06.047
Core and Pancharatra: Mahavyuha counter military formation by the Kauravas. The second day of war commences.
सञ्जय उवाच॥
क्रौञ्चं ततो महाव्यूहमभेद्यं तनयस्तव। व्यूढं दृष्ट्वा महाघोरं पार्थेनामिततेजसा ॥६-४७-१॥
आचार्यमुपसङ्गम्य कृपं शल्यं च मारिष। सौमदत्तिं विकर्णं च अश्वत्थामानमेव च ॥६-४७-२॥
दुःशासनादीन्भ्रातॄंश्च स सर्वानेव भारत। अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान् ॥६-४७-३॥
प्राहेदं वचनं काले हर्षयंस्तनयस्तव। नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः ॥६-४७-४॥
एकैकशः समर्था हि यूयं सर्वे महारथाः। पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः ॥६-४७-५॥
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः ॥६-४७-६॥
संस्थानाः शूरसेनाश्च वेणिकाः कुकुरास्तथा। आरेवकास्त्रिगर्ताश्च मद्रका यवनास्तथा ॥६-४७-७॥
शत्रुञ्जयेन सहितास्तथा दुःशासनेन च। विकर्णेन च वीरेण तथा नन्दोपनन्दकैः ॥६-४७-८॥
चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः। भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः ॥६-४७-९॥
ततो द्रोणश्च भीष्मश्च तव पुत्रश्च मारिष। अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधने ॥६-४७-१०॥
भीष्मः सैन्येन महता समन्तात्परिवारितः। ययौ प्रकर्षन्महतीं वाहिनीं सुरराडिव ॥६-४७-११॥
तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान्। कुन्तलैश्च दशार्णैश्च मागधैश्च विशां पते ॥६-४७-१२॥
विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि। सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम् ॥६-४७-१३॥
गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः। शकुनिश्च स्वसैन्येन भारद्वाजमपालयत् ॥६-४७-१४॥
ततो दुर्योधनो राजा सहितः सर्वसोदरैः। अश्वातकैर्विकर्णैश्च तथा शर्मिलकोसलैः ॥६-४७-१५॥
दरदैश्चूचुपैश्चैव तथा क्षुद्रकमालवैः। अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् ॥६-४७-१६॥
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष। विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन् ॥६-४७-१७॥
सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः। शतायुश्च श्रुतायुश्च दक्षिणं पार्श्वमास्थिताः ॥६-४७-१८॥
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः। महत्या सेनया सार्धं सेनापृष्ठे व्यवस्थिताः ॥६-४७-१९॥
पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः। केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥६-४७-२०॥
ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत। दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांश्च नादयन् ॥६-४७-२१॥
तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः। सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥६-४७-२२॥
ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः। आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥६-४७-२३॥
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ। प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ ॥६-४७-२४॥
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः। पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥६-४७-२५॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥६-४७-२६॥
काशिराजश्च शैब्यश्च शिखण्डी च महारथः। धृष्टद्युम्नो विराटश्च सात्यकिश्च महायशाः ॥६-४७-२७॥
पाञ्चाल्यश्च महेष्वासो द्रौपद्याः पञ्च चात्मजाः। सर्वे दध्मुर्महाशङ्खान्सिंहनादांश्च नेदिरे ॥६-४७-२८॥
स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत् ॥६-४७-२९॥
एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः। पुनर्युद्धाय सञ्जग्मुस्तापयानाः परस्परम् ॥६-४७-३०॥