05.030
सञ्जय उवाच॥
आमन्त्रये त्वा नरदेवदेव; गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु। कच्चिन्न वाचा वृजिनं हि किं चि; दुच्चारितं मे मनसोऽभिषङ्गात् ॥५-३०-१॥
जनार्दनं भीमसेनार्जुनौ च; माद्रीसुतौ सात्यकिं चेकितानम्। आमन्त्र्य गच्छामि शिवं सुखं वः; सौम्येन मां पश्यत चक्षुषा नृपाः ॥५-३०-२॥
युधिष्ठिर उवाच॥
अनुज्ञातः सञ्जय स्वस्ति गच्छ; न नोऽकार्षीरप्रियं जातु किञ्चित्। विद्मश्च त्वा ते च वयं च सर्वे; शुद्धात्मानं मध्यगतं सभास्थम् ॥५-३०-३॥
आप्तो दूतः सञ्जय सुप्रियोऽसि; कल्याणवाक्षीलवान्दृष्टिमांश्च। न मुह्येस्त्वं सञ्जय जातु मत्या; न च क्रुध्येरुच्यमानोऽपि तथ्यम् ॥५-३०-४॥
न मर्मगां जातु वक्तासि रूक्षां; नोपस्तुतिं कटुकां नोत शुक्ताम्। धर्मारामामर्थवतीमहिंस्रा; मेतां वाचं तव जानामि सूत ॥५-३०-५॥
त्वमेव नः प्रियतमोऽसि दूत; इहागच्छेद्विदुरो वा द्वितीयः। अभीक्ष्णदृष्टोऽसि पुरा हि नस्त्वं; धनञ्जयस्यात्मसमः सखासि ॥५-३०-६॥
इतो गत्वा सञ्जय क्षिप्रमेव; उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः। विशुद्धवीर्यांश्चरणोपपन्ना; न्कुले जातान्सर्वधर्मोपपन्नान् ॥५-३०-७॥
स्वाध्यायिनो ब्राह्मणा भिक्षवश्च; तपस्विनो ये च नित्या वनेषु। अभिवाद्या वै मद्वचनेन वृद्धा; स्तथेतरेषां कुशलं वदेथाः ॥५-३०-८॥
पुरोहितं धृतराष्ट्रस्य राज्ञ; आचार्याश्च ऋत्विजो ये च तस्य। तैश्च त्वं तात सहितैर्यथार्हं; सङ्गच्छेथाः कुशलेनैव सूत ॥५-३०-९॥
आचार्य इष्टोऽनपगो विधेयो; वेदानीप्सन्ब्रह्मचर्यं चचार। योऽस्त्रं चतुष्पात्पुनरेव चक्रे; द्रोणः प्रसन्नोऽभिवाद्यो यथार्हम् ॥५-३०-१०॥
अधीतविद्यश्चरणोपपन्नो; योऽस्त्रं चतुष्पात्पुनरेव चक्रे। गन्धर्वपुत्रप्रतिमं तरस्विनं; तमश्वत्थामानं कुशलं स्म पृच्छेः ॥५-३०-११॥
शारद्वतस्यावसथं स्म गत्वा; महारथस्यास्त्रविदां वरस्य। त्वं मामभीक्ष्णं परिकीर्तयन्वै; कृपस्य पादौ सञ्जय पाणिना स्पृशेः ॥५-३०-१२॥
यस्मिञ्शौर्यमानृशंस्यं तपश्च; प्रज्ञा शीलं श्रुतिसत्त्वे धृतिश्च। पादौ गृहीत्वा कुरुसत्तमस्य; भीष्मस्य मां तत्र निवेदयेथाः ॥५-३०-१३॥
प्रज्ञाचक्षुर्यः प्रणेता कुरूणां; बहुश्रुतो वृद्धसेवी मनीषी। तस्मै राज्ञे स्थविरायाभिवाद्य; आचक्षीथाः सञ्जय मामरोगम् ॥५-३०-१४॥
ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो; मूर्खः शठः सञ्जय पापशीलः। प्रशास्ता वै पृथिवी येन सर्वा; सुयोधनं कुशलं तात पृच्छेः ॥५-३०-१५॥
