05.133
Library: The story continues with some more advice...
पुत्र उवाच॥
कृष्णायसस्येव च ते संहत्य हृदयं कृतम् । मम मातस्त्वकरुणे वैरप्रज्ञे ह्यमर्षणे ॥५-१३३-१॥
अहो क्षत्रसमाचारो यत्र मामपरं यथा । ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम् ॥५-१३३-२॥
किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया । किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा ॥५-१३३-३॥
मातोवाच॥
सर्वारम्भा हि विदुषां तात धर्मार्थकारणात् । तानेवाभिसमीक्ष्याहं सञ्जय त्वामचूचुदम् ॥५-१३३-४॥
स समीक्ष्यक्रमोपेतो मुख्यः कालोऽयमागतः । अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे ॥५-१३३-५॥
असम्भावितरूपस्त्वं सुनृशंसं करिष्यसि ॥५-१३३-५॥
तं त्वामयशसा स्पृष्टं न ब्रूयां यदि सञ्जय । खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् ॥५-१३३-६॥
सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम् । अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः ॥५-१३३-७॥
तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः । धर्मार्थगुणयुक्तेन नेतरेण कथञ्चन ॥ दैवमानुषयुक्तेन सद्भिराचरितेन च ॥५-१३३-८॥
यो ह्येवमविनीतेन रमते पुत्रनप्तृणा । अनुत्थानवता चापि मोघं तस्य प्रजाफलम् ॥५-१३३-९॥
अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च । सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः ॥५-१३३-१०॥
युद्धाय क्षत्रियः सृष्टः सञ्जयेह जयाय च । क्रूराय कर्मणे नित्यं प्रजानां परिपालने ॥ जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् ॥५-१३३-११॥
न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम् । यदमित्रान्वशे कृत्वा क्षत्रियः सुखमश्नुते ॥५-१३३-१२॥
मन्युना दह्यमानेन पुरुषेण मनस्विना । निकृतेनेह बहुशः शत्रून्प्रतिजिगीषया ॥५-१३३-१३॥
आत्मानं वा परित्यज्य शत्रून्वा विनिपात्य वै । अतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत् ॥५-१३३-१४॥
इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति । यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम् ॥५-१३३-१५॥
प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम् । ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम् ॥५-१३३-१६॥
पुत्र उवाच॥
नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः । कारुण्यमेवात्र पश्य भूत्वेह जडमूकवत् ॥५-१३३-१७॥
मातोवाच॥
अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि । चोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते ॥५-१३३-१८॥
अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान् । अहं पश्यामि विजयं कृत्स्नं भाविनमेव ते ॥५-१३३-१९॥
पुत्र उवाच॥
अकोशस्यासहायस्य कुतः स्विद्विजयो मम । इत्यवस्थां विदित्वेमामात्मनात्मनि दारुणाम् ॥ राज्याद्भावो निवृत्तो मे त्रिदिवादिव दुष्कृतेः ॥५-१३३-२०॥
ईदृशं भवती कञ्चिदुपायमनुपश्यति । तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते ॥ करिष्यामि हि तत्सर्वं यथावदनुशासनम् ॥५-१३३-२१॥
मातोवाच॥
पुत्रात्मा नावमन्तव्यः पूर्वाभिरसमृद्धिभिः । अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे ॥५-१३३-२२॥
अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः । सर्वेषां कर्मणां तात फले नित्यमनित्यता ॥५-१३३-२३॥
अनित्यमिति जानन्तो न भवन्ति भवन्ति च । अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते ॥५-१३३-२४॥
ऐकगुण्यमनीहायामभावः कर्मणां फलम् । अथ द्वैगुण्यमीहायां फलं भवति वा न वा ॥५-१३३-२५॥
यस्य प्रागेव विदिता सर्वार्थानामनित्यता । नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज ॥५-१३३-२६॥
उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु । भविष्यतीत्येव मनः कृत्वा सततमव्यथैः ॥ मङ्गलानि पुरस्कृत्य ब्राह्मणैश्चेश्वरैः सह ॥५-१३३-२७॥
प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक । अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः ॥५-१३३-२८॥
निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च । अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम् ॥ पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि ॥५-१३३-२९॥
क्रुद्धाँल्लुब्धान्परिक्षीणानवक्षिप्तान्विमानितान् । स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय ॥५-१३३-३०॥
एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान् । महावेग इवोद्धूतो मातरिश्वा बलाहकान् ॥५-१३३-३१॥
तेषामग्रप्रदायी स्याः कल्योत्थायी प्रियंवदः । ते त्वां प्रियं करिष्यन्ति पुरो धास्यन्ति च ध्रुवम् ॥५-१३३-३२॥
यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम् । तदैवास्मादुद्विजते सर्पाद्वेश्मगतादिव ॥५-१३३-३३॥
तं विदित्वा पराक्रान्तं वशे न कुरुते यदि । निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति ॥५-१३३-३४॥
निर्वादादास्पदं लब्ध्वा धनवृद्धिर्भविष्यति । धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च ॥५-१३३-३५॥
स्खलितार्थं पुनस्तात सन्त्यजन्त्यपि बान्धवाः । अप्यस्मिन्नाश्रयन्ते च जुगुप्सन्ति च तादृशम् ॥५-१३३-३६॥
शत्रुं कृत्वा यः सहायं विश्वासमुपगच्छति । अतः सम्भाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति ॥५-१३३-३७॥