07.037 
 Pancharatra and Core: Battle continues where Abhimanyu gains upper hand over Shalya and his army. 
धृतराष्ट्र उवाच॥
तथा प्रमथमानं तं महेष्वासमजिह्मगैः। आर्जुनिं मामकाः सर्वे के त्वेनं समवाकिरन् ॥७-३७-१॥
सञ्जय उवाच॥
शृणु राजन्कुमारस्य रणे विक्रीडितं महत्। बिभित्सतो रथानीकं भारद्वाजेन रक्षितम् ॥७-३७-२॥
मद्रेशं सादितं दृष्ट्वा सौभाद्रेणाशुगै रणे। शल्यादवरजः क्रुद्धः किरन्बाणान्समभ्ययात् ॥७-३७-३॥
स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम्। उदक्रोशन्महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत् ॥७-३७-४॥
तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान्। छत्रं ध्वजं नियन्तारं त्रिवेणुं शम्युपस्करम् ॥७-३७-५॥
चक्रे युगेषां तूणीराननुकर्षं च सायकैः। पताकां चक्रगोप्तारौ सर्वोपकरणानि च ॥ व्यधमल्लाघवात्तच्च ददृशे नास्य कश्चन ॥७-३७-६॥
स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः। वायुनेव महाचैत्यः सम्भग्नोऽमिततेजसा ॥ अनुगाश्चास्य वित्रस्ताः प्राद्रवन्सर्वतोदिशम् ॥७-३७-७॥
आर्जुनेः कर्म तद्दृष्ट्व प्रणेदुश्च समन्ततः। नादेन सर्वभूतानि साधु साध्विति भारत ॥७-३७-८॥
शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः। कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम् ॥७-३७-९॥
अभ्यवर्तन्त सङ्क्रुद्धा विविधायुधपाणयः। रथैरश्वैर्गजैश्चान्ये पादातैश्च बलोत्कटाः ॥७-३७-१०॥
बाणशब्देन महता खुरनेमिस्वनेन च। हुङ्कारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः सगर्जितैः ॥७-३७-११॥
ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम्। ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवतामिति ॥७-३७-१२॥
तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव। यो यः स्म प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः ॥७-३७-१३॥
संदर्शयिष्यन्नस्त्राणि चित्राणि च लघूनि च। आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत ॥७-३७-१४॥
वासुदेवादुपात्तं यद्यदस्त्रं च धनञ्जयात्। अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषयन् ॥७-३७-१५॥
दूरमस्यन्गुरुं भारं साधयंश्च पुनः पुनः। संदधद्विसृजंश्चेषून्निर्विशेषमदृश्यत ॥७-३७-१६॥
चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत। तमो घ्नतः सुदीप्तस्य सवितुर्मण्डलं यथा ॥७-३७-१७॥
ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः। महाशनिमुचः काले पयोदस्येव निस्वनः ॥७-३७-१८॥
ह्रीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः। संमिमानयिषुर्वीरानिष्वासांश्चाप्ययुध्यत ॥७-३७-१९॥
मृदुर्भूत्वा महाराज दारुणः समपद्यत। वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः ॥७-३७-२०॥
शरान्विचित्रान्महतो रुक्मपुङ्खाञ्शिलाशितान्। मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः ॥७-३७-२१॥
क्षुरप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः। नाराचैरर्धनाराचैर्भल्लैरज्ञलिकैरपि ॥७-३७-२२॥
अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः। ततस्तत्सैन्यमभवद्विमुखं शरपीडितम् ॥७-३७-२३॥