06.076
Core and Pancharatra: Listening to Duryodhana's whining and complaint Bhishma assured him of his full effort. He asks to mobilize the entire Kaurava army for next day.
सञ्जय उवाच॥
अथ शूरा महाराज परस्परकृतागसः। जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ॥६-७६-१॥
विश्रम्य च यथान्यायं पूजयित्वा परस्परम्। संनद्धाः समदृश्यन्त भूयो युद्धचिकीर्षया ॥६-७६-२॥
ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः। विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ॥६-७६-३॥
सैन्यानि रौद्राणि भयानकानि; व्यूढानि सम्यग्बहुलध्वजानि। विदार्य हत्वा च निपीड्य शूरा; स्ते पाण्डवानां त्वरिता रथौघाः ॥६-७६-४॥
संमोह्य सर्वान्युधि कीर्तिमन्तो; व्यूहं च तं मकरं वज्रकल्पम्। प्रविश्य भीमेन निबर्हितोऽस्मि; घोरैः शरैर्मृत्युदण्डप्रकाशैः ॥६-७६-५॥
क्रुद्धं तमुद्वीक्ष्य भयेन राज; न्संमूर्छितो नालभं शान्तिमद्य। इच्छे प्रसादात्तव सत्यसन्ध; प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ॥६-७६-६॥
तेनैवमुक्तः प्रहसन्महात्मा; दुर्योधनं जातमन्युं विदित्वा। तं प्रत्युवाचाविमना मनस्वी; गङ्गासुतः शस्त्रभृतां वरिष्ठः ॥६-७६-७॥
परेण यत्नेन विगाह्य सेनां; सर्वात्मनाहं तव राजपुत्र। इच्छामि दातुं विजयं सुखं च; न चात्मानं छादयेऽहं त्वदर्थे ॥६-७६-८॥
एते तु रौद्रा बहवो महारथा; यशस्विनः शूरतमाः कृतास्त्राः। ये पाण्डवानां समरे सहाया; जितक्लमाः क्रोधविषं वमन्ति ॥६-७६-९॥
ते नेह शक्याः सहसा विजेतुं; वीर्योन्नद्धाः कृतवैरास्त्वया च। अहं ह्येतान्प्रतियोत्स्यामि राज; न्सर्वात्मना जीवितं त्यज्य वीर ॥६-७६-१०॥
रणे तवार्थाय महानुभाव; न जीवितं रक्ष्यतमं ममाद्य। सर्वांस्तवार्थाय सदेवदैत्याँ; ल्लोकान्दहेयं किमु शत्रूंस्तवेह ॥६-७६-११॥
तत्पाण्डवान्योधयिष्यामि राज; न्प्रियं च ते सर्वमहं करिष्ये। श्रुत्वैव चैतत्परमप्रतीतो; दुर्योधनः प्रीतमना बभूव ॥६-७६-१२॥
सर्वाणि सैन्यानि ततः प्रहृष्टो; निर्गच्छतेत्याह नृपांश्च सर्वान्। तदाज्ञया तानि विनिर्ययुर्द्रुतं; रथाश्वपादातगजायुतानि ॥६-७६-१३॥
प्रहर्षयुक्तानि तु तानि राज; न्महान्ति नानाविधशस्त्रवन्ति। स्थितानि नागाश्वपदातिमन्ति; विरेजुराजौ तव राजन्बलानि ॥६-७६-१४॥
वृन्दैः स्थिताश्चापि सुसम्प्रयुक्ता; श्चकाशिरे दन्तिगणाः समन्तात्। शस्त्रास्त्रविद्भिर्नरदेव योधै; रधिष्ठिताः सैन्यगणास्त्वदीयाः ॥६-७६-१५॥
रथैश्च पादातगजाश्वसङ्घैः; प्रयाद्भिराजौ विधिवत्प्रणुन्नैः। समुद्धतं वै तरुणार्कवर्णं; रजो बभौ छादयत्सूर्यरश्मीन् ॥६-७६-१६॥
रेजुः पताका रथदन्तिसंस्था; वातेरिता भ्राम्यमाणाः समन्तात्। नानारङ्गाः समरे तत्र राज; न्मेघैर्युक्ता विद्युतः खे यथैव ॥६-७६-१७॥
धनूंषि विस्फारयतां नृपाणां; बभूव शब्दस्तुमुलोऽतिघोरः। विमथ्यतो देवमहासुरौघै; र्यथार्णवस्यादियुगे तदानीम् ॥६-७६-१८॥
तदुग्रनादं बहुरूपवर्णं; तवात्मजानां समुदीर्णमेवम्। बभूव सैन्यं रिपुसैन्यहन्तृ; युगान्तमेघौघनिभं तदानीम् ॥६-७६-१९॥