04.018
द्रौपद्युवाच॥
इदं तु मे महद्दुःखं यत्प्रवक्ष्यामि भारत। न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् ॥०४-१८-१॥
शार्दूलैर्महिषैः सिंहैरागारे युध्यसे यदा। कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलो भवेत् ॥०४-१८-२॥
प्रेक्षासमुत्थिता चापि कैकेयी ताः स्त्रियो वदेत्। प्रेक्ष्य मामनवद्याङ्गी कश्मलोपहतामिव ॥०४-१८-३॥
स्नेहात्संवासजान्मन्ये सूदमेषा शुचिस्मिता। योध्यमानं महावीर्यैरिमं समनुशोचति ॥०४-१८-४॥
कल्याणरूपा सैरन्ध्री बल्लवश्चातिसुन्दरः। स्त्रीणां च चित्तं दुर्ज्ञेयं युक्तरूपौ च मे मतौ ॥०४-१८-५॥
सैरन्ध्री प्रियसंवासान्नित्यं करुणवेदिनी। अस्मिन्राजकुले चेमौ तुल्यकालनिवासिनौ ॥०४-१८-६॥
इति ब्रुवाणा वाक्यानि सा मां नित्यमवेदयत्। क्रुध्यन्तीं मां च सम्प्रेक्ष्य समशङ्कत मां त्वयि ॥०४-१८-७॥
तस्यां तथा ब्रुवत्यां तु दुःखं मां महदाविशत्। शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे ॥०४-१८-८॥
यः सदेवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत्। सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा ॥०४-१८-९॥
योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम्। सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ॥०४-१८-१०॥
यस्माद्भयममित्राणां सदैव पुरुषर्षभात्। स लोकपरिभूतेन वेषेणास्ते धनञ्जयः ॥०४-१८-११॥
यस्य ज्यातलनिर्घोषात्समकम्पन्त शत्रवः। स्त्रियो गीतस्वनं तस्य मुदिताः पर्युपासते ॥०४-१८-१२॥
किरीटं सूर्यसङ्काशं यस्य मूर्धनि शोभते। वेणीविकृतकेशान्तः सोऽयमद्य धनञ्जयः ॥०४-१८-१३॥
यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि। आधारः सर्वविद्यानां स धारयति कुण्डले ॥०४-१८-१४॥
यं स्म राजसहस्राणि तेजसाप्रतिमानि वै। समरे नातिवर्तन्ते वेलामिव महार्णवः ॥०४-१८-१५॥
सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा। आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ॥०४-१८-१६॥
यस्य स्म रथघोषेण समकम्पत मेदिनी। सपर्वतवना भीम सहस्थावरजङ्गमा ॥०४-१८-१७॥
यस्मिञ्जाते महाभागे कुन्त्याः शोको व्यनश्यत। स शोचयति मामद्य भीमसेन तवानुजः ॥०४-१८-१८॥
भूषितं तमलङ्कारैः कुण्डलैः परिहाटकैः। कम्बुपाणिनमायान्तं दृष्ट्वा सीदति मे मनः ॥०४-१८-१९॥
तं वेणीकृतकेशान्तं भीमधन्वानमर्जुनम्। कन्यापरिवृतं दृष्ट्वा भीम सीदति मे मनः ॥०४-१८-२०॥
यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम्। प्रभिन्नमिव मातङ्गं परिकीर्णं करेणुभिः ॥०४-१८-२१॥
मत्स्यमर्थपतिं पार्थं विराटं समुपस्थितम्। पश्यामि तूर्यमध्यस्थं दिशो नश्यन्ति मे तदा ॥०४-१८-२२॥
नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनञ्जयम्। अजातशत्रुं कौरव्यं मग्नं दुर्द्यूतदेविनम् ॥०४-१८-२३॥
तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम्। गोषु गोवेषमायान्तं पाण्डुभूतास्मि भारत ॥०४-१८-२४॥
सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः। न विन्दामि महाबाहो सहदेवस्य दुष्कृतम् ॥ यस्मिन्नेवंविधं दुःखं प्राप्नुयात्सत्यविक्रमः ॥०४-१८-२५॥
दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम्। गोषु गोवृषसङ्काशं मत्स्येनाभिनिवेशितम् ॥०४-१८-२६॥
संरब्धं रक्तनेपथ्यं गोपालानां पुरोगमम्। विराटमभिनन्दन्तमथ मे भवति ज्वरः ॥०४-१८-२७॥
सहदेवं हि मे वीरं नित्यमार्या प्रशंसति। महाभिजनसम्पन्नो वृत्तवाञ्शीलवानिति ॥०४-१८-२८॥
ह्रीनिषेधो मधुरवाग्धार्मिकश्च प्रियश्च मे। स तेऽरण्येषु बोद्धव्यो याज्ञसेनि क्षपास्वपि ॥०४-१८-२९॥
तं दृष्ट्वा व्यापृतं गोषु वत्सचर्मक्षपाशयम्। सहदेवं युधां श्रेष्ठं किं नु जीवामि पाण्डव ॥०४-१८-३०॥
यस्त्रिभिर्नित्यसम्पन्नो रूपेणास्त्रेण मेधया। सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् ॥०४-१८-३१॥
अभ्यकीर्यन्त वृन्दानि दामग्रन्थिमुदीक्षताम्। विनयन्तं जवेनाश्वान्महाराजस्य पश्यतः ॥०४-१८-३२॥
अपश्यमेनं श्रीमन्तं मत्स्यं भ्राजिष्णुमुत्तमम्। विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनः ॥०४-१८-३३॥
किं नु मां मन्यसे पार्थ सुखितेति परन्तप। एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः ॥०४-१८-३४॥
अतः प्रतिविशिष्टानि दुःखान्यन्यानि भारत। वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्यपि ॥०४-१८-३५॥
युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत। शोषयन्ति शरीरं मे किं नु दुःखमतः परम् ॥०४-१८-३६॥