6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.088
सञ्जय उवाच॥
ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि । दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः ॥६-८८-१॥
ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः । संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ ॥६-८८-२॥
मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम् । तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे ॥ आशीविषा इव क्रुद्धाः पर्वते गन्धमादने ॥६-८८-३॥
स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः । दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः ॥ जग्राह च महाशक्तिं गिरीणामपि दारणीम् ॥६-८८-४॥
सम्प्रदीप्तां महोल्काभामशनीं मघवानिव । समुद्यच्छन्महाबाहुर्जिघांसुस्तनयं तव ॥६-८८-५॥
तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् । कुञ्जरं गिरिसङ्काशं राक्षसं प्रत्यचोदयत् ॥६-८८-६॥
स नागप्रवरेणाजौ बलिना शीघ्रगामिना । यतो दुर्योधनरथस्तं मार्गं प्रत्यपद्यत ॥ रथं च वारयामास कुञ्जरेण सुतस्य ते ॥६-८८-७॥
मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता । घटोत्कचो महाराज क्रोधसंरक्तलोचनः ॥ उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे ॥६-८८-८॥
स तयाभिहतो राजंस्तेन बाहुविमुक्तया । सञ्जातरुधिरोत्पीडः पपात च ममार च ॥६-८८-९॥
पतत्यथ गजे चापि वङ्गानामीश्वरो बली । जवेन समभिद्रुत्य जगाम धरणीतलम् ॥६-८८-१०॥
दुर्योधनोऽपि सम्प्रेक्ष्य पातितं वरवारणम् । प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् ॥६-८८-११॥
क्षत्रधर्मं पुरस्कृत्य आत्मनश्चाभिमानिताम् । प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः ॥६-८८-१२॥
सन्धाय च शितं बाणं कालाग्निसमतेजसम् । मुमोच परमक्रुद्धस्तस्मिन्घोरे निशाचरे ॥६-८८-१३॥
तमापतन्तं सम्प्रेक्ष्य बाणमिन्द्राशनिप्रभम् । लाघवाद्वञ्चयामास महाकायो घटोत्कचः ॥६-८८-१४॥
भूय एव ननादोग्रः क्रोधसंरक्तलोचनः । त्रासयन्सर्वभूतानि युगान्ते जलदो यथा ॥६-८८-१५॥
तं श्रुत्वा निनदं घोरं तस्य भीष्मस्य रक्षसः । आचार्यमुपसङ्गम्य भीष्मः शान्तनवोऽब्रवीत् ॥६-८८-१६॥
यथैष निनदो घोरः श्रूयते राक्षसेरितः । हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह ॥६-८८-१७॥
नैष शक्यो हि सङ्ग्रामे जेतुं भूतेन केनचित् । तत्र गच्छत भद्रं वो राजानं परिरक्षत ॥६-८८-१८॥
अभिद्रुतं महाभागं राक्षसेन दुरात्मना । एतद्धि परमं कृत्यं सर्वेषां नः परन्तपाः ॥६-८८-१९॥
पितामहवचः श्रुत्वा त्वरमाणा महारथाः । उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः ॥६-८८-२०॥
द्रोणश्च सोमदत्तश्च बाह्लिकश्च जयद्रथः । कृपो भूरिश्रवाः शल्यश्चित्रसेनो विविंशतिः ॥६-८८-२१॥
अश्वत्थामा विकर्णश्च आवन्त्यश्च बृहद्बलः । रथाश्चानेकसाहस्रा ये तेषामनुयायिनः ॥ अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव ॥६-८८-२२॥
तदनीकमनाधृष्यं पालितं लोकसत्तमैः । आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः ॥ नाकम्पत महाबाहुर्मैनाक इव पर्वतः ॥६-८८-२३॥
प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः । शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि ॥६-८८-२४॥
ततः समभवद्युद्धं तुमुलं लोमहर्षणम् । राक्षसानां च मुख्यस्य दुर्योधनबलस्य च ॥६-८८-२५॥
धनुषां कूजतां शब्दः सर्वतस्तुमुलोऽभवत् । अश्रूयत महाराज वंशानां दह्यतामिव ॥६-८८-२६॥
शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् । शब्दः समभवद्राजन्नद्रीणामिव दीर्यताम् ॥६-८८-२७॥
वीरबाहुविसृष्टानां तोमराणां विशां पते । रूपमासीद्वियत्स्थानां सर्पाणां सर्पतामिव ॥६-८८-२८॥
ततः परमसङ्क्रुद्धो विस्फार्य सुमहद्धनुः । राक्षसेन्द्रो महाबाहुर्विनदन्भैरवं रवम् ॥६-८८-२९॥
आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् । सोमदत्तस्य भल्लेन ध्वजमुन्मथ्य चानदत् ॥६-८८-३०॥
बाह्लिकं च त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे । कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः ॥६-८८-३१॥
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च । जत्रुदेशे समासाद्य विकर्णं समताडयत् ॥ न्यषीदत्स रथोपस्थे शोणितेन परिप्लुतः ॥६-८८-३२॥
ततः पुनरमेयात्मा नाराचान्दश पञ्च च । भूरिश्रवसि सङ्क्रुद्धः प्राहिणोद्भरतर्षभ ॥ ते वर्म भित्त्वा तस्याशु प्राविशन्मेदिनीतलम् ॥६-८८-३३॥
विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् । तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् ॥६-८८-३४॥
सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् । उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः ॥६-८८-३५॥
चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः । जघान चतुरो वाहान्क्रोधसंरक्तलोचनः ॥६-८८-३६॥
पूर्णायतविसृष्टेन पीतेन निशितेन च । निर्बिभेद महाराज राजपुत्रं बृहद्बलम् ॥ स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥६-८८-३७॥
भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः । चिक्षेप निशितांस्तीक्ष्णाञ्शरानाशीविषोपमान् ॥ बिभिदुस्ते महाराज शल्यं युद्धविशारदम् ॥६-८८-३८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.