06.087
धृतराष्ट्र उवाच॥
इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः । सङ्ग्रामे किमकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥६-८७-१॥
सञ्जय उवाच॥
इरावन्तं तु निहतं सङ्ग्रामे वीक्ष्य राक्षसः । व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः ॥६-८७-२॥
नदतस्तस्य शब्देन पृथिवी सागराम्बरा । सपर्वतवना राजंश्चचाल सुभृशं तदा ॥ अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा ॥६-८७-३॥
तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत । ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च ॥६-८७-४॥
सर्व एव च राजेन्द्र तावका दीनचेतसः । सर्पवत्समवेष्टन्त सिंहभीता गजा इव ॥६-८७-५॥
निनदत्सुमहानादं निर्घातमिव राक्षसः । ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् ॥६-८७-६॥
नानाप्रहरणैर्घोरैर्वृतो राक्षसपुङ्गवैः । आजगाम सुसङ्क्रुद्धः कालान्तकयमोपमः ॥६-८७-७॥
तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् । स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् ॥६-८७-८॥
ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् । प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः ॥६-८७-९॥
पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः । कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् ॥६-८७-१०॥
तमापतन्तं सम्प्रेक्ष्य गजानीकेन संवृतम् । पुत्रं तव महाराज चुकोप स निशाचरः ॥६-८७-११॥
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् । राक्षसानां च राजेन्द्र दुर्योधनबलस्य च ॥६-८७-१२॥
गजानीकं च सम्प्रेक्ष्य मेघवृन्दमिवोद्यतम् । अभ्यधावन्त सङ्क्रुद्धा राक्षसाः शस्त्रपाणयः ॥६-८७-१३॥
नदन्तो विविधान्नादान्मेघा इव सविद्युतः । शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः ॥६-८७-१४॥
भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वधैः । पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् ॥६-८७-१५॥
भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् । अपश्याम महाराज वध्यमानान्निशाचरैः ॥६-८७-१६॥
तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु । दुर्योधनो महाराज राक्षसान्समुपाद्रवत् ॥६-८७-१७॥
अमर्षवशमापन्नस्त्यक्त्वा जीवितमात्मनः । मुमोच निशितान्बाणान्राक्षसेषु महाबलः ॥६-८७-१८॥
जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् । सङ्क्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ॥६-८७-१९॥
वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् । शरैश्चतुर्भिश्चतुरो निजघान महारथः ॥६-८७-२०॥
ततः पुनरमेयात्मा शरवर्षं दुरासदम् । मुमोच भरतश्रेष्ठ निशाचरबलं प्रति ॥६-८७-२१॥
तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष । क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः ॥६-८७-२२॥
विस्फार्य च महच्चापमिन्द्राशनिसमस्वनम् । अभिदुद्राव वेगेन दुर्योधनमरिंदमम् ॥६-८७-२३॥
तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् । न विव्यथे महाराज पुत्रो दुर्योधनस्तव ॥६-८७-२४॥
अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः । ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः ॥ यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः ॥६-८७-२५॥
यच्चैव द्रौपदी कृष्णा एकवस्त्रा रजस्वला । सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया ॥६-८७-२६॥
तव च प्रियकामेन आश्रमस्था दुरात्मना । सैन्धवेन परिक्लिष्टा परिभूय पितॄन्मम ॥६-८७-२७॥
एतेषामवमानानामन्येषां च कुलाधम । अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् ॥६-८७-२८॥
एवमुक्त्वा तु हैडिम्बो महद्विस्फार्य कार्मुकम् । संदश्य दशनैरोष्ठं सृक्किणी परिसंलिहन् ॥६-८७-२९॥
शरवर्षेण महता दुर्योधनमवाकिरत् । पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥६-८७-३०॥