07.050 
 Pancharatra and Core: Arjuna spoke to all his brothers, his voice choked with emotion.
सञ्जय उवाच॥
तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये। आदित्येऽस्तङ्गते श्रीमान्सन्ध्याकाल उपस्थिते ॥७-५०-१॥
व्यपयातेषु सैन्येषु वासाय भरतर्षभ। हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः ॥७-५०-२॥
प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम्। गच्छन्नेव च गोविन्दं सन्नकण्ठोऽभ्यभाषत ॥७-५०-३॥
किं नु मे हृदयं त्रस्तं वाक्यं सज्जति केशव। स्पन्दन्ति चाप्यनिष्टानि गात्रं सीदति चाच्युत ॥७-५०-४॥
अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति। भुवि यद्दिक्षु चाप्युग्रा उत्पातास्त्रासयन्ति माम् ॥७-५०-५॥
बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः। अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम ॥७-५०-६॥
वासुदेव उवाच॥
व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति। मा शुचः किञ्चिदेवान्यत्तत्रानिष्टं भविष्यति ॥७-५०-७॥
सञ्जय उवाच॥
ततः सन्ध्यामुपास्यैव वीरौ वीरावसादने। कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ ॥७-५०-८॥
ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम्। वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् ॥७-५०-९॥
ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा। बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः ॥७-५०-१०॥
नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन। मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह ॥ वीणा वा नाद्य वाद्यन्ते शम्यातालस्वनैः सह ॥७-५०-११॥
मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च। स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः ॥७-५०-१२॥
योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः। कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् ॥७-५०-१३॥
अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव। न हि शुध्यति मे भावो दृष्ट्वा स्वजनमाकुलम् ॥७-५०-१४॥
अपि पाञ्चालराजस्य विराटस्य च मानद। सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत ॥७-५०-१५॥
न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह। रणादायान्तमुचितं प्रत्युद्याति हसन्निव ॥७-५०-१६॥
एवं सङ्कथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम्। ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः ॥७-५०-१७॥
दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः। अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् ॥७-५०-१८॥
मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते। न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ ॥७-५०-१९॥
मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः। न च वस्तस्य भेत्तास्ति ऋते सौभद्रमाहवे ॥७-५०-२०॥
न चोपदिष्टस्तस्यासीन्मयानीकविनिर्गमः। कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः ॥७-५०-२१॥
भित्त्वानीकं महेष्वासः परेषां बहुशो युधि। कच्चिन्न निहतः शेते सौभद्रः परवीरहा ॥७-५०-२२॥
लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु। उपेन्द्रसदृशं ब्रूत कथमायोधने हतः ॥७-५०-२३॥
सुकुमारं महेष्वासं वासवस्यात्मजात्मजम्। सदा मम प्रियं ब्रूत कथमायोधने हतः ॥७-५०-२४॥
वार्ष्णेयीदयितं शूरं मया सततलालितम्। अम्बायाश्च प्रियं नित्यं कोऽवधीत्कालचोदितः ॥७-५०-२५॥
सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः। विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः ॥७-५०-२६॥
सुभद्रायाः प्रियं नित्यं द्रौपद्याः केशवस्य च। यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥७-५०-२७॥
मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम्। मत्तद्विरदविक्रान्तं शालपोतमिवोद्गतम् ॥७-५०-२८॥
स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा। बाल्येऽप्यबालकर्माणं प्रियवाक्यममत्सरम् ॥७-५०-२९॥
महोत्साहं महाबाहुं दीर्घराजीवलोचनम्। भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् ॥७-५०-३०॥
कृतज्ञं ज्ञानसम्पन्नं कृतास्त्रमनिवर्तिनम्। युद्धाभिनन्दिनं नित्यं द्विषतामघवर्धनम् ॥७-५०-३१॥
स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम्। न च पूर्वप्रहर्तारं सङ्ग्रामे नष्टसम्भ्रमम् ॥ यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥७-५०-३२॥
सुललाटं सुकेशान्तं सुभ्र्वक्षिदशनच्छदम्। अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे ॥७-५०-३३॥
तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम्। अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे ॥७-५०-३४॥
रूपं चाप्रतिरूपं तत्त्रिदशेष्वपि दुर्लभम्। अपश्यतोऽद्य वीरस्य का शान्तिर्हृदयस्य मे ॥७-५०-३५॥
अभिवादनदक्षं तं पितॄणां वचने रतम्। नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे ॥७-५०-३६॥
सुकुमारः सदा वीरो महार्हशयनोचितः। भूमावनाथवच्छेते नूनं नाथवतां वरः ॥७-५०-३७॥
शयानं समुपासन्ति यं पुरा परमस्त्रियः। तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः ॥७-५०-३८॥
यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः। बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वरैः ॥७-५०-३९॥
छत्रच्छायासमुचितं तस्य तद्वदनं शुभम्। नूनमद्य रजोध्वस्तं रणे रेणुः करिष्यति ॥७-५०-४०॥
