05.045
सनत्सुजात उवाच॥
यत्तच्छुक्रं महज्ज्योतिर्दीप्यमानं महद्यशः। तद्वै देवा उपासन्ते यस्मादर्को विराजते ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१॥
शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते। तच्छुक्रं ज्योतिषां मध्येऽतप्तं तपति तापनम् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-२॥
आपोऽथ अद्भ्यः सलिलस्य मध्ये; उभौ देवौ शिश्रियातेऽन्तरिक्षे। स सध्रीचीः स विषूचीर्वसाना; उभे बिभर्ति पृथिवीं दिवं च ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-३॥
उभौ च देवौ पृथिवीं दिवं च; दिशश्च शुक्रं भुवनं बिभर्ति। तस्माद्दिशः सरितश्च स्रवन्ति; तस्मात्समुद्रा विहिता महान्तः योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-४॥
चक्रे रथस्य तिष्ठन्तं ध्रुवस्याव्ययकर्मणः। केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-५॥
न सादृश्ये तिष्ठति रूपमस्य; न चक्षुषा पश्यति कश्चिदेनम्। मनीषयाथो मनसा हृदा च; य एवं विदुरमृतास्ते भवन्ति ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-६॥
द्वादशपूगां सरितं देवरक्षितम्। मधु ईशन्तस्तदा सञ्चरन्ति घोरम् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-७॥
तदर्धमासं पिबति सञ्चित्य भ्रमरो मधु। ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-८॥
हिरण्यपर्णमश्वत्थमभिपत्य अपक्षकाः। ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-९॥
पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे। हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१०॥
तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा। तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः ॥५-४५-११॥
सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१२॥
अपानं गिरति प्राणः प्राणं गिरति चन्द्रमाः। आदित्यो गिरते चन्द्रमादित्यं गिरते परः ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१३॥
एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन्। तं चेत्सततमृत्विजं न मृत्युर्नामृतं भवेत् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१४॥
एवं देवो महात्मा स पावकं पुरुषो गिरन्। यो वै तं पुरुषं वेद तस्येहात्मा न रिष्यते ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१५॥
यः सहस्रं सहस्राणां पक्षान्सन्तत्य सम्पतेत्। मध्यमे मध्य आगच्छेदपि चेत्स्यान्मनोजवः ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१६॥
न दर्शने तिष्ठति रूपमस्य; पश्यन्ति चैनं सुविशुद्धसत्त्वाः। हितो मनीषी मनसाभिपश्ये; द्ये तं श्रयेयुरमृतास्ते भवन्ति ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१७॥
गूहन्ति सर्पा इव गह्वराणि; स्वशिक्षया स्वेन वृत्तेन मर्त्याः। तेषु प्रमुह्यन्ति जना विमूढा; यथाध्वानं मोहयन्ते भयाय ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१८॥
सदा सदासत्कृतः स्यान्न मृत्युरमृतं कुतः। सत्यानृते सत्यसमानबन्धने; सतश्च योनिरसतश्चैक एव ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१९॥
न साधुना नोत असाधुना वा; समानमेतद्दृश्यते मानुषेषु। समानमेतदमृतस्य विद्या; देवंयुक्तो मधु तद्वै परीप्सेत् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-२०॥
नास्यातिवादा हृदयं तापयन्ति; नानधीतं नाहुतमग्निहोत्रम्। मनो ब्राह्मीं लघुतामादधीत; प्रज्ञानमस्य नाम धीरा लभन्ते ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-२१॥
एवं यः सर्वभूतेषु आत्मानमनुपश्यति। अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् ॥५-४५-२२॥
यथोदपाने महति सर्वतः सम्प्लुतोदके। एवं सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥५-४५-२३॥
अङ्गुष्ठमात्रः पुरुषो महात्मा; न दृश्यतेऽसौ हृदये निविष्टः। अजश्चरो दिवारात्रमतन्द्रितश्च; स तं मत्वा कविरास्ते प्रसन्नः ॥५-४५-२४॥
अहमेवास्मि वो माता पिता पुत्रोऽस्म्यहं पुनः। आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च ॥५-४५-२५॥
पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत। ममैव यूयमात्मस्था न मे यूयं न वोऽप्यहम् ॥५-४५-२६॥
आत्मैव स्थानं मम जन्म चात्मा; वेदप्रोक्तोऽहमजरप्रतिष्ठः। अणोरणीयान्सुमनाः सर्वभूतेषु जागृमि। पितरं सर्वभूतानां पुष्करे निहितं विदुः ॥५-४५-२८॥