07.055 
 Pancharatra and Core: Lamentations of Subhadra, Uttara, and Draupadi.
सञ्जय उवाच॥
एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः। सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता ॥७-५५-१॥
हा पुत्र मम मन्दायाः कथं संयुगमेत्य ह। निधनं प्राप्तवांस्तात पितृतुल्यपराक्रमः ॥७-५५-२॥
कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम्। मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना ॥७-५५-३॥
नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम्। सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं निरूदरम् ॥७-५५-४॥
चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम्। भूतानि त्वा निरीक्षन्ते नूनं चन्द्रमिवोदितम् ॥७-५५-५॥
शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम्। भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः ॥७-५५-६॥
योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः। कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे ॥७-५५-७॥
योऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः। सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्यते ॥७-५५-८॥
पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभो। पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत् ॥७-५५-९॥
अतृप्तदर्शना पुत्र दर्शनस्य तवानघ। मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम् ॥७-५५-१०॥
विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च। तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम् ॥७-५५-११॥
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम्। धिग्वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग्बलम् ॥७-५५-१२॥
धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान्। ये त्वा रणे गतं वीरं न जानन्ति निपातितम् ॥७-५५-१३॥
अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम्। अभिमन्युमपश्यन्ती शोकव्याकुललोचना ॥७-५५-१४॥
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः। कथं त्वा विरथं वीरं द्रक्ष्याम्यन्यैर्निपातितम् ॥७-५५-१५॥
हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे। अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम् ॥७-५५-१६॥
इमां ते तरुणीं भार्यां त्वदाधिभिरभिप्लुताम्। कथं सन्धारयिष्यामि विवत्सामिव धेनुकाम् ॥७-५५-१७॥
अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक। विहाय फलकाले मां सुगृद्धां तव दर्शने ॥७-५५-१८॥
नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा। यत्र त्वं केशवे नाथे सङ्ग्रामेऽनाथवद्धतः ॥७-५५-१९॥
यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम्। चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम् ॥७-५५-२०॥
कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि। सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि ॥७-५५-२१॥
या गतिर्युध्यमानानां शूराणामनिवर्तिनाम्। हत्वारीन्निहतानां च सङ्ग्रामे तां गतिं व्रज ॥७-५५-२२॥
गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः। नैवेशिकं चाभिमतं ददतां या गतिः शुभा ॥७-५५-२३॥
ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रता। एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक ॥७-५५-२४॥
राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती। चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः ॥७-५५-२५॥
दीनानुकम्पिनां या च सततं संविभागिनाम्। पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक ॥७-५५-२६॥
व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि। अमोघातिथिनां या च तां गतिं व्रज पुत्रक ॥७-५५-२७॥
ऋतुकाले स्वकां पत्नीं गच्छतां या मनस्विनाम्। न चान्यदारसेवीनां तां गतिं व्रज पुत्रक ॥७-५५-२८॥
साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः। नारुन्तुदानां क्षमिणां या गतिस्तामवाप्नुहि ॥७-५५-२९॥
मधुमांसनिवृत्तानां मदाद्दम्भात्तथानृतात्। परोपतापत्यक्तानां तां गतिं व्रज पुत्रक ॥७-५५-३०॥
ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः। यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक ॥७-५५-३१॥
एवं विलपतीं दीनां सुभद्रां शोककर्शिताम्। अभ्यपद्यत पाञ्चाली वैराटीसहिता तदा ॥७-५५-३२॥
ताः प्रकामं रुदित्वा च विलप्य च सुदुःखिताः। उन्मत्तवत्तदा राजन्विसञ्ज्ञा न्यपतन्क्षितौ ॥७-५५-३३॥
सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः। सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः ॥७-५५-३४॥
विसञ्ज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम्। भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत् ॥७-५५-३५॥
सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम्। गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुङ्गवः ॥७-५५-३६॥
ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने। सर्वे ते वै गतिं यान्तु अभिमन्योर्यशस्विनः ॥७-५५-३७॥
कुर्याम तद्वयं कर्म क्रियासुः सुहृदश्च नः। कृतवान्यादृगद्यैकस्तव पुत्रो महारथः ॥७-५५-३८॥
एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम्। पार्थस्यैव महाबाहुः पार्श्वमागादरिंदमः ॥७-५५-३९॥
ततोऽभ्यनुज्ञाय नृपान्कृष्णो बन्धूंस्तथाभिभूः। विवेशान्तःपुरं राजंस्तेऽन्ये जग्मुर्यथालयम् ॥७-५५-४०॥