6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.081
Core and Pancharatra: Arjuna is surrounded by Trigartas. Remaining Pandava brothers attack Bhishma. Yudhisthira rebukes Shikandin for not exerting; Duryodhana's brother Citraseṇa killed by Bhima?
सञ्जय उवाच॥
स तुद्यमानस्तु शरैर्धनञ्जयः; पदा हतो नाग इव श्वसन्बली। बाणेन बाणेन महारथानां; चिच्छेद चापानि रणे प्रसह्य ॥६-८१-१॥
सञ्छिद्य चापानि च तानि राज्ञां; तेषां रणे वीर्यवतां क्षणेन। विव्याध बाणैर्युगपन्महात्मा; निःशेषतां तेष्वथ मन्यमानः ॥६-८१-२॥
निपेतुराजौ रुधिरप्रदिग्धा; स्ते ताडिताः शक्रसुतेन राजन्। विभिन्नगात्राः पतितोत्तमाङ्गा; गतासवश्छिन्नतनुत्रकायाः ॥६-८१-३॥
महीं गताः पार्थबलाभिभूता; विचित्ररूपा युगपद्विनेशुः। दृष्ट्वा हतांस्तान्युधि राजपुत्रां; स्त्रिगर्तराजः प्रययौ क्षणेन ॥६-८१-४॥
तेषां रथानामथ पृष्ठगोपा; द्वात्रिंशदन्येऽब्यपतन्त पार्थम्। तथैव ते सम्परिवार्य पार्थं; विकृष्य चापानि महारवाणि ॥ अवीवृषन्बाणमहौघवृष्ट्या; यथा गिरिं तोयधरा जलौघैः ॥६-८१-५॥
सम्पीड्यमानस्तु शरौघवृष्ट्या; धनञ्जयस्तान्युधि जातरोषः। षष्ट्या शरैः संयति तैलधौतै; र्जघान तानप्यथ पृष्ठगोपान् ॥६-८१-६॥
षष्टिं रथांस्तानवजित्य सङ्ख्ये; धनञ्जयः प्रीतमना यशस्वी। अथात्वरद्भीष्मवधाय जिष्णु; र्बलानि राज्ञां समरे निहत्य ॥६-८१-७॥
त्रिगर्तराजो निहतान्समीक्ष्य; महारथांस्तानथ बन्धुवर्गान्। रणे पुरस्कृत्य नराधिपांस्ता; ञजगाम पार्थं त्वरितो वधाय ॥६-८१-८॥
अभिद्रुतं चास्त्रभृतां वरिष्ठं; धनञ्जयं वीक्ष्य शिखण्डिमुख्याः। अभ्युद्ययुस्ते शितशस्त्रहस्ता; रिरक्षिषन्तो रथमर्जुनस्य ॥६-८१-९॥
पार्थोऽपि तानापततः समीक्ष्य; त्रिगर्तराज्ञा सहितान्नृवीरान्। विध्वंसयित्वा समरे धनुष्मा; न्गाण्डीवमुक्तैर्निशितैः पृषत्कैः ॥ भीष्मं यियासुर्युधि संददर्श; दुर्योधनं सैन्धवादींश्च राज्ञः ॥६-८१-१०॥
आवारयिष्णूनभिसम्प्रयाय; मुहूर्तमायोध्य बलेन वीरः। उत्सृज्य राजानमनन्तवीर्यो; जयद्रथादींश्च नृपान्महौजाः ॥ ययौ ततो भीमबलो मनस्वी; गाङ्गेयमाजौ शरचापपाणिः ॥६-८१-११॥
युधिष्ठिरश्चोग्रबलो महात्मा; समाययौ त्वरितो जातकोपः। मद्राधिपं समभित्यज्य सङ्ख्ये; स्वभागमाप्तं तमनन्तकीर्तिः ॥ सार्धं स माद्रीसुतभीमसेनै; र्भीष्मं ययौ शान्तनवं रणाय ॥६-८१-१२॥
तैः सम्प्रयुक्तः स महारथाग्र्यै; र्गङ्गासुतः समरे चित्रयोधी। न विव्यथे शान्तनवो महात्मा; समागतैः पाण्डुसुतैः समस्तैः ॥६-८१-१३॥
अथैत्य राजा युधि सत्यसन्धो; जयद्रथोऽत्युग्रबलो मनस्वी। चिच्छेद चापानि महारथानां; प्रसह्य तेषां धनुषा वरेण ॥६-८१-१४॥
युधिष्ठिरं भीमसेनं यमौ च; पार्थं तथा युधि सञ्जातकोपः। दुर्योधनः क्रोधविषो महात्मा; जघान बाणैरनलप्रकाशैः ॥६-८१-१५॥
कृपेण शल्येन शलेन चैव; तथा विभो चित्रसेनेन चाजौ। विद्धाः शरैस्तेऽतिविवृद्धकोपै; र्देवा यथा दैत्यगणैः समेतैः ॥६-८१-१६॥
छिन्नायुधं शान्तनवेन राजा; शिखण्डिनं प्रेक्ष्य च जातकोपः। अजातशत्रुः समरे महात्मा; शिखण्डिनं क्रुद्ध उवाच वाक्यम् ॥६-८१-१७॥
