05.007
वैशम्पायन उवाच॥
गते द्वारवतीं कृष्णे बलदेवे च माधवे। सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तथा ॥५-७-१॥
सर्वमागमयामास पाण्डवानां विचेष्टितम्। धृतराष्ट्रात्मजो राजा दूतैः प्रणिहितैश्चरैः ॥५-७-२॥
स श्रुत्वा माधवं यातं सदश्वैरनिलोपमैः। बलेन नातिमहता द्वारकामभ्ययात्पुरीम् ॥५-७-३॥
तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः। आनर्तनगरीं रम्यां जगामाशु धनञ्जयः ॥५-७-४॥
तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ। सुप्तं ददृशतुः कृष्णं शयानं चोपजग्मतुः ॥५-७-५॥
ततः शयाने गोविन्दे प्रविवेश सुयोधनः। उच्छीर्षतश्च कृष्णस्य निषसाद वरासने ॥५-७-६॥
ततः किरीटी तस्यानु प्रविवेश महामनाः। पश्चार्धे च स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः ॥५-७-७॥
प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनम्। स तयोः स्वागतं कृत्वा यथार्हं प्रतिपूज्य च ॥ तदागमनजं हेतुं पप्रच्छ मधुसूदनः ॥५-७-८॥
ततो दुर्योधनः कृष्णमुवाच प्रहसन्निव। विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति ॥५-७-९॥
समं हि भवतः सख्यं मयि चैवार्जुनेऽपि च। तथा सम्बन्धकं तुल्यमस्माकं त्वयि माधव ॥५-७-१०॥
अहं चाभिगतः पूर्वं त्वामद्य मधुसूदन। पूर्वं चाभिगतं सन्तो भजन्ते पूर्वसारिणः ॥५-७-११॥
त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन। सततं संमतश्चैव सद्वृत्तमनुपालय ॥५-७-१२॥
कृष्ण उवाच॥
भवानभिगतः पूर्वमत्र मे नास्ति संशयः। दृष्टस्तु प्रथमं राजन्मया पार्थो धनञ्जयः ॥५-७-१३॥
तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात्। साहाय्यमुभयोरेव करिष्यामि सुयोधन ॥५-७-१४॥
प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः। तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनञ्जयः ॥५-७-१५॥
मत्संहननतुल्यानां गोपानामर्बुदं महत्। नारायणा इति ख्याताः सर्वे सङ्ग्रामयोधिनः ॥५-७-१६॥
ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः। अयुध्यमानः सङ्ग्रामे न्यस्तशस्त्रोऽहमेकतः ॥५-७-१७॥
आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम्। तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः ॥५-७-१८॥
वैशम्पायन उवाच॥
एवमुक्तस्तु कृष्णेन कुन्तीपुत्रो धनञ्जयः। अयुध्यमानं सङ्ग्रामे वरयामास केशवम् ॥५-७-१९॥
सहस्राणां सहस्रं तु योधानां प्राप्य भारत। कृष्णं चापहृतं ज्ञात्वा सम्प्राप परमां मुदम् ॥५-७-२०॥
दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः। ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् ॥५-७-२१॥
सर्वं चागमने हेतुं स तस्मै संन्यवेदयत्। प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः ॥५-७-२२॥
विदितं ते नरव्याघ्र सर्वं भवितुमर्हति। यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा ॥५-७-२३॥
निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन। मया सम्बन्धकं तुल्यमिति राजन्पुनः पुनः ॥५-७-२४॥
न च तद्वाक्यमुक्तं वै केशवः प्रत्यपद्यत। न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम् ॥५-७-२५॥
नाहं सहायः पार्थानां नापि दुर्योधनस्य वै। इति मे निश्चिता बुद्दिर्वासुदेवमवेक्ष्य ह ॥५-७-२६॥
जातोऽसि भारते वंशे सर्वपार्थिवपूजिते। गच्छ युध्यस्व धर्मेण क्षात्रेण भरतर्षभ ॥५-७-२७॥
इत्येवमुक्तः स तदा परिष्वज्य हलायुधम्। कृष्णं चापहृतं ज्ञात्वा युद्धान्मेने जितं जयम् ॥५-७-२८॥
सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः। कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा ॥५-७-२९॥
स तेन सर्वसैन्येन भीमेन कुरुनन्दनः। वृतः प्रतिययौ हृष्टः सुहृदः सम्प्रहर्षयन् ॥५-७-३०॥
गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत्। अयुध्यमानः कां बुद्धिमास्थायाहं त्वया वृतः ॥५-७-३१॥
अर्जुन उवाच॥
भवान्समर्थस्तान्सर्वान्निहन्तुं नात्र संशयः। निहन्तुमहमप्येकः समर्थः पुरुषोत्तम ॥५-७-३२॥
भवांस्तु कीर्तिमाँल्लोके तद्यशस्त्वां गमिष्यति। यशसा चाहमप्यर्थी तस्मादसि मया वृतः ॥५-७-३३॥
सारथ्यं तु त्वया कार्यमिति मे मानसं सदा। चिररात्रेप्सितं कामं तद्भवान्कर्तुमर्हति ॥५-७-३४॥
वासुदेव उवाच॥
उपपन्नमिदं पार्थ यत्स्पर्धेथा मया सह। सारथ्यं ते करिष्यामि कामः सम्पद्यतां तव ॥५-७-३५॥
वैशम्पायन उवाच॥
एवं प्रमुदितः पार्थः कृष्णेन सहितस्तदा। वृतो दाशार्हप्रवरैः पुनरायाद्युधिष्ठिरम् ॥५-७-३६॥