Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.062
दुर्योधन उवाच॥
सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम्। कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम् ॥५-६२-१॥
सर्वे स्म समजातीयाः सर्वे मानुषयोनयः। पितामह विजानीषे पार्थेषु विजयं कथम् ॥५-६२-२॥
नाहं भवति न द्रोणे न कृपे न च बाह्लिके। अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे ॥५-६२-३॥
अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे। पाण्डवान्समरे पञ्च हनिष्यामः शितैः शरैः ॥५-६२-४॥
ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैः। ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च ॥५-६२-५॥
विदुर उवाच॥
शकुनीनामिहार्थाय पाशं भूमावयोजयत्। कश्चिच्छाकुनिकस्तात पूर्वेषामिति शुश्रुम ॥५-६२-६॥
तस्मिन्द्वौ शकुनौ बद्धौ युगपत्समपौरुषौ। तावुपादाय तं पाशं जग्मतुः खचरावुभौ ॥५-६२-७॥
तौ विहायसमाक्रान्तौ दृष्ट्वा शाकुनिकस्तदा। अन्वधावदनिर्विण्णो येन येन स्म गच्छतः ॥५-६२-८॥
तथा तमनुधावन्तं मृगयुं शकुनार्थिनम्। आश्रमस्थो मुनिः कश्चिद्ददर्शाथ कृताह्निकः ॥५-६२-९॥
तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम्। श्लोकेनानेन कौरव्य पप्रच्छ स मुनिस्तदा ॥५-६२-१०॥
विचित्रमिदमाश्चर्यं मृगहन्प्रतिभाति मे। प्लवमानौ हि खचरौ पदातिरनुधावसि ॥५-६२-११॥
शाकुनिक उवाच॥
पाशमेकमुभावेतौ सहितौ हरतो मम। यत्र वै विवदिष्येते तत्र मे वशमेष्यतः ॥५-६२-१२॥
विदुर उवाच॥
तौ विवादमनुप्राप्तौ शकुनौ मृत्युसन्धितौ। विगृह्य च सुदुर्बुद्धी पृथिव्यां संनिपेततुः ॥५-६२-१३॥
तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ। उपसृत्यापरिज्ञातो जग्राह मृगयुस्तदा ॥५-६२-१४॥
एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम्। तेऽमित्रवशमायान्ति शकुनाविव विग्रहात् ॥५-६२-१५॥
सम्भोजनं सङ्कथनं सम्प्रश्नोऽथ समागमः। एतानि ज्ञातिकार्याणि न विरोधः कदाचन ॥५-६२-१६॥
यस्मिन्काले सुमनसः सर्वे वृद्धानुपासते। सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते ॥५-६२-१७॥
येऽर्थं सन्ततमासाद्य दीना इव समासते। श्रियं ते सम्प्रयच्छन्ति द्विषद्भ्यो भरतर्षभ ॥५-६२-१८॥
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च। धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥५-६२-१९॥
इदमन्यत्प्रवक्ष्यामि यथा दृष्टं गिरौ मया। श्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु ॥५-६२-२०॥
वयं किरातैः सहिता गच्छामो गिरिमुत्तरम्। ब्राह्मणैर्देवकल्पैश्च विद्याजम्भकवातिकैः ॥५-६२-२१॥
कुञ्जभूतं गिरिं सर्वमभितो गन्धमादनम्। दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम् ॥५-६२-२२॥
तत्र पश्यामहे सर्वे मधु पीतममाक्षिकम्। मरुप्रपाते विषमे निविष्टं कुम्भसंमितम् ॥५-६२-२३॥
आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम्। यत्प्राश्य पुरुषो मर्त्यो अमरत्वं निगच्छति ॥५-६२-२४॥
अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवा। इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः ॥५-६२-२५॥
ततः किरातास्तद्दृष्ट्वा प्रार्थयन्तो महीपते। विनेशुर्विषमे तस्मिन्ससर्पे गिरिगह्वरे ॥५-६२-२६॥
तथैव तव पुत्रोऽयं पृथिवीमेक इच्छति। मधु पश्यति संमोहात्प्रपातं नानुपश्यति ॥५-६२-२७॥
दुर्योधनो योद्धुमनाः समरे सव्यसाचिना। न च पश्यामि तेजोऽस्य विक्रमं वा तथाविधम् ॥५-६२-२८॥
एकेन रथमास्थाय पृथिवी येन निर्जिता। प्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव ॥५-६२-२९॥
द्रुपदो मत्स्यराजश्च सङ्क्रुद्धश्च धनञ्जयः। न शेषयेयुः समरे वायुयुक्ता इवाग्नयः ॥५-६२-३०॥
अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम्। युध्यतोर्हि द्वयोर्युद्धे नैकान्तेन भवेज्जयः ॥५-६२-३१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.