उक्त्वा तथा त्वं पितुरग्रतो मा; महं हनिष्यामि महाव्रतं तम्। भीष्मं शरौघैर्विमलार्कवर्णैः; सत्यं वदामीति कृता प्रतिज्ञा ॥६-८१-१८॥
त्वया न चैनां सफलां करोषि; देवव्रतं यन्न निहंसि युद्धे। मिथ्याप्रतिज्ञो भव मा नृवीर; रक्षस्व धर्मं च कुलं यशश्च ॥६-८१-१९॥
प्रेक्षस्व भीष्मं युधि भीमवेगं; सर्वांस्तपन्तं मम सैन्यसङ्घान्। शरौघजालैरतितिग्मतेजैः; कालं यथा मृत्युकृतं क्षणेन ॥६-८१-२०॥
निकृत्तचापः समरानपेक्षः; पराजितः शान्तनवेन राज्ञा। विहाय बन्धूनथ सोदरांश्च; क्व यास्यसे नानुरूपं तवेदम् ॥६-८१-२१॥
दृष्ट्वा हि भीष्मं तमनन्तवीर्यं; भग्नं च सैन्यं द्रवमाणमेवम्। भीतोऽसि नूनं द्रुपदस्य पुत्र; तथा हि ते मुखवर्णोऽप्रहृष्टः ॥६-८१-२२॥
आज्ञायमानेऽपि धनञ्जयेन; महाहवे सम्प्रसक्ते नृवीर। कथं हि भीष्मात्प्रथितः पृथिव्यां; भयं त्वमद्य प्रकरोषि वीर ॥६-८१-२३॥
स धर्मराजस्य वचो निशम्य; रूक्षाक्षरं विप्रलापानुबद्धम्। प्रत्यादेशं मन्यमानो महात्मा; प्रतत्वरे भीष्मवधाय राजन् ॥६-८१-२४॥
तमापतन्तं महता जवेन; शिखण्डिनं भीष्ममभिद्रवन्तम्। आवारयामास हि शल्य एनं; शस्त्रेण घोरेण सुदुर्जयेन ॥६-८१-२५॥
स चापि दृष्ट्वा समुदीर्यमाण; मस्त्रं युगान्ताग्निसमप्रभावम्। नासौ व्यमुह्यद्द्रुपदस्य पुत्रो; राजन्महेन्द्रप्रतिमप्रभावः ॥६-८१-२६॥
तस्थौ च तत्रैव महाधनुष्मा; ञ्शरैस्तदस्त्रं प्रतिबाधमानः। अथाददे वारुणमन्यदस्त्रं; शिखण्ड्यथोग्रं प्रतिघाताय तस्य ॥ तदस्त्रमस्त्रेण विदार्यमाणं; खस्थाः सुरा ददृशुः पार्थिवाश्च ॥६-८१-२७॥
भीष्मस्तु राजन्समरे महात्मा; धनुः सुचित्रं ध्वजमेव चापि। छित्त्वानदत्पाण्डुसुतस्य वीरो; युधिष्ठिरस्याजमीढस्य राज्ञः ॥६-८१-२८॥
ततः समुत्सृज्य धनुः सबाणं; युधिष्ठिरं वीक्ष्य भयाभिभूतम्। गदां प्रगृह्याभिपपात सङ्ख्ये; जयद्रथं भीमसेनः पदातिः ॥६-८१-२९॥
तमापतन्तं महता जवेन; जयद्रथः सगदं भीमसेनम्। विव्याध घोरैर्यमदण्डकल्पैः; शितैः शरैः पञ्चशतैः समन्तात् ॥६-८१-३०॥
अचिन्तयित्वा स शरांस्तरस्वी; वृकोदरः क्रोधपरीतचेताः। जघान वाहान्समरे समस्ता; नारट्टजान्सिन्धुराजस्य सङ्ख्ये ॥६-८१-३१॥
ततोऽभिवीक्ष्याप्रतिमप्रभाव; स्तवात्मजस्त्वरमाणो रथेन। अभ्याययौ भीमसेनं निहन्तुं; समुद्यतास्त्रः सुरराजकल्पः ॥६-८१-३२॥
भीमोऽप्यथैनं सहसा विनद्य; प्रत्युद्ययौ गदया तर्जमानः। समुद्यतां तां यमदण्डकल्पां; दृष्ट्वा गदां ते कुरवः समन्तात् ॥६-८१-३३॥
विहाय सर्वे तव पुत्रमुग्रं; पातं गदायाः परिहर्तुकामाः। अपक्रान्तास्तुमुले संविमर्दे; सुदारुणे भारत मोहनीये ॥६-८१-३४॥
अमूढचेतास्त्वथ चित्रसेनो; महागदामापतन्तीं निरीक्ष्य। रथं समुत्सृज्य पदातिराजौ; प्रगृह्य खड्गं विमलं च चर्म ॥ अवप्लुतः सिंह इवाचलाग्रा; ज्जगाम चान्यं भुवि भूमिदेशम् ॥६-८१-३५॥
गदापि सा प्राप्य रथं सुचित्रं; साश्वं ससूतं विनिहत्य सङ्ख्ये। जगाम भूमिं ज्वलिता महोल्का; भ्रष्टाम्बराद्गामिव सम्पतन्ती ॥६-८१-३६॥
आश्चर्यभूतं सुमहत्त्वदीया; दृष्ट्वैव तद्भारत सम्प्रहृष्टाः। सर्वे विनेदुः सहिताः समन्ता; त्पुपूजिरे तव पुत्रं ससैन्याः ॥६-८१-३७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.