भ्राता कनीयानपि तस्य मन्द; स्तथाशीलः सञ्जय सोऽपि शश्वत्। महेष्वासः शूरतमः कुरूणां; दुःशासनं कुशलं तात पृच्छेः ॥५-३०-१६॥
वृन्दारकं कविमर्थेष्वमूढं; महाप्रज्ञं सर्वधर्मोपपन्नम्। न तस्य युद्धं रोचते वै कदा चि; द्वैश्यापुत्रं कुशलं तात पृच्छेः ॥५-३०-१७॥
निकर्तने देवने योऽद्वितीय; श्छन्नोपधः साधुदेवी मताक्षः। यो दुर्जयो देवितव्येन सङ्ख्ये; स चित्रसेनः कुशलं तात वाच्यः ॥५-३०-१८॥
यस्य कामो वर्तते नित्यमेव; नान्यः शमाद्भारतानामिति स्म। स बाह्लिकानामृषभो मनस्वी; पुरा यथा माभिवदेत्प्रसन्नः ॥५-३०-१९॥
गुणैरनेकैः प्रवरैश्च युक्तो; विज्ञानवान्नैव च निष्ठुरो यः। स्नेहादमर्षं सहते सदैव; स सोमदत्तः पूजनीयो मतो मे ॥५-३०-२०॥
अर्हत्तमः कुरुषु सौमदत्तिः; स नो भ्राता सञ्जय मत्सखा च। महेष्वासो रथिनामुत्तमो यः; सहामात्यः कुशलं तस्य पृच्छेः ॥५-३०-२१॥
ये चैवान्ये कुरुमुख्या युवानः; पुत्राः पौत्रा भ्रातरश्चैव ये नः। यं यमेषां येन येनाभिगच्छे; रनामयं मद्वचनेन वाच्यः ॥५-३०-२२॥
ये राजानः पाण्डवायोधनाय; समानीता धार्तराष्ट्रेण केचित्। वसातयः शाल्वकाः केकयाश्च; तथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः ॥५-३०-२३॥
प्राच्योदीच्या दाक्षिणात्याश्च शूरा; स्तथा प्रतीच्याः पार्वतीयाश्च सर्वे। अनृशंसाः शीलवृत्तोपपन्ना; स्तेषां सर्वेषां कुशलं तात पृच्छेः ॥५-३०-२४॥
हस्त्यारोहा रथिनः सादिनश्च; पदातयश्चार्यसङ्घा महान्तः। आख्याय मां कुशलिनं स्म तेषा; मनामयं परिपृच्छेः समग्रान् ॥५-३०-२५॥
तथा राज्ञो ह्यर्थयुक्तानमात्या; न्दौवारिकान्ये च सेनां नयन्ति। आयव्ययं ये गणयन्ति युक्ता; अर्थांश्च ये महतश्चिन्तयन्ति ॥५-३०-२६॥
गान्धारराजः शकुनिः पार्वतीयो; निकर्तने योऽद्वितीयोऽक्षदेवी। मानं कुर्वन्धार्तराष्ट्रस्य सूत; मिथ्याबुद्धेः कुशलं तात पृच्छेः ॥५-३०-२७॥
यः पाण्डवानेकरथेन वीरः; समुत्सहत्यप्रधृष्यान्विजेतुम्। यो मुह्यतां मोहयिताद्वितीयो; वैकर्तनं कुशलं तात पृच्छेः ॥५-३०-२८॥
स एव भक्तः स गुरुः स भृत्यः; स वै पिता स च माता सुहृच्च। अगाधबुद्धिर्विदुरो दीर्घदर्शी; स नो मन्त्री कुशलं तात पृच्छेः ॥५-३०-२९॥
वृद्धाः स्त्रियो याश्च गुणोपपन्ना; या ज्ञायन्ते सञ्जय मातरस्ताः। ताभिः सर्वाभिः सहिताभिः समेत्य; स्त्रीभिर्वृद्धाभिरभिवादं वदेथाः ॥५-३०-३०॥
कच्चित्पुत्रा जीवपुत्राः सुसम्य; ग्वर्तन्ते वो वृत्तिमनृशंसरूपाम्। इति स्मोक्त्वा सञ्जय ब्रूहि पश्चा; दजातशत्रुः कुशली सपुत्रः ॥५-३०-३१॥
