04.067
विराट उवाच॥
किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम। प्रतिग्रहीतुं नेमां त्वं मया दत्तामिहेच्छसि ॥०४-६७-१॥
अर्जुन उवाच॥
अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव। रहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि ॥०४-६७-२॥
प्रियो बहुमतश्चाहं नर्तको गीतकोविदः। आचार्यवच्च मां नित्यं मन्यते दुहिता तव ॥०४-६७-३॥
वयःस्थया तया राजन्सह संवत्सरोषितः। अतिशङ्का भवेत्स्थाने तव लोकस्य चाभिभो ॥०४-६७-४॥
तस्मान्निमन्त्रये त्वाहं दुहितुः पृथिवीपते। शुद्धो जितेन्द्रियो दान्तस्तस्याः शुद्धिः कृता मया ॥०४-६७-५॥
स्नुषाया दुहितुर्वापि पुत्रे चात्मनि वा पुनः। अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति ॥०४-६७-६॥
अभिषङ्गादहं भीतो मिथ्याचारात्परन्तप। स्नुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् ॥०४-६७-७॥
स्वस्रीयो वासुदेवस्य साक्षाद्देवशिशुर्यथा। दयितश्चक्रहस्तस्य बाल एवास्त्रकोविदः ॥०४-६७-८॥
अभिमन्युर्महाबाहुः पुत्रो मम विशां पते। जामाता तव युक्तो वै भर्ता च दुहितुस्तव ॥०४-६७-९॥
विराट उवाच॥
उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनञ्जये। य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः ॥०४-६७-१०॥
यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम्। सर्वे कामाः समृद्धा मे सम्बन्धी यस्य मेऽर्जुनः ॥०४-६७-११॥
वैशम्पायन उवाच॥
एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः। अन्वजानात्स संयोगं समये मत्स्यपार्थयोः ॥०४-६७-१२॥
ततो मित्रेषु सर्वेषु वासुदेवे च भारत। प्रेषयामास कौन्तेयो विराटश्च महीपतिः ॥०४-६७-१३॥
ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः। उपप्लव्ये विराटस्य समपद्यन्त सर्वशः ॥०४-६७-१४॥
तस्मिन्वसंश्च बीभत्सुरानिनाय जनार्दनम्। आनर्तेभ्योऽपि दाशार्हानभिमन्युं च पाण्डवः ॥०४-६७-१५॥
काशिराजश्च शैब्यश्च प्रीयमाणौ युधिष्ठिरे। अक्षौहिणीभ्यां सहितावागतौ पृथिवीपते ॥०४-६७-१६॥
अक्षौहिण्या च तेजस्वी यज्ञसेनो महाबलः। द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः ॥०४-६७-१७॥
धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः। समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः ॥ सर्वे शस्त्रास्त्रसम्पन्नाः सर्वे शूरास्तनुत्यजः ॥०४-६७-१८॥
तानागतानभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः। प्रीतोऽभवद्दुहितरं दत्त्वा तामभिमन्यवे ॥०४-६७-१९॥
ततः प्रत्युपयातेषु पार्थिवेषु ततस्ततः। तत्रागमद्वासुदेवो वनमाली हलायुधः ॥ कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः ॥०४-६७-२०॥
अनाधृष्टिस्तथाक्रूरः साम्बो निशठ एव च। अभिमन्युमुपादाय सह मात्रा परन्तपाः ॥०४-६७-२१॥
इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः। आययुः सहिताः सर्वे परिसंवत्सरोषिताः ॥०४-६७-२२॥
दश नागसहस्राणि हयानां च शतायुतम्। रथानामर्बुदं पूर्णं निखर्वं च पदातिनाम् ॥०४-६७-२३॥
वृष्ण्यन्धकाश्च बहवो भोजाश्च परमौजसः। अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम् ॥०४-६७-२४॥
पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम्। स्त्रियो रत्नानि वासांसि पृथक्पृथगनेकशः ॥ ततो विवाहो विधिवद्ववृते मत्स्यपार्थयोः ॥०४-६७-२५॥
ततः शङ्खाश्च भेर्यश्च गोमुखाडम्बरास्तथा। पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि ॥०४-६७-२६॥
उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशः पशून्। सुरामैरेयपानानि प्रभूतान्यभ्यहारयन् ॥०४-६७-२७॥
गायनाख्यानशीलाश्च नटा वैतालिकास्तथा। स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः ॥०४-६७-२८॥
सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः। आजग्मुश्चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः ॥०४-६७-२९॥
वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलङ्कृताः। सर्वाश्चाभ्यभवत्कृष्णा रूपेण यशसा श्रिया ॥०४-६७-३०॥
परिवार्योत्तरां तास्तु राजपुत्रीमलङ्कृताम्। सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे ॥०४-६७-३१॥
तां प्रत्यगृह्णात्कौन्तेयः सुतस्यार्थे धनञ्जयः। सौभद्रस्यानवद्याङ्गीं विराटतनयां तदा ॥०४-६७-३२॥
तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारयन्। स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः ॥०४-६७-३३॥
प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम्। विवाहं कारयामास सौभद्रस्य महात्मनः ॥०४-६७-३४॥
तस्मै सप्त सहस्राणि हयानां वातरंहसाम्। द्वे च नागशते मुख्ये प्रादाद्बहु धनं तदा ॥०४-६७-३५॥
कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः। ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः ॥०४-६७-३६॥
गोसहस्राणि रत्नानि वस्त्राणि विविधानि च। भूषणानि च मुख्यानि यानानि शयनानि च ॥०४-६७-३७॥
तन्महोत्सवसङ्काशं हृष्टपुष्टजनावृतम्। नगरं मत्स्यराजस्य शुशुभे भरतर्षभ ॥०४-६७-३८॥