Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.168
Pancharatra-core: Description of other prominent warriors on Pandava’s side.
भीष्म उवाच॥
पाञ्चालराजस्य सुतो राजन्परपुरञ्जयः। शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत ॥५-१६८-१॥
एष योत्स्यति सङ्ग्रामे नाशयन्पूर्वसंस्थितिम्। परं यशो विप्रथयंस्तव सेनासु भारत ॥५-१६८-२॥
एतस्य बहुलाः सेनाः पाञ्चालाश्च प्रभद्रकाः। तेनासौ रथवंशेन महत्कर्म करिष्यति ॥५-१६८-३॥
धृष्टद्युम्नश्च सेनानीः सर्वसेनासु भारत। मतो मेऽतिरथो राजन्द्रोणशिष्यो महारथः ॥५-१६८-४॥
एष योत्स्यति सङ्ग्रामे सूदयन्वै परान्रणे। भगवानिव सङ्क्रुद्धः पिनाकी युगसङ्क्षये ॥५-१६८-५॥
एतस्य तद्रथानीकं कथयन्ति रणप्रियाः। बहुत्वात्सागरप्रख्यं देवानामिव संयुगे ॥५-१६८-६॥
क्षत्रधर्मा तु राजेन्द्र मतो मेऽर्धरथो नृप। धृष्टद्युम्नस्य तनयो बाल्यान्नातिकृतश्रमः ॥५-१६८-७॥
शिशुपालसुतो वीरश्चेदिराजो महारथः। धृष्टकेतुर्महेष्वासः सम्बन्धी पाण्डवस्य ह ॥५-१६८-८॥
एष चेदिपतिः शूरः सह पुत्रेण भारत। महारथेनासुकरं महत्कर्म करिष्यति ॥५-१६८-९॥
क्षत्रधर्मरतो मह्यं मतः परपुरञ्जयः। क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः ॥ जयन्तश्चामितौजाश्च सत्यजिच्च महारथः ॥५-१६८-१०॥
महारथा महात्मानः सर्वे पाञ्चालसत्तमाः। योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः ॥५-१६८-११॥
अजो भोजश्च विक्रान्तौ पाण्डवेषु महारथौ। पाण्डवानां सहायार्थे परं शक्त्या यतिष्यतः ॥ शीघ्रास्त्रौ चित्रयोद्धारौ कृतिनौ दृढविक्रमौ ॥५-१६८-१२॥
केकयाः पञ्च राजेन्द्र भ्रातरो युद्धदुर्मदाः। सर्व एते रथोदाराः सर्वे लोहितकध्वजाः ॥५-१६८-१३॥
काशिकः सुकुमारश्च नीलो यश्चापरो नृपः। सूर्यदत्तश्च शङ्खश्च मदिराश्वश्च नामतः ॥५-१६८-१४॥
सर्व एते रथोदाराः सर्वे चाहवलक्षणाः। सर्वास्त्रविदुषः सर्वे महात्मानो मता मम ॥५-१६८-१५॥
वार्धक्षेमिर्महाराज रथो मम महान्मतः। चित्रायुधश्च नृपतिर्मतो मे रथसत्तमः ॥ स हि सङ्ग्रामशोभी च भक्तश्चापि किरीटिनः ॥५-१६८-१६॥
चेकितानः सत्यधृतिः पाण्डवानां महारथौ। द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम ॥५-१६८-१७॥
व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत। मतौ मम रथोदारौ पाण्डवानां न संशयः ॥५-१६८-१८॥
सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः। यः समो वासुदेवेन भीमसेनेन चाभिभूः ॥ स योत्स्यतीह विक्रम्य समरे तव सैनिकैः ॥५-१६८-१९॥
मां द्रोणं च कृपं चैव यथा संमन्यते भवान्। तथा स समरश्लाघी मन्तव्यो रथसत्तमः ॥५-१६८-२०॥
काश्यः परमशीघ्रास्त्रः श्लाघनीयो रथोत्तमः। रथ एकगुणो मह्यं मतः परपुरञ्जयः ॥५-१६८-२१॥
अयं च युधि विक्रान्तो मन्तव्योऽष्टगुणो रथः। सत्यजित्समरश्लाघी द्रुपदस्यात्मजो युवा ॥५-१६८-२२॥
गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन संमितः। पाण्डवानां यशस्कामः परं कर्म करिष्यति ॥५-१६८-२३॥
अनुरक्तश्च शूरश्च रथोऽयमपरो महान्। पाण्ड्यराजो महावीर्यः पाण्डवानां धुरन्धरः ॥५-१६८-२४॥
दृढधन्वा महेष्वासः पाण्डवानां रथोत्तमः। श्रेणिमान्कौरवश्रेष्ठ वसुदानश्च पार्थिवः ॥ उभावेतावतिरथौ मतौ मम परन्तप ॥५-१६८-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.