06.089
सञ्जय उवाच॥
विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः । जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत् ॥६-८९-१॥
तमापतन्तं सम्प्रेक्ष्य राजानं प्रति वेगितम् । अभ्यधावज्जिघांसन्तस्तावका युद्धदुर्मदाः ॥६-८९-२॥
तालमात्राणि चापानि विकर्षन्तो महाबलाः । तमेकमभ्यधावन्त नदन्तः सिंहसङ्घवत् ॥६-८९-३॥
अथैनं शरवर्षेण समन्तात्पर्यवारयन् । पर्वतं वारिधाराभिः शरदीव बलाहकाः ॥६-८९-४॥
स गाढविद्धो व्यथितस्तोत्त्रार्दित इव द्विपः । उत्पपात तदाकाशं समन्ताद्वैनतेयवत् ॥६-८९-५॥
व्यनदत्सुमहानादं जीमूत इव शारदः । दिशः खं प्रदिशश्चैव नादयन्भैरवस्वनः ॥६-८९-६॥
राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः । उवाच भरतश्रेष्ठो भीमसेनमिदं वचः ॥६-८९-७॥
युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः । यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम् ॥ अतिभारं च पश्यामि तत्र तात समाहितम् ॥६-८९-८॥
पितामहश्च सङ्क्रुद्धः पाञ्चालान्हन्तुमुद्यतः । तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः ॥६-८९-९॥
एतच्छ्रुत्वा महाबाहो कार्यद्वयमुपस्थितम् । गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम् ॥६-८९-१०॥
भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः । प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् ॥ वेगेन महता राजन्पर्वकाले यथोदधिः ॥६-८९-११॥
तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः । श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥६-८९-१२॥
अभिमन्युमुखाश्चैव द्रौपदेया महारथाः । क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च ॥६-८९-१३॥
अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः । महता रथवंशेन हैडिम्बं पर्यवारयन् ॥६-८९-१४॥
कुञ्जरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिः । अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् ॥६-८९-१५॥
सिंहनादेन महता नेमिघोषेण चैव हि । खुरशब्दनिनादैश्च कम्पयन्तो वसुन्धराम् ॥६-८९-१६॥
तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् । भीमसेनभयोद्विग्नं विवर्णवदनं तथा ॥ परिवृत्तं महाराज परित्यज्य घटोत्कचम् ॥६-८९-१७॥
ततः प्रववृते युद्धं तत्र तत्र महात्मनाम् । तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् ॥६-८९-१८॥
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः । अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे ॥ व्यतिषक्तं महारौद्रं युद्धं भीरुभयावहम् ॥६-८९-१९॥
हया गजैः समाजग्मुः पादाता रथिभिः सह । अन्योन्यं समरे राजन्प्रार्थयाना महद्यशः ॥६-८९-२०॥
सहसा चाभवत्तीव्रं संनिपातान्महद्रजः । रथाश्वगजपत्तीनां पदनेमिसमुद्धतम् ॥६-८९-२१॥
धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत् । नैव स्वे न परे राजन्समजानन्परस्परम् ॥६-८९-२२॥
पिता पुत्रं न जानीते पुत्रो वा पितरं तथा । निर्मर्यादे तथा भूते वैशसे लोमहर्षणे ॥६-८९-२३॥
शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम् । सुमहानभवच्छब्दो वंशानामिव दह्यताम् ॥६-८९-२४॥
गजवाजिमनुष्याणां शोणितान्त्रतरङ्गिणी । प्रावर्तत नदी तत्र केशशैवलशाद्वला ॥६-८९-२५॥
नराणां चैव कायेभ्यः शिरसां पततां रणे । शुश्रुवे सुमहाञ्शब्दः पततामश्मनामिव ॥६-८९-२६॥
विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः । अश्वैः सम्भिन्नदेहैश्च सङ्कीर्णाभूद्वसुन्धरा ॥६-८९-२७॥
नानाविधानि शस्त्राणि विसृजन्तो महारथाः । अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे ॥६-८९-२८॥
हया हयान्समासाद्य प्रेषिता हयसादिभिः । समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः ॥६-८९-२९॥
नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् । उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे ॥६-८९-३०॥
प्रेषिताश्च महामात्रैर्वारणाः परवारणाः । अभिघ्नन्ति विषाणाग्रैर्वारणानेव संयुगे ॥६-८९-३१॥
ते जातरुधिरापीडाः पताकाभिरलङ्कृताः । संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥६-८९-३२॥
केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः । विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा इव ॥६-८९-३३॥
केचिद्धस्तैर्द्विधा छिन्नैश्छिन्नगात्रास्तथापरे । निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः ॥६-८९-३४॥
पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः । मुमुचुः शोणितं भूरि धातूनिव महीधराः ॥६-८९-३५॥
नाराचाभिहतास्त्वन्ये तथा विद्धाश्च तोमरैः । हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः ॥६-८९-३६॥
केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः । रथान्हयान्पदातांश्च ममृदुः शतशो रणे ॥६-८९-३७॥
तथा हया हयारोहैस्ताडिताः प्रासतोमरैः । तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः ॥६-८९-३८॥
रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः । परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् ॥६-८९-३९॥
स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् । प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः ॥६-८९-४०॥
तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे । धार्तराष्ट्रं महत्सैन्यं प्रायशो विमुखीकृतम् ॥६-८९-४१॥