या नो भार्याः सञ्जय वेत्थ तत्र; तासां सर्वासां कुशलं तात पृच्छेः। सुसङ्गुप्ताः सुरभयोऽनवद्याः; कच्चिद्गृहानावसथाप्रमत्ताः ॥५-३०-३२॥
कच्चिद्वृत्तिं श्वशुरेषु भद्राः; कल्याणीं वर्तध्वमनृशंसरूपाम्। यथा च वः स्युः पतयोऽनुकूला; स्तथा वृत्तिमात्मनः स्थापयध्वम् ॥५-३०-३३॥
या नः स्नुषाः सञ्जय वेत्थ तत्र; प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः। प्रजावत्यो ब्रूहि समेत्य ताश्च; युधिष्ठिरो वोऽभ्यवदत्प्रसन्नः ॥५-३०-३४॥
कन्याः स्वजेथाः सदनेषु सञ्जय; अनामयं मद्वचनेन पृष्ट्वा। कल्याणा वः सन्तु पतयोऽनुकूला; यूयं पतीनां भवतानुकूलाः ॥५-३०-३५॥
अलङ्कृता वस्त्रवत्यः सुगन्धा; अबीभत्साः सुखिता भोगवत्यः। लघु यासां दर्शनं वाक्च लघ्वी; वेशस्त्रियः कुशलं तात पृच्छेः ॥५-३०-३६॥
दासीपुत्रा ये च दासाः कुरूणां; तदाश्रया बहवः कुब्जखञ्जाः। आख्याय मां कुशलिनं स्म तेभ्यो; अनामयं परिपृच्छेर्जघन्यम् ॥५-३०-३७॥
कच्चिद्वृत्तिर्वर्तते वै पुराणी; कच्चिद्भोगान्धार्तराष्ट्रो ददाति। अङ्गहीनान्कृपणान्वामनांश्च; आनृशंस्याद्धृतराष्ट्रो बिभर्ति ॥५-३०-३८॥
अन्धाश्च सर्वे स्थविरास्तथैव; हस्ताजीवा बहवो येऽत्र सन्ति। आख्याय मां कुशलिनं स्म तेषा; मनामयं परिपृच्छेर्जघन्यम् ॥५-३०-३९॥
मा भैष्ट दुःखेन कुजीवितेन; नूनं कृतं परलोकेषु पापम्। निगृह्य शत्रून्सुहृदोऽनुगृह्य; वासोभिरन्नेन च वो भरिष्ये ॥५-३०-४०॥
सन्त्येव मे ब्राह्मणेभ्यः कृतानि; भावीन्यथो नो बत वर्तयन्ति। पश्याम्यहं युक्तरूपांस्तथैव; तामेव सिद्धिं श्रावयेथा नृपं तम् ॥५-३०-४१॥
ये चानाथा दुर्बलाः सर्वकाल; मात्मन्येव प्रयतन्तेऽथ मूढाः। तांश्चापि त्वं कृपणान्सर्वथैव; अस्मद्वाक्यात्कुशलं तात पृच्छेः ॥५-३०-४२॥
ये चाप्यन्ये संश्रिता धार्तराष्ट्रा; न्नानादिग्भ्योऽभ्यागताः सूतपुत्र। दृष्ट्वा तांश्चैवार्हतश्चापि सर्वा; न्सम्पृच्छेथाः कुशलं चाव्ययं च ॥५-३०-४३॥
एवं सर्वानागताभ्यागतांश्च; राज्ञो दूतान्सर्वदिग्भ्योऽभ्युपेतान्। पृष्ट्वा सर्वान्कुशलं तांश्च सूत; पश्चादहं कुशली तेषु वाच्यः ॥५-३०-४४॥
न हीदृशाः सन्त्यपरे पृथिव्यां; ये योधका धार्तराष्ट्रेण लब्धाः। धर्मस्तु नित्यो मम धर्म एव; महाबलः शत्रुनिबर्हणाय ॥५-३०-४५॥
इदं पुनर्वचनं धार्तराष्ट्रं; सुयोधनं सञ्जय श्रावयेथाः। यस्ते शरीरे हृदयं दुनोति; कामः कुरूनसपत्नोऽनुशिष्याम् ॥५-३०-४६॥
न विद्यते युक्तिरेतस्य का चि; न्नैवंविधाः स्याम यथा प्रियं ते। ददस्व वा शक्रपुरं ममैव; युध्यस्व वा भारतमुख्य वीर ॥५-३०-४७॥