05.158
Pancharatra-core: Uluka narrates insulting words to Yudhisthira telling him he is neither capable of winning a war, nor of ruling the kingdom.
सञ्जय उवाच॥
सेनानिवेशं सम्प्राप्य कैतव्यः पाण्डवस्य ह। समागतः पाण्डवेयैर्युधिष्ठिरमभाषत ॥५-१५८-१॥
अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम। दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि ॥५-१५८-२॥
युधिष्ठिर उवाच॥
उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः। यन्मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः ॥५-१५८-३॥
सञ्जय उवाच॥
ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम्। सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः ॥५-१५८-४॥
द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ। भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह ॥५-१५८-५॥
इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः। शृण्वतां कुरुवीराणां तन्निबोध नराधिप ॥५-१५८-६॥
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम्। शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना ॥५-१५८-७॥
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासिताः। संवत्सरं विराटस्य दास्यमास्थाय चोषिताः ॥५-१५८-८॥
अमर्षं राज्यहरणं वनवासं च पाण्डव। द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव ॥५-१५८-९॥
अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव। दुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥५-१५८-१०॥
लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्। समः पन्था भृता योधाः श्वो युध्यस्व सकेशवः ॥५-१५८-११॥
असमागम्य भीष्मेण संयुगे किं विकत्थसे। आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् ॥५-१५८-१२॥
द्रोणं च युध्यतां श्रेष्ठं शचीपतिसमं युधि। अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ॥५-१५८-१३॥
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तरं द्वयोः। युधि धुर्यमविक्षोभ्यमनीकधरमच्युतम् ॥५-१५८-१४॥
द्रोणं मोहाद्युधा पार्थ यज्जिगीषसि तन्मृषा। न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ॥५-१५८-१५॥
अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम्। युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम् ॥५-१५८-१६॥
को ह्याभ्यां जीविताकाङ्क्षी प्राप्यास्त्रमरिमर्दनम्। गजो वाजी नरो वापि पुनः स्वस्ति गृहान्व्रजेत् ॥५-१५८-१७॥
कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वा। रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन् ॥५-१५८-१८॥
किं दर्दुरः कूपशयो यथेमां; न बुध्यसे राजचमूं समेताम्। दुराधर्षां देवचमूप्रकाशां; गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ॥५-१५८-१९॥
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै; रुदीच्यकाम्बोजशकैः खशैश्च। शाल्वैः समत्स्यैः कुरुमध्यदेशै; र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ॥५-१५८-२०॥
नानाजनौघं युधि सम्प्रवृद्धं; गाङ्गं यथा वेगमवारणीयम्। मां च स्थितं नागबलस्य मध्ये; युयुत्ससे मन्द किमल्पबुद्धे ॥५-१५८-२१॥
इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम्। अभ्यावृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत ॥५-१५८-२२॥
अकत्थमानो युध्यस्व कत्थसेऽर्जुन किं बहु। पर्यायात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात् ॥५-१५८-२३॥
यदीदं कत्थनात्सिध्येत्कर्म लोके धनञ्जय। सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः ॥५-१५८-२४॥
जानामि ते वासुदेवं सहायं; जानामि ते गाण्डिवं तालमात्रम्। जानाम्येतत्त्वादृशो नास्ति योद्धा; राज्यं च ते जानमानो हरामि ॥५-१५८-२५॥
न तु पर्यायधर्मेण सिद्धिं प्राप्नोति भूयसीम्। मनसैव हि भूतानि धाता प्रकुरुते वशे ॥५-१५८-२६॥
त्रयोदश समा भुक्तं राज्यं विलपतस्तव। भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम् ॥५-१५८-२७॥
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणे जितः। क्व तदा भीमसेनस्य बलमासीच्च फल्गुन ॥५-१५८-२८॥
सगदाद्भीमसेनाच्च पार्थाच्चैव सगाण्डिवात्। न वै मोक्षस्तदा वोऽभूद्विना कृष्णामनिन्दिताम् ॥५-१५८-२९॥
सा वो दास्यं समापन्नान्मोक्षयामास भामिनी। अमानुष्यसमायुक्तान्दास्यकर्मण्यवस्थितान् ॥५-१५८-३०॥
अवोचं यत्षण्ढतिलानहं वस्तथ्यमेव तत्। धृता हि वेणी पार्थेन विराटनगरे तदा ॥५-१५८-३१॥
सूदकर्मणि च श्रान्तं विराटस्य महानसे। भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम् ॥५-१५८-३२॥
एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः। श्रेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते ॥५-१५८-३३॥
न भयाद्वासुदेवस्य न चापि तव फल्गुन। राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः ॥५-१५८-३४॥
न माया हीन्द्रजालं वा कुहका वा विभीषणी। आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः ॥५-१५८-३५॥
वासुदेवसहस्रं वा फल्गुनानां शतानि वा। आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश ॥५-१५८-३६॥
संयुगं गच्छ भीष्मेण भिन्धि त्वं शिरसा गिरिम्। प्रतरेमं महागाधं बाहुभ्यां पुरुषोदधिम् ॥५-१५८-३७॥
शारद्वतमहीमानं विविंशतिझषाकुलम्। बृहद्बलसमुच्चालं सौमदत्तितिमिङ्गिलम् ॥५-१५८-३८॥
दुःशासनौघं शलशल्यमत्स्यं; सुषेणचित्रायुधनागनक्रम्। जयद्रथाद्रिं पुरुमित्रगाधं; दुर्मर्षणोदं शकुनिप्रपातम् ॥५-१५८-३९॥
शस्त्रौघमक्षय्यमतिप्रवृद्धं; यदावगाह्य श्रमनष्टचेताः। भविष्यसि त्वं हतसर्वबान्धव; स्तदा मनस्ते परितापमेष्यति ॥५-१५८-४०॥
तदा मनस्ते त्रिदिवादिवाशुचे; र्निवर्ततां पार्थ महीप्रशासनात्। राज्यं प्रशास्तुं हि सुदुर्लभं त्वया; बुभूषता स्वर्ग इवातपस्विना ॥५-१५८-४१॥