Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.149
वैशम्पायन उवाच॥
जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः । भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह ॥५-१४९-१॥
श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि । केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम् ॥५-१४९-२॥
तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः । अक्षौहिण्यस्तु सप्तैताः समेता विजयाय वै ॥५-१४९-३॥
तासां मे पतयः सप्त विख्यातास्तान्निबोधत । द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ ॥५-१४९-४॥
सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् । एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः ॥५-१४९-५॥
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः । ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः ॥ इष्वस्त्रकुशलाश्चैव तथा सर्वास्त्रयोधिनः ॥५-१४९-६॥
सप्तानामपि यो नेता सेनानां प्रविभागवित् । यः सहेत रणे भीष्मं शरार्चिःपावकोपमम् ॥५-१४९-७॥
त्वं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन । स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः ॥५-१४९-८॥
सहदेव उवाच॥
संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः । यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे ॥५-१४९-९॥
मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः । प्रसहिष्यति सङ्ग्रामे भीष्मं तांश्च महारथान् ॥५-१४९-१०॥
वैशम्पायन उवाच॥
तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः । नकुलोऽनन्तरं तस्मादिदं वचनमाददे ॥५-१४९-११॥
वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च । ह्रीमान्कुलान्वितः श्रीमान्सर्वशास्त्रविशारदः ॥५-१४९-१२॥
वेद चास्त्रं भरद्वाजाद्दुर्धर्षः सत्यसङ्गरः । यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम् ॥५-१४९-१३॥
श्लाघ्यः पार्थिवसङ्घस्य प्रमुखे वाहिनीपतिः । पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः ॥५-१४९-१४॥
यस्तताप तपो घोरं सदारः पृथिवीपतिः । रोषाद्द्रोणविनाशाय वीरः समितिशोभनः ॥५-१४९-१५॥
पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः । श्वशुरो द्रुपदोऽस्माकं सेनामग्रे प्रकर्षतु ॥५-१४९-१६॥
स द्रोणभीष्मावायान्तौ सहेदिति मतिर्मम । स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः ॥५-१४९-१७॥
माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः । वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः ॥५-१४९-१८॥
योऽयं तपःप्रभावेन ऋषिसन्तोषणेन च । दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाबलः ॥५-१४९-१९॥
धनुष्मान्कवची खड्गी रथमारुह्य दंशितः । दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः ॥५-१४९-२०॥
गर्जन्निव महामेघो रथघोषेण वीर्यवान् । सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः ॥५-१४९-२१॥
सिंहोरस्को महाबाहुः सिंहवक्षा महाबलः । सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः ॥५-१४९-२२॥
सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः । सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः ॥५-१४९-२३॥
अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः । जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः ॥५-१४९-२४॥
धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान् । वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव ॥५-१४९-२५॥
यमदूतसमान्वेगे निपाते पावकोपमान् । रामेणाजौ विषहितान्वज्रनिष्पेषदारुणान् ॥५-१४९-२६॥
पुरुषं तं न पश्यामि यः सहेत महाव्रतम् । धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः ॥५-१४९-२७॥
क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम । अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः ॥५-१४९-२८॥
भीम उवाच॥
वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः । वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः ॥५-१४९-२९॥
यस्य सङ्ग्राममध्येषु दिव्यमस्त्रं विकुर्वतः । रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः ॥५-१४९-३०॥
न तं युद्धेषु पश्यामि यो विभिन्द्याच्छिखण्डिनम् । शस्त्रेण समरे राजन्संनद्धं स्यन्दने स्थितम् ॥५-१४९-३१॥
द्वैरथे विषहेन्नान्यो भीष्मं राजन्महाव्रतम् । शिखण्डिनमृते वीरं स मे सेनापतिर्मतः ॥५-१४९-३२॥
युधिष्ठिर उवाच॥
सर्वस्य जगतस्तात सारासारं बलाबलम् । सर्वं जानाति धर्मात्मा गतमेष्यच्च केशवः ॥५-१४९-३३॥
यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः । कृतास्त्रो ह्यकृतास्त्रो वा वृद्धो वा यदि वा युवा ॥५-१४९-३४॥
एष नो विजये मूलमेष तात विपर्यये । अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे ॥५-१४९-३५॥
एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता । यमाह कृष्णो दाशार्हः स नः सेनापतिः क्षमः ॥ ब्रवीतु वदतां श्रेष्ठो निशा समतिवर्तते ॥५-१४९-३६॥
ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम् । रात्रिशेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् ॥ अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः ॥५-१४९-३७॥
वैशम्पायन उवाच॥
तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः । अब्रवीत्पुण्डरीकाक्षो धनञ्जयमवेक्ष्य ह ॥५-१४९-३८॥
ममाप्येते महाराज भवद्भिर्य उदाहृताः । नेतारस्तव सेनायाः शूरा विक्रान्तयोधिनः ॥ सर्व एते समर्था हि तव शत्रून्प्रमर्दितुम् ॥५-१४९-३९॥
इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे । किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम् ॥५-१४९-४०॥
मयापि हि महाबाहो त्वत्प्रियार्थमरिंदम । कृतो यत्नो महांस्तत्र शमः स्यादिति भारत ॥ धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ॥५-१४९-४१॥
