05.046
वैशम्पायन उवाच॥
एवं सनत्सुजातेन विदुरेण च धीमता। सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी ॥५-४६-१॥
तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते। सभामाविविशुर्हृष्टाः सूतस्योपदिदृक्षया ॥५-४६-२॥
शुश्रूषमाणाः पार्थानां वचो धर्मार्थसंहितम्। धृतराष्ट्रमुखाः सर्वे ययू राजसभां शुभाम् ॥५-४६-३॥
सुधावदातां विस्तीर्णां कनकाजिरभूषिताम्। चन्द्रप्रभां सुरुचिरां सिक्तां परमवारिणा ॥५-४६-४॥
रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि। अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः ॥५-४६-५॥
भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः। अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः ॥५-४६-६॥
विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः। सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ ॥ धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम् ॥५-४६-७॥
दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः। दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः ॥५-४६-८॥
कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम्। विविशुस्तां सभां राजन्सुराः शक्रसदो यथा ॥५-४६-९॥
आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः। शुशुभे सा सभा राजन्सिंहैरिव गिरेर्गुहा ॥५-४६-१०॥
ते प्रविश्य महेष्वासाः सभां समितिशोभनाः। आसनानि महार्हाणि भेजिरे सूर्यवर्चसः ॥५-४६-११॥
आसनस्थेषु सर्वेषु तेषु राजसु भारत। द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम् ॥५-४६-१२॥
अयं स रथ आयाति योऽयासीत्पाण्डवान्प्रति। दूतो नस्तूर्णमायातः सैन्धवैः साधुवाहिभिः ॥५-४६-१३॥
उपयाय तु स क्षिप्रं रथात्प्रस्कन्द्य कुण्डली। प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः ॥५-४६-१४॥
सञ्जय उवाच॥
प्राप्तोऽस्मि पाण्डवान्गत्वा तद्विजानीत कौरवाः। यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः ॥५-४६-१५॥
अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत्। यूनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः ॥५-४६-१६॥
यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः। अब्रुवं पाण्डवान्गत्वा तन्निबोधत पार्थिवाः ॥५-४६-१७॥