Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.229
वैशम्पायन उवाच॥
अथ दुर्योधनो राजा तत्र तत्र वने वसन्। जगाम घोषानभितस्तत्र चक्रे निवेशनम् ॥०३-२२९-१॥
रमणीये समाज्ञाते सोदके समहीरुहे। देशे सर्वगुणोपेते चक्रुरावसथं नराः ॥०३-२२९-२॥
तथैव तत्समीपस्थान्पृथगावसथान्बहून्। कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः ॥०३-२२९-३॥
ददर्श स तदा गावः शतशोऽथ सहस्रशः। अङ्कैर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः ॥०३-२२९-४॥
अङ्कयामास वत्सांश्च जज्ञे चोपसृतास्त्वपि। बालवत्साश्च या गावः कालयामास ता अपि ॥०३-२२९-५॥
अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान्। वृतो गोपालकैः प्रीतो व्यहरत्कुरुनन्दनः ॥०३-२२९-६॥
स च पौरजनः सर्वः सैनिकाश्च सहस्रशः। यथोपजोषं चिक्रीडुर्वने तस्मिन्यथामराः ॥०३-२२९-७॥
ततो गोपाः प्रगातारः कुशला नृत्तवादिते। धार्तराष्ट्रमुपातिष्ठन्कन्याश्चैव स्वलङ्कृताः ॥०३-२२९-८॥
स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु। तेभ्यो यथार्हमन्नानि पानानि विविधानि च ॥०३-२२९-९॥
ततस्ते सहिताः सर्वे तरक्षून्महिषान्मृगान्। गवयर्क्षवराहांश्च समन्तात्पर्यकालयन् ॥०३-२२९-१०॥
स ताञ्शरैर्विनिर्भिन्दन्गजान्बध्नन्महावने। रमणीयेषु देशेषु ग्राहयामास वै मृगान् ॥०३-२२९-११॥
गोरसानुपयुञ्जान उपभोगांश्च भारत। पश्यन्सुरमणीयानि पुष्पितानि वनानि च ॥०३-२२९-१२॥
मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च। अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः ॥ ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत् ॥०३-२२९-१३॥
यदृच्छया च तदहो धर्मपुत्रो युधिष्ठिरः। ईजे राजर्षियज्ञेन सद्यस्केन विशां पते ॥ दिव्येन विधिना राजा वन्येन कुरुसत्तमः ॥०३-२२९-१४॥
कृत्वा निवेशमभितः सरसस्तस्य कौरवः। द्रौपद्या सहितो धीमान्धर्मपत्न्या नराधिपः ॥०३-२२९-१५॥
ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः। आक्रीडावसथाः क्षिप्रं क्रियन्तामिति भारत ॥०३-२२९-१६॥
ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः। चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः ॥०३-२२९-१७॥
सेनाग्रं धार्तराष्ट्रस्य प्राप्तं द्वैतवनं सरः। प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन् ॥०३-२२९-१८॥
तत्र गन्धर्वराजो वै पूर्वमेव विशां पते। कुबेरभवनाद्राजन्नाजगाम गणावृतः ॥०३-२२९-१९॥
गणैरप्सरसां चैव त्रिदशानां तथात्मजैः। विहारशीलः क्रीडार्थं तेन तत्संवृतं सरः ॥०३-२२९-२०॥
तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः। प्रतिजग्मुस्ततो राजन्यत्र दुर्योधनो नृपः ॥०३-२२९-२१॥
स तु तेषां वचः श्रुत्वा सैनिकान्युद्धदुर्मदान्। प्रेषयामास कौरव्य उत्सारयत तानिति ॥०३-२२९-२२॥
तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः। सरो द्वैतवनं गत्वा гन्धर्वानिदमब्रुवन् ॥०३-२२९-२३॥
राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली। विजिहीर्षुरिहायाति तदर्थमपसर्पत ॥०३-२२९-२४॥
एवमुक्तास्तु गन्धर्वाः प्रहसन्तो विशां पते। प्रत्यब्रुवंस्तान्पुरुषानिदं सुपरुषं वचः ॥०३-२२९-२५॥
न चेतयति वो राजा मन्दबुद्धिः सुयोधनः। योऽस्मानाज्ञापयत्येवं वश्यानिव दिवौकसः ॥०३-२२९-२६॥
यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः। ये तस्य वचनादेवमस्मान्ब्रूत विचेतसः ॥०३-२२९-२७॥
गच्छत त्वरिताः सर्वे यत्र राजा स कौरवः। द्वेष्यं माद्यैव गच्छध्वं धर्मराजनिवेशनम् ॥०३-२२९-२८॥
एवमुक्तास्तु गन्धर्वै राज्ञः सेनाग्रयायिनः। सम्प्राद्रवन्यतो राजा धृतराष्ट्रसुतोऽभवत् ॥०३-२२९-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.