05.031
युधिष्ठिर उवाच॥
उत सन्तमसन्तं च बालं वृद्धं च सञ्जय। उताबलं बलीयांसं धाता प्रकुरुते वशे ॥५-३१-१॥
उत बालाय पाण्डित्यं पण्डितायोत बालताम्। ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥५-३१-२॥
अलं विज्ञापनाय स्यादाचक्षीथा यथातथम्। अथो मन्त्रं मन्त्रयित्वा अन्योन्येनातिहृष्टवत् ॥५-३१-३॥
गावल्गणे कुरून्गत्वा धृतराष्ट्रं महाबलम्। अभिवाद्योपसङ्गृह्य ततः पृच्छेरनामयम् ॥५-३१-४॥
ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम्। तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः ॥५-३१-५॥
तव प्रसादाद्बालास्ते प्राप्ता राज्यमरिंदम। राज्ये तान्स्थापयित्वाग्रे नोपेक्षीर्विनशिष्यतः ॥५-३१-६॥
सर्वमप्येतदेकस्य नालं सञ्जय कस्यचित्। तात संहत्य जीवामो मा द्विषद्भ्यो वशं गमः ॥५-३१-७॥
तथा भीष्मं शान्तनवं भारतानां पितामहम्। शिरसाभिवदेथास्त्वं मम नाम प्रकीर्तयन् ॥५-३१-८॥
अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः। भवता शन्तनोर्वंशो निमग्नः पुनरुद्धृतः ॥५-३१-९॥
स त्वं कुरु तथा तात स्वमतेन पितामह। यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम् ॥५-३१-१०॥
तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम्। अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरः ॥५-३१-११॥
अथो सुयोधनं ब्रूया राजपुत्रममर्षणम्। मध्ये कुरूणामासीनमनुनीय पुनः पुनः ॥५-३१-१२॥
अपश्यन्मामुपेक्षन्तं कृष्णामेकां सभागताम्। तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ॥५-३१-१३॥
एवं पूर्वापरान्क्लेशानतितिक्षन्त पाण्डवाः। यथा बलीयसः सन्तस्तत्सर्वं कुरवो विदुः ॥५-३१-१४॥
यन्नः प्राव्राजयः सौम्य अजिनैः प्रतिवासितान्। तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ॥५-३१-१५॥
यत्तत्सभायामाक्रम्य कृष्णां केशेष्वधर्षयत्। दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम् ॥५-३१-१६॥
यथोचितं स्वकं भागं लभेमहि परन्तप। निवर्तय परद्रव्ये बुद्धिं गृद्धां नरर्षभ ॥५-३१-१७॥
शान्तिरेवं भवेद्राजन्प्रीतिश्चैव परस्परम्। राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम् ॥५-३१-१८॥
कुशस्थलं वृकस्थलमासन्दी वारणावतम्। अवसानं भवेदत्र किञ्चिदेव तु पञ्चमम् ॥५-३१-१९॥
भ्रातॄणां देहि पञ्चानां ग्रामान्पञ्च सुयोधन। शान्तिर्नोऽस्तु महाप्राज्ञ ज्ञातिभिः सह सञ्जय ॥५-३१-२०॥
भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम्। स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह ॥५-३१-२१॥
अक्षतान्कुरुपाञ्चालान्पश्येम इति कामये। सर्वे सुमनसस्तात शाम्याम भरतर्षभ ॥५-३१-२२॥
अलमेव शमायास्मि तथा युद्धाय सञ्जय। धर्मार्थयोरलं चाहं मृदवे दारुणाय च ॥५-३१-२३॥