6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.003
Pancharatra-Ext: Continued narration of bad omens by Vyasa to Dhritarashtra.
व्यास उवाच॥
खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः। अनार्तवं पुष्पफलं दर्शयन्ति वने द्रुमाः ॥६-३-१॥
गर्भिण्यो राजपुत्र्यश्च जनयन्ति विभीषणान्। क्रव्यादान्पक्षिणश्चैव गोमायूनपरान्मृगान् ॥६-३-२॥
त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः। द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः ॥६-३-३॥
जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः। त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः ॥६-३-४॥
तथैवान्याश्च दृश्यन्ते स्त्रियश्च ब्रह्मवादिनाम्। वैनतेयान्मयूरांश्च जनयन्त्यः पुरे तव ॥६-३-५॥
गोवत्सं वडवा सूते श्वा सृगालं महीपते। क्रकराञ्शारिकाश्चैव शुकांश्चाशुभवादिनः ॥६-३-६॥
स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः। ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च ॥६-३-७॥
पृथग्जनस्य कुडकाः स्तनपाः स्तेनवेश्मनि। नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम् ॥६-३-८॥
प्रतिमाश्चालिखन्त्यन्ये सशस्त्राः कालचोदिताः। अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः ॥ उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः ॥६-३-९॥
पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च। विष्वग्वाताश्च वान्त्युग्रा रजो न व्युपशाम्यति ॥६-३-१०॥
अभीक्ष्णं कम्पते भूमिरर्कं राहुस्तथाग्रसत्। श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति ॥६-३-११॥
अभावं हि विशेषेण कुरूणां प्रतिपश्यति। धूमकेतुर्महाघोरः पुष्यमाक्रम्य तिष्ठति ॥६-३-१२॥
सेनयोरशिवं घोरं करिष्यति महाग्रहः। मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः ॥६-३-१३॥
भाग्यं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते। शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशां पते ॥ उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते ॥६-३-१४॥
श्यामो ग्रहः प्रज्वलितः सधूमः सहपावकः। ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति ॥६-३-१५॥
ध्रुवः प्रज्वलितो घोरमपसव्यं प्रवर्तते। चित्रास्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः ॥६-३-१६॥
वक्रानुवक्रं कृत्वा च श्रवणे पावकप्रभः। ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः ॥६-३-१७॥
सर्वसस्यप्रतिच्छन्ना पृथिवी फलमालिनी। पञ्चशीर्षा यवाश्चैव शतशीर्षाश्च शालयः ॥६-३-१८॥
प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत्। ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत ॥६-३-१९॥
निश्चेरुरपिधानेभ्यः खड्गाः प्रज्वलिता भृशम्। व्यक्तं पश्यन्ति शस्त्राणि सङ्ग्रामं समुपस्थितम् ॥६-३-२०॥
अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च। कवचानां ध्वजानां च भविष्यति महान्क्षयः ॥६-३-२१॥
दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः। अत्याहितं दर्शयन्तो वेदयन्ति महद्भयम् ॥६-३-२२॥
एकपक्षाक्षिचरणः शकुनिः खचरो निशि। रौद्रं वदति संरब्धः शोणितं छर्दयन्मुहुः ॥६-३-२३॥
ग्रहौ ताम्रारुणशिखौ प्रज्वलन्ताविव स्थितौ। सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम् ॥६-३-२४॥
संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ। विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ ॥६-३-२५॥
कृत्तिकासु ग्रहस्तीव्रो नक्षत्रे प्रथमे ज्वलन्। वपूंष्यपहरन्भासा धूमकेतुरिव स्थितः ॥६-३-२६॥
त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते। बुधः सम्पततेऽभीक्ष्णं जनयन्सुमहद्भयम् ॥६-३-२७॥
चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम्। इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् ॥६-३-२८॥
चन्द्रसूर्यावुभौ ग्रस्तावेकमासे त्रयोदशीम्। अपर्वणि ग्रहावेतौ प्रजाः सङ्क्षपयिष्यतः ॥६-३-२९॥
रजोवृता दिशः सर्वाः पांसुवर्षैः समन्ततः। उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् ॥६-३-३०॥
मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम्। अर्धरात्रे महाघोरमतृप्यंस्तत्र राक्षसाः ॥६-३-३१॥
प्रतिस्रोतोऽवहन्नद्यः सरितः शोणितोदकाः। फेनायमानाः कूपाश्च नर्दन्ति वृषभा इव ॥ पतन्त्युल्काः सनिर्घाताः शुष्काशनिविमिश्रिताः ॥६-३-३२॥
अद्य चैव निशां व्युष्टामुदये भानुराहतः। ज्वलन्तीभिर्महोल्काभिश्चतुर्भिः सर्वतोदिशम् ॥६-३-३३॥
आदित्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः। भूमिपालसहस्राणां भूमिः पास्यति शोणितम् ॥६-३-३४॥
कैलासमन्दराभ्यां तु तथा हिमवतो गिरेः। सहस्रशो महाशब्दं शिखराणि पतन्ति च ॥६-३-३५॥
महाभूता भूमिकम्पे चतुरः सागरान्पृथक्। वेलामुद्वर्तयन्ति स्म क्षोभयन्तः पुनः पुनः ॥६-३-३६॥
वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः। पतन्ति चैत्यवृक्षाश्च ग्रामेषु नगरेषु च ॥६-३-३७॥
पीतलोहितनीलश्च ज्वलत्यग्निर्हुतो द्विजैः। वामार्चिः शावगन्धी च धूमप्रायः खरस्वनः ॥ स्पर्शा गन्धा रसाश्चैव विपरीता महीपते ॥६-३-३८॥
धूमायन्ते ध्वजा राज्ञां कम्पमाना मुहुर्मुहुः। मुञ्चन्त्यङ्गारवर्षाणि भेर्योऽथ पटहास्तथा ॥६-३-३९॥
प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि। गृध्राः परिपतन्त्युग्रा वामं मण्डलमाश्रिताः ॥६-३-४०॥
पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च। निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् ॥६-३-४१॥
ध्यायन्तः प्रकिरन्तश्च वालान्वेपथुसंयुताः। रुदन्ति दीनास्तुरगा मातङ्गाश्च सहस्रशः ॥६-३-४२॥
एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम्। यथा लोकः समुच्छेदं नायं गच्छेत भारत ॥६-३-४३॥
वैशम्पायन उवाच॥
पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम्। दिष्टमेतत्पुरा मन्ये भविष्यति न संशयः ॥६-३-४४॥
क्षत्रियाः क्षत्रधर्मेण वध्यन्ते यदि संयुगे। वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् ॥६-३-४५॥
इह कीर्तिं परे लोके दीर्घकालं महत्सुखम्। प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे ॥६-३-४६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.