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने। भाग्यहीनस्य कालेन यथा मे नीयसे बलात् ॥७-५०-४१॥
साद्य संयमनी नूनं सदा सुकृतिनां गतिः। स्वभाभिर्भासिता रम्या त्वयात्यर्थं विराजते ॥७-५०-४२॥
नूनं वैवस्वतश्च त्वा वरुणश्च प्रियातिथिः। शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् ॥७-५०-४३॥
एवं विलप्य बहुधा भिन्नपोतो वणिग्यथा। दुःखेन महताविष्टो युधिष्ठिरमपृच्छत ॥७-५०-४४॥
कच्चित्स कदनं कृत्वा परेषां पाण्डुनन्दन। स्वर्गतोऽभिमुखः सङ्ख्ये युध्यमानो नरर्षभः ॥७-५०-४५॥
स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः। असहायः सहायार्थी मामनुध्यातवान्ध्रुवम् ॥७-५०-४६॥
पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम्। इति विप्रलपन्मन्ये नृशंसैर्बहुभिर्हतः ॥७-५०-४७॥
अथ वा मत्प्रसूतश्च स्वस्रीयो माधवस्य च। सुभद्रायां च सम्भूतो नैवं वक्तुमिहार्हति ॥७-५०-४८॥
वज्रसारमयं नूनं हृदयं सुदृढं मम। अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते ॥७-५०-४९॥
कथं बाले महेष्वासे नृशंसा मर्मभेदिनः। स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान् ॥७-५०-५०॥
यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति। उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति ॥७-५०-५१॥
नूनं स पतितः शेते धरण्यां रुधिरोक्षितः। शोभयन्मेदिनीं गात्रैरादित्य इव पातितः ॥७-५०-५२॥
रणे विनिहतं श्रुत्वा शोकार्ता वै विनङ्क्ष्यति। सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती ॥ द्रौपदी चैव दुःखार्ते ते च वक्ष्यामि किं न्वहम् ॥७-५०-५३॥
वज्रसारमयं नूनं हृदयं यन्न यास्यति। सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम् ॥७-५०-५४॥
हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः। युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन् ॥७-५०-५५॥
अशक्नुवन्तो बीभत्सुं बालं हत्वा महारथाः। किं नदध्वमधर्मज्ञाः पार्थे वै दृश्यतां बलम् ॥७-५०-५६॥
किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे। सिंहवन्नदत प्रीताः शोककाल उपस्थिते ॥७-५०-५७॥
आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः। अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम् ॥७-५०-५८॥
इति तान्प्रति भाषन्वै वैश्यापुत्रो महामतिः। अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः ॥७-५०-५९॥
किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम। अधक्ष्यं तानहं सर्वांस्तदा क्रूरान्महारथान् ॥७-५०-६०॥
निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम्। मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम् ॥७-५०-६१॥
सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम्। क्षत्रियाणां विशेषेण येषां युद्धेन जीविका ॥७-५०-६२॥
एषा वै युध्यमानानां शूराणामनिवर्तिनाम्। विहिता धर्मशास्त्रज्ञैर्गतिर्गतिमतां वर ॥७-५०-६३॥
ध्रुवं युद्धे हि मरणं शूराणामनिवर्तिनाम्। गतः पुण्यकृतां लोकानभिमन्युर्न संशयः ॥७-५०-६४॥
एतच्च सर्ववीराणां काङ्क्षितं भरतर्षभ। सङ्ग्रामेऽभिमुखा मृत्युं प्रप्नुयामेति मानद ॥७-५०-६५॥
स च वीरान्रणे हत्वा राजपुत्रान्महाबलान्। वीरैराकाङ्क्षितं मृत्युं सम्प्राप्तोऽभिमुखो रणे ॥७-५०-६६॥
मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः। धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः ॥७-५०-६७॥
इमे ते भ्रातरः सर्वे दीना भरतसत्तम। त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव ॥७-५०-६८॥
एतांस्त्वं वचसा साम्ना समाश्वासय मानद। विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि ॥७-५०-६९॥
एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा। ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदान् ॥७-५०-७०॥
स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः। अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा ॥७-५०-७१॥
सनागस्यन्दनहयान्द्रक्ष्यध्वं निहतान्मया। सङ्ग्रामे सानुबन्धांस्तान्मम पुत्रस्य वैरिणः ॥७-५०-७२॥
कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम्। सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः ॥७-५०-७३॥
यद्येवमहमज्ञास्यमशक्तान्रक्षणे मम। पुत्रस्य पाण्डुपाञ्चालान्मया गुप्तो भवेत्ततः ॥७-५०-७४॥
कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम्। नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः ॥७-५०-७५॥
अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः। यत्राभिमन्युः समरे पश्यतां वो निपातितः ॥७-५०-७६॥
आत्मानमेव गर्हेयं यदहं वः सुदुर्बलान्। युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्रमान् ॥७-५०-७७॥
आहो स्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः। वाचश्च वक्तुं संसत्सु मम पुत्रमरक्षताम् ॥७-५०-७८॥
एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान्। न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम् ॥७-५०-७९॥
तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः। पुत्रशोकाभिसन्तप्तमश्रुपूर्णमुखं तदा ॥७-५०-८०॥
नाभिभाष्टुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम्। अन्यत्र वासुदेवाद्वा ज्येष्टाद्वा पाण्डुनन्दनात् ॥७-५०-८१॥
सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ। बहुमानात्प्रियत्वाच्च तावेनं वक्तुमर्हतः ॥७-५०-८२॥
ततस्तं पुत्रशोकेन भृशं पीडितमानसम्। राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत् ॥७-५०-८३॥