05.057
धृतराष्ट्र उवाच॥
क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः। तेन संयुगमेष्यन्ति मन्दा विलपतो मम ॥५-५७-१॥
दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम। न हि युद्धं प्रशंसन्ति सर्वावस्थमरिंदम ॥५-५७-२॥
अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम्। प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम ॥५-५७-३॥
एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम्। यत्त्वं प्रशान्तिमिच्छेथाः पाण्डुपुत्रैर्महात्मभिः ॥५-५७-४॥
अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम्। जात एव तव स्रावस्त्वं तु मोहान्न बुध्यसे ॥५-५७-५॥
न ह्यहं युद्धमिच्छामि नैतदिच्छति बाह्लिकः। न च भीष्मो न च द्रोणो नाश्वत्थामा न सञ्जयः ॥५-५७-६॥
न सोमदत्तो न शल्यो न कृपो युद्धमिच्छति। सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा ॥५-५७-७॥
येषु सम्प्रतितिष्ठेयुः कुरवः पीडिताः परैः। ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम् ॥५-५७-८॥
न त्वं करोषि कामेन कर्णः कारयिता तव। दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः ॥५-५७-९॥
दुर्योधन उवाच॥
नाहं भवति न द्रोणे नाश्वत्थाम्नि न सञ्जये। न विकर्णे न काम्बोजे न कृपे न च बाह्लिके ॥५-५७-१०॥
सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः। अन्येषु वा तावकेषु भारं कृत्वा समाह्वये ॥५-५७-११॥
अहं च तात कर्णश्च रणयज्ञं वितत्य वै। युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ ॥५-५७-१२॥
रथो वेदी स्रुवः खड्गो गदा स्रुक्कवचं सदः। चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः ॥५-५७-१३॥
आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे। विजित्य स्वयमेष्यावो हतामित्रौ श्रिया वृतौ ॥५-५७-१४॥
अहं च तात कर्णश्च भ्राता दुःशासनश्च मे। एते वयं हनिष्यामः पाण्डवान्समरे त्रयः ॥५-५७-१५॥
अहं हि पाण्डवान्हत्वा प्रशास्ता पृथिवीमिमाम्। मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमाम् ॥५-५७-१६॥
त्यक्तं मे जीवितं राजन्धनं राज्यं च पार्थिव। न जातु पाण्डवैः सार्धं वसेयमहमच्युत ॥५-५७-१७॥
यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष। तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ॥५-५७-१८॥
धृतराष्ट्र उवाच॥
सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया। ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम् ॥५-५७-१९॥
रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः। वरान्वरान्हनिष्यन्ति समेता युधि पाण्डवाः ॥५-५७-२०॥
प्रतीपमिव मे भाति युयुधानेन भारती। व्यस्ता सीमन्तिनी त्रस्ता प्रमृष्टा दीर्घबाहुना ॥५-५७-२१॥
सम्पूर्णं पूरयन्भूयो बलं पार्थस्य माधवः। शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ॥५-५७-२२॥
सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति। तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम् ॥५-५७-२३॥
यदा द्रक्ष्यसि भीमेन कुञ्जरान्विनिपातितान्। विशीर्णदन्तान्गिर्याभान्भिन्नकुम्भान्सशोणितान् ॥५-५७-२४॥
तानभिप्रेक्ष्य सङ्ग्रामे विशीर्णानिव पर्वतान्। भीतो भीमस्य संस्पर्शात्स्मर्तासि वचनस्य मे ॥५-५७-२५॥
निर्दग्धं भीमसेनेन सैन्यं हतरथद्विपम्। गतिमग्नेरिव प्रेक्ष्य स्मर्तासि वचनस्य मे ॥५-५७-२६॥
महद्वो भयमागामि न चेच्छाम्यथ पाण्डवैः। गदया भीमसेनेन हताः शममुपैष्यथ ॥५-५७-२७॥
महावनमिव छिन्नं यदा द्रक्ष्यसि पातितम्। बलं कुरूणां सङ्ग्रामे तदा स्मर्तासि मे वचः ॥५-५७-२८॥
वैशम्पायन उवाच॥
एतावदुक्त्वा राजा तु स सर्वान्पृथिवीपतीन्। अनुभाष्य महाराज पुनः पप्रच्छ सञ्जयम् ॥५-५७-२९॥