कृतार्थं मन्यते बालः सोऽऽत्मानमविचक्षणः । धार्तराष्ट्रो बलस्थं च मन्यतेऽऽत्मानमातुरः ॥५-१४९-४२॥
युज्यतां वाहिनी साधु वधसाध्या हि ते मताः । न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनञ्जयम् ॥५-१४९-४३॥
भीमसेनं च सङ्क्रुद्धं यमौ चापि यमोपमौ । युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम् ॥५-१४९-४४॥
अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि । अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्दृढविक्रमान् ॥५-१४९-४५॥
सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम् । धार्तराष्ट्रबलं सङ्ख्ये वधिष्यति न संशयः ॥५-१४९-४६॥
एवमुक्ते तु कृष्णेन सम्प्रहृष्यन्नरोत्तमाः । तेषां प्रहृष्टमनसां नादः समभवन्महान् ॥५-१४९-४७॥
योग इत्यथ सैन्यानां त्वरतां सम्प्रधावताम् । हयवारणशब्दश्च नेमिघोषश्च सर्वशः ॥ शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत् ॥५-१४९-४८॥
प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः । गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी ॥५-१४९-४९॥
अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ । सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः ॥ प्रभद्रकाश्च पाञ्चाला भीमसेनमुखा ययुः ॥५-१४९-५०॥
ततः शब्दः समभवत्समुद्रस्येव पर्वणि । हृष्टानां सम्प्रयातानां घोषो दिवमिवास्पृशत् ॥५-१४९-५१॥
प्रहृष्टा दंशिता योधाः परानीकविदारणाः । तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः ॥५-१४९-५२॥
शकटापणवेशाश्च यानयुग्यं च सर्वशः । कोशयन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः ॥५-१४९-५३॥
फल्गु यच्च बलं किञ्चित्तथैव कृशदुर्बलम् । तत्सङ्गृह्य ययौ राजा ये चापि परिचारकाः ॥५-१४९-५४॥
उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी । सह स्त्रीभिर्निववृते दासीदाससमावृता ॥५-१४९-५५॥
कृत्वा मूलप्रतीकारान्गुल्मैः स्थावरजङ्गमैः । स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः ॥५-१४९-५६॥
ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः । स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः ॥५-१४९-५७॥
केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः । श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः ॥५-१४९-५८॥
हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलङ्कृताः । राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम् ॥५-१४९-५९॥
जघनार्धे विराटश्च यज्ञसेनश्च सोमकिः । सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः ॥५-१४९-६०॥
रथायुतानि चत्वारि हयाः पञ्चगुणास्ततः । पत्तिसैन्यं दशगुणं सादिनामयुतानि षट् ॥५-१४९-६१॥
अनाधृष्टिश्चेकितानश्चेदिराजोऽथ सात्यकिः । परिवार्य ययुः सर्वे वासुदेवधनञ्जयौ ॥५-१४९-६२॥
आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः । पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव ॥५-१४९-६३॥
तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिंदमाः । तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ ॥५-१४९-६४॥
पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः । निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः ॥५-१४९-६५॥
शङ्खदुन्दुभिसंसृष्टः सिंहनादस्तरस्विनाम् । पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत् ॥५-१४९-६६॥
ततो देशे समे स्निग्धे प्रभूतयवसेन्धने । निवेशयामास तदा सेनां राजा युधिष्ठिरः ॥५-१४९-६७॥
परिहृत्य श्मशानानि देवतायतनानि च । आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च ॥५-१४९-६८॥
मधुरानूषरे देशे शिवे पुण्ये महीपतिः । निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः ॥५-१४९-६९॥
ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः । प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः ॥५-१४९-७०॥
विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् । पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः ॥५-१४९-७१॥
शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः । सात्यकिश्च रथोदारो युयुधानः प्रतापवान् ॥५-१४९-७२॥
आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् । सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् ॥५-१४९-७३॥
खानयामास परिखां केशवस्तत्र भारत । गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् ॥५-१४९-७४॥
विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् । तद्विधानि नरेन्द्राणां कारयामास केशवः ॥५-१४९-७५॥
प्रभूतजलकाष्ठानि दुराधर्षतराणि च । भक्ष्यभोज्योपपन्नानि शतशोऽथ सहस्रशः ॥५-१४९-७६॥
शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् । विमानानीव राजेन्द्र निविष्टानि महीतले ॥५-१४९-७७॥
तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः । सर्वोपकरणैर्युक्ता वैद्याश्च सुविशारदाः ॥५-१४९-७८॥
ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः । ससर्ज रसपांसूनां राशयः पर्वतोपमाः ॥५-१४९-७९॥
बहूदकं सुयवसं तुषाङ्गारसमन्वितम् । शिबिरे शिबिरे राजा सञ्चकार युधिष्ठिरः ॥५-१४९-८०॥
महायन्त्राणि नाराचास्तोमरर्ष्टिपरश्वधाः । धनूंषि कवचादीनि हृद्यभूवन्नृणां तदा ॥५-१४९-८१॥
गजाः कङ्कटसंनाहा लोहवर्मोत्तरच्छदाः । अदृश्यंस्तत्र गिर्याभाः सहस्रशतयोधिनः ॥५-१४९-८२॥
निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत । अभिसस्रुर्यथोद्देशं सबलाः सहवाहनाः ॥५-१४९-८३॥
चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः । जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः ॥५-१४९-८४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.