Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.058
धृतराष्ट्र उवाच॥
यदब्रूतां महात्मानौ वासुदेवधनञ्जयौ। तन्मे ब्रूहि महाप्राज्ञ शुश्रूषे वचनं तव ॥५-५८-१॥
सञ्जय उवाच॥
शृणु राजन्यथा दृष्टौ मया कृष्णधनञ्जयौ। ऊचतुश्चापि यद्वीरौ तत्ते वक्ष्यामि भारत ॥५-५८-२॥
पादाङ्गुलीरभिप्रेक्षन्प्रयतोऽहं कृताञ्जलिः। शुद्धान्तं प्राविशं राजन्नाख्यातुं नरदेवयोः ॥५-५८-३॥
नैवाभिमन्युर्न यमौ तं देशमभियान्ति वै। यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी ॥५-५८-४॥
उभौ मध्वासवक्षीबावुभौ चन्दनरूषितौ। स्रग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ ॥५-५८-५॥
नैकरत्नविचित्रं तु काञ्चनं महदासनम्। विविधास्तरणास्तीर्णं यत्रासातामरिंदमौ ॥५-५८-६॥
अर्जुनोत्सङ्गगौ पादौ केशवस्योपलक्षये। अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः ॥५-५८-७॥
काञ्चनं पादपीठं तु पार्थो मे प्रादिशत्तदा। तदहं पाणिना स्पृष्ट्वा ततो भूमावुपाविशम् ॥५-५८-८॥
ऊर्ध्वरेखतलौ पादौ पार्थस्य शुभलक्षणौ। पादपीठादपहृतौ तत्रापश्यमहं शुभौ ॥५-५८-९॥
श्यामौ बृहन्तौ तरुणौ शालस्कन्धाविवोद्गतौ। एकासनगतौ दृष्ट्वा भयं मां महदाविशत् ॥५-५८-१०॥
इन्द्रविष्णुसमावेतौ मन्दात्मा नावबुध्यते। संश्रयाद्द्रोणभीष्माभ्यां कर्णस्य च विकत्थनात् ॥५-५८-११॥
निदेशस्थाविमौ यस्य मानसस्तस्य सेत्स्यते। सङ्कल्पो धर्मराजस्य निश्चयो मे तदाभवत् ॥५-५८-१२॥
सत्कृतश्चान्नपानाभ्यामाच्छन्नो लब्धसत्क्रियः। अञ्जलिं मूर्ध्नि सन्धाय तौ संदेशमचोदयम् ॥५-५८-१३॥
धनुर्बाणोचितेनैकपाणिना शुभलक्षणम्। पादमानमयन्पार्थः केशवं समचोदयत् ॥५-५८-१४॥
इन्द्रकेतुरिवोत्थाय सर्वाभरणभूषितः। इन्द्रवीर्योपमः कृष्णः संविष्टो माभ्यभाषत ॥५-५८-१५॥
वाचं स वदतां श्रेष्ठो ह्लादिनीं वचनक्षमाम्। त्रासनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम् ॥५-५८-१६॥
वाचं तां वचनार्हस्य शिक्षाक्षरसमन्विताम्। अश्रौषमहमिष्टार्थां पश्चाद्धृदयशोषिणीम् ॥५-५८-१७॥
वासुदेव उवाच॥
सञ्जयेदं वचो ब्रूया धृतराष्ट्रं मनीषिणम्। शृण्वतः कुरुमुख्यस्य द्रोणस्यापि च शृण्वतः ॥५-५८-१८॥
यजध्वं विपुलैर्यज्ञैर्विप्रेभ्यो दत्त दक्षिणाः। पुत्रैर्दारैश्च मोदध्वं महद्वो भयमागतम् ॥५-५८-१९॥
अर्थांस्त्यजत पात्रेभ्यः सुतान्प्राप्नुत कामजान्। प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये ॥५-५८-२०॥
ऋणमेतत्प्रवृद्धं मे हृदयान्नापसर्पति। यद्गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम् ॥५-५८-२१॥
तेजोमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम्। मद्द्वितीयेन तेनेह वैरं वः सव्यसाचिना ॥५-५८-२२॥
मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमिच्छति। यो न कालपरीतो वाप्यपि साक्षात्पुरंदरः ॥५-५८-२३॥
बाहुभ्यामुद्वहेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः। पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ॥५-५८-२४॥
देवासुरमनुष्येषु यक्षगन्धर्वभोगिषु। न तं पश्याम्यहं युद्धे पाण्डवं योऽभ्ययाद्रणे ॥५-५८-२५॥
यत्तद्विराटनगरे श्रूयते महदद्भुतम्। एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥५-५८-२६॥
एकेन पाण्डुपुत्रेण विराटनगरे यदा। भग्नाः पलायन्त दिशः पर्याप्तं तन्निदर्शनम् ॥५-५८-२७॥
बलं वीर्यं च तेजश्च शीघ्रता लघुहस्तता। अविषादश्च धैर्यं च पार्थान्नान्यत्र विद्यते ॥५-५८-२८॥
सञ्जय उवाच॥
इत्यब्रवीद्धृषीकेशः पार्थमुद्धर्षयन्गिरा। गर्जन्समयवर्षीव गगने पाकशासनः ॥५-५८-२९॥
केशवस्य वचः श्रुत्वा किरीटी श्वेतवाहनः। अर्जुनस्तन्महद्वाक्यमब्रवील्लोमहर्षणम् ॥५-५८-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.