6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.090
Core and Pancharatra: Duryodhana along with Ashwatthama make one final attempt to attack Bhima, but supported by Ghatotkacha and Abhimanyu, the Pandavas are victorious as the day comes to an end.
सञ्जय उवाच॥
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् । अभ्यधावत सङ्क्रुद्धो भीमसेनमरिंदमम् ॥६-९०-१॥
प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् । महता शरवर्षेण पाण्डवं समवाकिरत् ॥६-९०-२॥
अर्धचन्द्रं च सन्धाय सुतीक्ष्णं लोमवाहिनम् । भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ॥६-९०-३॥
तदन्तरं च सम्प्रेक्ष्य त्वरमाणो महारथः । संदधे निशितं बाणं गिरीणामपि दारणम् ॥ तेनोरसि महाबाहुर्भीमसेनमताडयत् ॥६-९०-४॥
स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् । समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् ॥६-९०-५॥
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः । क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः ॥६-९०-६॥
अभिमन्युमुखाश्चैव पाण्डवानां महारथाः । समभ्यधावन्क्रोशन्तो राजानं जातसम्भ्रमाः ॥६-९०-७॥
सम्प्रेक्ष्य तानापततः सङ्क्रुद्धाञ्जातसम्भ्रमान् । भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् ॥६-९०-८॥
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत । संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे ॥६-९०-९॥
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः । भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः ॥६-९०-१०॥
नानाविधानि शस्त्राणि विसृजन्तो जये रताः । नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम् ॥६-९०-११॥
तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः । तावकाः समवर्तन्त पाण्डवानामनीकिनीम् ॥६-९०-१२॥
कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः । चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः ॥ आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ॥६-९०-१३॥
ते विंशतिपदं गत्वा सम्प्रहारं प्रचक्रिरे । पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः ॥६-९०-१४॥
एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम् । भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ॥६-९०-१५॥
भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् । पर्वतं वारिधाराभिः शरदीव बलाहकः ॥६-९०-१६॥
तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः । त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ॥६-९०-१७॥
स गाढविद्धो व्यथितो वयोवृद्धश्च भारत । प्रनष्टसञ्ज्ञः सहसा रथोपस्थ उपाविशत् ॥६-९०-१८॥
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् । द्रौणायनिश्च सङ्क्रुद्धौ भीमसेनमभिद्रुतौ ॥६-९०-१९॥
तावापतन्तौ सम्प्रेक्ष्य कालान्तकयमोपमौ । भीमसेनो महाबाहुर्गदामादाय सत्वरः ॥६-९०-२०॥
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः । समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे ॥६-९०-२१॥
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् । कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ॥६-९०-२२॥
तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ । अभ्यधावत वेगेन त्वरमाणो वृकोदरः ॥६-९०-२३॥
तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् । समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ॥६-९०-२४॥
भारद्वाजमुखाः सर्वे भीमसेनजिघांसया । नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ॥ सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः ॥६-९०-२५॥
तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् । अभिमन्युप्रभृतयः पाण्डवानां महारथाः ॥ अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥६-९०-२६॥
अनूपाधिपतिः शूरो भीमस्य दयितः सखा । नीलो नीलाम्बुदप्रख्यः सङ्क्रुद्धो द्रौणिमभ्ययात् ॥ स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः ॥६-९०-२७॥
स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा । यथा शक्रो महाराज पुरा विव्याध दानवम् ॥६-९०-२८॥
विप्रचित्तिं दुराधर्षं देवतानां भयङ्करम् । येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा ॥६-९०-२९॥
तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा । सञ्जातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ॥६-९०-३०॥
स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् । दध्रे नीलविनाशाय मतिं मतिमतां वरः ॥६-९०-३१॥
ततः सन्धाय विमलान्भल्लान्कर्मारपायितान् । जघान चतुरो वाहान्पातयामास च ध्वजम् ॥६-९०-३२॥
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि । स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥६-९०-३३॥
मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम् । घटोत्कचोऽपि सङ्क्रुद्धो भ्रातृभिः परिवारितः ॥६-९०-३४॥
अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् । तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः ॥६-९०-३५॥
तमापतन्तं सम्प्रेक्ष्य राक्षसं घोरदर्शनम् । अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् ॥६-९०-३६॥
निजघान च सङ्क्रुद्धो राक्षसान्भीमदर्शनान् । योऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः ॥६-९०-३७॥
विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः । अक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः ॥६-९०-३८॥
प्रादुश्चक्रे महामायां घोररूपां सुदारुणाम् । मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः ॥६-९०-३९॥
ततस्ते तावकाः सर्वे मायया विमुखीकृताः । अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले ॥ विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् ॥६-९०-४०॥
द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च । प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः ॥६-९०-४१॥
विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः । हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः ॥६-९०-४२॥
तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति । मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ॥६-९०-४३॥
युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे । घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः ॥ नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः ॥६-९०-४४॥
तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः । घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे ॥ शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम् ॥६-९०-४५॥
एवं तव बलं सर्वं हैडिम्बेन दुरात्मना । सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ॥६-९०-४६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.