07.063 
 
सञ्जय उवाच॥
तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः। स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः ॥७-६३-१॥
शूराणां गर्जतां राजन्सङ्क्रुद्धानाममर्षिणाम्। श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम् ॥७-६३-२॥
विस्फार्य च धनूंष्याजौ ज्याः करैः परिमृज्य च। विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनञ्जयः ॥७-६३-३॥
विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान्। पीतानाकाशसङ्काशानसीन्केचिच्च चिक्षिपुः ॥७-६३-४॥
चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षया। सङ्ग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः ॥७-६३-५॥
सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः। समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् ॥७-६३-६॥
अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः। चक्रुः सम्बाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः ॥७-६३-७॥
नानाप्रहरणैश्चान्ये विचित्रस्रगलङ्कृताः। सङ्ग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः ॥७-६३-८॥
क्वार्जुनः क्व च गोविन्दः क्व च मानी वृकोदरः। क्व च ते सुहृदस्तेषामाह्वयन्तो रणे तदा ॥७-६३-९॥
ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम्। इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः ॥७-६३-१०॥
तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु। भारद्वाजो महाराज जयद्रथमथाब्रवीत् ॥७-६३-११॥
त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः। अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा ॥७-६३-१२॥
शतं चाश्वसहस्राणां रथानामयुतानि षट्। द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश ॥७-६३-१३॥
पदातीनां सहस्राणि दंशितान्येकविंशतिः। गव्यूतिषु त्रिमात्रेषु मामनासाद्य तिष्ठत ॥७-६३-१४॥
तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः। किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव ॥७-६३-१५॥
एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः। सम्प्रायात्सह गान्धारैर्वृतस्तैश्च महारथैः ॥ वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः ॥७-६३-१६॥
चामरापीडिनः सर्वे जाम्बूनदविभूषिताः। जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः ॥ ते चैव सप्तसाहस्रा द्विसाहस्राश्च सैन्धवाः ॥७-६३-१७॥
मत्तानामधिरूढानां हस्त्यारोहैर्विशारदैः। नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् ॥७-६३-१८॥
अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव। अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः ॥७-६३-१९॥
ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ। सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ ॥७-६३-२०॥
दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्च विस्तृतः। व्यूहः स चक्रशकटो भारद्वाजेन निर्मितः ॥७-६३-२१॥
नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः। रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम् ॥७-६३-२२॥
पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः। सूची पद्मस्य मध्यस्थो गूढो व्यूहः पुनः कृतः ॥७-६३-२३॥
एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः। सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः ॥७-६३-२४॥
अनन्तरं च काम्बोजो जलसन्धश्च मारिष। दुर्योधनः सहामात्यस्तदनन्तरमेव च ॥७-६३-२५॥
ततः शतसहस्राणि योधानामनिवर्तिनाम्। व्यवस्थितानि सर्वाणि शकटे सूचिरक्षिणः ॥७-६३-२६॥
तेषां च पृष्ठतो राज बलेन महता वृतः। जयद्रथस्ततो राजन्सूचिपाशे व्यवस्थितः ॥७-६३-२७॥
शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः। अनु तस्याभवद्भोजो जुगोपैनं ततः स्वयम् ॥७-६३-२८॥
श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः। धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः ॥७-६३-२९॥
पताकिनं शोणहयं वेदीकृष्णाजिनध्वजम्। द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् ॥७-६३-३०॥
सिद्धचारणसङ्घानां विस्मयः सुमहानभूत्। द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् ॥७-६३-३१॥
सशैलसागरवनां नानाजनपदाकुलाम्। ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे ॥७-६३-३२॥
बहुरथमनुजाश्वपत्तिनागं; प्रतिभयनिस्वनमद्भुताभरूपम्। अहितहृदयभेदनं महद्वै; शकटमवेक्ष्य कृतं ननन्द राजा ॥७-६३-३३॥