05.197
वैशम्पायन उवाच॥
तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः। धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत ॥५-१९७-१॥
चेदिकाशिकरूषाणां नेतारं दृढविक्रमम्। सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् ॥५-१९७-२॥
विराटं द्रुपदं चैव युयुधानं शिखण्डिनम्। पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ ॥५-१९७-३॥
ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः। आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः ॥ अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव ॥५-१९७-४॥
सोऽथ सैन्यं यथायोगं पूजयित्वा नरर्षभः। दिदेश तान्यनीकानि प्रयाणाय महीपतिः ॥५-१९७-५॥
अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः। धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः ॥५-१९७-६॥
भीमं च युयुधानं च पाण्डवं च धनञ्जयम्। द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः ॥५-१९७-७॥
भाण्डं समारोपयतां चरतां सम्प्रधावताम्। हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत् ॥५-१९७-८॥
स्वयमेव ततः पश्चाद्विराटद्रुपदान्वितः। तथान्यैः पृथिवीपालैः सह प्रायान्महीपतिः ॥५-१९७-९॥
भीमधन्वायनी सेना धृष्टद्युम्नपुरस्कृता। गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ॥५-१९७-१०॥
ततः पुनरनीकानि व्ययोजयत बुद्धिमान्। मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम् ॥५-१९७-११॥
द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः। नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान् ॥५-१९७-१२॥
दश चाश्वसहस्राणि द्विसाहस्रं च दन्तिनः। अयुतं च पदातीनां रथाः पञ्चशतास्तथा ॥५-१९७-१३॥
भीमसेनं च दुर्धर्षं प्रथमं प्रादिशद्बलम्। मध्यमे तु विराटं च जयत्सेनं च मागधम् ॥५-१९७-१४॥
महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ। वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ ॥ अन्वयातां ततो मध्ये वासुदेवधनञ्जयौ ॥५-१९७-१५॥
बभूवुरतिसंरब्धाः कृतप्रहरणा नराः। तेषां विंशतिसाहस्रा ध्वजाः शूरैरधिष्ठिताः ॥५-१९७-१६॥
पञ्च नागसहस्राणि रथवंशाश्च सर्वशः। पदातयश्च ये शूराः कार्मुकासिगदाधराः ॥ सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः ॥५-१९७-१७॥
युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे। तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः ॥५-१९७-१८॥
तत्र नागसहस्राणि हयानामयुतानि च। तथा रथसहस्राणि पदातीनां च भारत ॥ यदाश्रित्याभियुयुधे धार्तराष्ट्रं सुयोधनम् ॥५-१९७-१९॥
ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः। नदन्तः प्रययुस्तेषामनीकानि सहस्रशः ॥५-१९७-२०॥
तत्र भेरीसहस्राणि शङ्खानामयुतानि च। वादयन्ति स्म संहृष्टाः सहस्रायुतशो नराः ॥५-१९७-२१॥