6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.107
Core and Pancharatra: Attack from every side of the Pandava side with the intent to kill Bhishma was restrained by the Kauravas, but was thoroughly shaken.
सञ्जय उवाच॥
सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा। आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे ॥६-१०७-१॥
माधवस्तु सुसङ्क्रुद्धो राक्षसं नवभिः शरैः। आजघान रणे राजन्प्रहसन्निव भारत ॥६-१०७-२॥
तथैव राक्षसो राजन्माधवं निशितैः शरैः। अर्दयामास राजेन्द्र सङ्क्रुद्धः शिनिपुङ्गवम् ॥६-१०७-३॥
शैनेयः शरसङ्घं तु प्रेषयामास संयुगे। राक्षसाय सुसङ्क्रुद्धो माधवः परवीरहा ॥६-१०७-४॥
ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम्। विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च ॥६-१०७-५॥
माधवस्तु भृशं विद्धो राक्षसेन रणे तदा। धैर्यमालम्ब्य तेजस्वी जहास च ननाद च ॥६-१०७-६॥
भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः। ताडयामास समरे तोत्त्रैरिव महागजम् ॥६-१०७-७॥
विहाय राक्षसं युद्धे शैनेयो रथिनां वरः। प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः ॥६-१०७-८॥
तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः। चिच्छेद शितधारेण भल्लेन कृतहस्तवत् ॥६-१०७-९॥
अथान्यद्धनुरादाय वेगवत्परवीरहा। भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः ॥६-१०७-१०॥
सोऽतिविद्धो महेष्वासः सृक्किणी संलिहन्मुहुः। शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम् ॥ यमदण्डोपमां घोरां प्राहिणोत्सात्यकाय वै ॥६-१०७-११॥
तामापतन्तीं सहसा तस्य बाहोर्बलेरिताम्। सात्यकिः समरे राजंस्त्रिधा चिच्छेद सायकैः ॥ सा पपात तदा भूमौ महोल्केव हतप्रभा ॥६-१०७-१२॥
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते। महता रथवंशेन वारयामास माधवम् ॥६-१०७-१३॥
तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम्। दुर्योधनो भृशं हृष्टो भ्रातॄन्सर्वानुवाच ह ॥६-१०७-१४॥
तथा कुरुत कौरव्या यथा वः सात्यको युधि। न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् ॥ अस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् ॥६-१०७-१५॥
तत्तथेति वचस्तस्य परिगृह्य महारथाः। शैनेयं योधयामासुर्भीष्मस्य प्रमुखे तदा ॥६-१०७-१६॥
अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे। काम्बोजराजो बलवान्वारयामास संयुगे ॥६-१०७-१७॥
आर्जुनिर्नृपतिं विद्ध्वा शरैः संनतपर्वभिः। पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम् ॥६-१०७-१८॥
सुदक्षिणस्तु समरे कार्ष्णिं विव्याध पञ्चभिः। सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् ॥६-१०७-१९॥
तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे। यदभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः ॥६-१०७-२०॥
विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम्। भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ ॥६-१०७-२१॥
अश्वत्थामा ततः क्रुद्धः समायाद्रथसत्तमः। ततः प्रववृते युद्धं तव तेषां च भारत ॥६-१०७-२२॥
विराटो दशभिर्भल्लैराजघान परन्तप। यतमानं महेष्वासं द्रौणिमाहवशोभिनम् ॥६-१०७-२३॥
द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तथा। गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम् ॥६-१०७-२४॥
अश्वत्थामा ततस्तौ तु विव्याध दशभिः शरैः। विराटद्रुपदौ वृद्धौ भीष्मं प्रति समुद्यतौ ॥६-१०७-२५॥
तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत्। यद्द्रौणेः सायकान्घोरान्प्रत्यवारयतां युधि ॥६-१०७-२६॥
सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात्। यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् ॥६-१०७-२७॥
कृपश्च समरे राजन्माद्रीपुत्रं महारथम्। आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः ॥६-१०७-२८॥
तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः। अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः ॥६-१०७-२९॥
सोऽन्यत्कार्मुकमादाय समरे भारसाधनम्। माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः ॥ आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् ॥६-१०७-३०॥
तथैव पाण्डवो राजञ्शारद्वतममर्षणम्। आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया ॥ तयोर्युद्धं समभवद्घोररूपं भयावहम् ॥६-१०७-३१॥
नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः। विव्याध सायकैः षष्ट्या रक्षन्भीष्मस्य जीवितम् ॥६-१०७-३२॥
नकुलोऽपि भृशं विद्धस्तव पुत्रेण धन्विना। विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः ॥६-१०७-३३॥
तत्र तौ नरशार्दूलौ भीष्महेतोः परन्तपौ। अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव ॥६-१०७-३४॥
घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम्। दुर्मुखः समरे प्रायाद्भीष्महेतोः पराक्रमी ॥६-१०७-३५॥
हैडिम्बस्तु ततो राजन्दुर्मुखं शत्रुतापनम्। आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः ॥६-१०७-३६॥
भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः। षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि ॥६-१०७-३७॥
धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम्। हार्दिक्यो वारयामास रक्षन्भीष्मस्य जीवितम् ॥६-१०७-३८॥
वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिरायसैः। पुनः पञ्चाशता तूर्णमाजघान स्तनान्तरे ॥६-१०७-३९॥
तथैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः। विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ॥६-१०७-४०॥
तयोः समभवद्युद्धं भीष्महेतोर्महारणे। अन्योन्यातिशयैर्युक्तं यथा वृत्रमहेन्द्रयोः ॥६-१०७-४१॥
भीमसेनमथायान्तं भीष्मं प्रति महाबलम्। भूरिश्रवाभ्ययात्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥६-१०७-४२॥
सौमदत्तिरथो भीममाजघान स्तनान्तरे। नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे ॥६-१०७-४३॥
उरःस्थेन बभौ तेन भीमसेनः प्रतापवान्। स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम ॥६-१०७-४४॥
तौ शरान्सूर्यसङ्काशान्कर्मारपरिमार्जितान्। अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते मुहुर्मुहुः ॥६-१०७-४५॥
भीमो भीष्मवधाकान्ष्की सौमदत्तिं महारथम्। तथा भीष्मजये गृध्नुः सौमदत्तिश्च पाण्डवम् ॥ कृतप्रतिकृते यत्तौ योधयामासतू रणे ॥६-१०७-४६॥
युधिष्ठिरं महाराज महत्या सेनया वृतम्। भीष्मायाभिमुखं यान्तं भारद्वाजो न्यवारयत् ॥६-१०७-४७॥
द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम्। श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष ॥६-१०७-४८॥
सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे। द्रोणेन वारिता यत्ता न चचाल पदात्पदम् ॥६-१०७-४९॥
चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर। चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् ॥६-१०७-५०॥
भीष्महेतोः पराक्रान्तश्चित्रसेनो महारथः। चेकितानं परं शक्त्या योधयामास भारत ॥६-१०७-५१॥
तथैव चेकितानोऽपि चित्रसेनमयोधयत्। तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे ॥६-१०७-५२॥
अर्जुनो वार्यमाणस्तु बहुशस्तनयेन ते। विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह ॥६-१०७-५३॥
दुःशासनोऽपि परया शक्त्या पार्थमवारयत्। कथं भीष्मं परो हन्यादिति निश्चित्य भारत ॥६-१०७-५४॥
सा वध्यमाना समरे पुत्रस्य तव वाहिनी। लोड्यते रथिभिः श्रेष्ठैस्तत्र तत्रैव भारत ॥६-१०७-५५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.