनित्याश्च राधेय समर्थाश्च महारथाः ॥०३-२२८-८॥
धर्मराजो न सङ्क्रुध्येद्भीमसेनस्त्वमर्षणः। यज्ञसेनस्य दुहिता तेज एव तु केवलम् ॥०३-२२८-९॥
यूयं चाप्यपराध्येयुर्दर्पमोहसमन्विताः। ततो विनिर्दहेयुस्ते तपसा हि समन्विताः ॥०३-२२८-१०॥
अथ वा सायुधा वीरा मन्युनाभिपरिप्लुताः। सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा ॥०३-२२८-११॥
अथ यूयं बहुत्वात्तानारभध्वं कथञ्चन। अनार्यं परमं तत्स्यादशक्यं तच्च मे मतम् ॥०३-२२८-१२॥
उषितो हि महाबाहुरिन्द्रलोके धनञ्जयः। दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम् ॥०३-२२८-१३॥
अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा। किं पुनः स कृतास्त्रोऽद्य न हन्याद्वो महारथः ॥०३-२२८-१४॥
अथ वा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ। उद्विग्नवासो विश्रम्भाद्दुःखं तत्र भविष्यति ॥०३-२२८-१५॥
अथ वा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे। तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः ॥०३-२२८-१६॥
तस्माद्गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः। न स्वयं तत्र गमनं रोचये तव भारत ॥०३-२२८-१७॥
शकुनिरुवाच॥
धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि। तेन द्वादश वर्षाणि वस्तव्यानीति भारत ॥०३-२२८-१८॥
अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः। युधिष्ठिरश्च कौन्तेयो न नः कोपं करिष्यति ॥०३-२२८-१९॥
मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम्। स्मारणं च चिकीर्षामो न तु पाण्डवदर्शनम् ॥०३-२२८-२०॥
न चानार्यसमाचारः कश्चित्तत्र भविष्यति। न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः ॥०३-२२८-२१॥
वैशम्पायन उवाच॥
एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः। दुर्योधनं सहामात्यमनुजज्ञे न कामतः ॥०३-२२८-२२॥
अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा। निर्ययौ भरतश्रेष्ठो बलेन महता वृतः ॥०३-२२८-२३॥
दुःशासनेन च तथा सौबलेन च देविना। संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः ॥०३-२२८-२४॥
तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः। पौराश्चानुययुः सर्वे सहदारा वनं च तत् ॥०३-२२८-२५॥
अष्टौ रथसहस्राणि त्रीणि नागायुतानि च। पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः ॥०३-२२८-२६॥
शकटापणवेश्याश्च वणिजो बन्दिनस्तथा। नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः ॥०३-२२८-२७॥
ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः। प्रावृषीव महावायोरुद्धतस्य विशां पते ॥०३-२२८-२८॥
गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा। प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः ॥०३-२२८-२९॥