Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.064
सञ्जय उवाच॥
ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष। ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च ॥७-६४-१॥
अनीकानां च संह्रादे वादित्राणां च निस्वने। प्रध्मापितेषु शङ्खेषु संनादे लोमहर्षणे ॥७-६४-२॥
अभिहारयत्सु शनकैर्भरतेषु युयुत्सुषु। रौद्रे मुहूर्ते सम्प्राप्ते सव्यसाची व्यदृश्यत ॥७-६४-३॥
वडानां वायसानां च पुरस्तात्सव्यसाचिनः। बहुलानि सहस्राणि प्राक्रीडंस्तत्र भारत ॥७-६४-४॥
मृगाश्च घोरसंनादाः शिवाश्चाशिवदर्शनाः। दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा ॥७-६४-५॥
सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः समन्ततः। चचाल च मही कृत्स्ना भये घोरे समुत्थिते ॥७-६४-६॥
विष्वग्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः। ववुरायाति कौन्तेये सङ्ग्रामे समुपस्थिते ॥७-६४-७॥
नाकुलिस्तु शतानीको धृष्टद्युम्नश्च पार्षतः। पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा ॥७-६४-८॥
ततो रथसहस्रेण द्विरदानां शतेन च। त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः ॥७-६४-९॥
अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव। अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत् ॥७-६४-१०॥
अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम्। अहमावारयिष्यामि वेलेव मकरालयम् ॥७-६४-११॥
अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम्। विषक्तं मयि दुर्धर्षमश्मकूटमिवाश्मनि ॥७-६४-१२॥
एवं ब्रुवन्महाराज महात्मा स महामतिः। महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः ॥७-६४-१३॥
ततोऽन्तक इव क्रुद्धः सवज्र इव वासवः। दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः ॥७-६४-१४॥
शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव। युगान्ताग्निरिवार्चिष्मान्प्रधक्ष्यन्वै पुनः प्रजाः ॥७-६४-१५॥
क्रोधामर्षबलोद्धूतो निवातकवचान्तकः। जयो जेता स्थितः सत्ये पारयिष्यन्महाव्रतम् ॥७-६४-१६॥
आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत्। शुभ्रवर्माम्बरधरः स्वङ्गदी चारुकुण्डली ॥७-६४-१७॥
रथप्रवरमास्थाय नरो नारायणानुगः। विधुन्वन्गाण्डिवं सङ्ख्ये बभौ सूर्य इवोदितः ॥७-६४-१८॥
सोऽग्रानीकस्य महत इषुपाते धनञ्जयः। व्यवस्थाप्य रथं सज्जं शङ्खं दध्मौ प्रतापवान् ॥७-६४-१९॥
अथ कृष्णोऽप्यसम्भ्रान्तः पार्थेन सह मारिष। प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा ॥७-६४-२०॥
तयोः शङ्खप्रणादेन तव सैन्ये विशां पते। आसन्संहृष्टरोमाणः कम्पिता गतचेतसः ॥७-६४-२१॥
यथा त्रसन्ति भूतानि सर्वाण्यशनिनिस्वनात्। तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः ॥७-६४-२२॥
प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः। एवं सवाहनं सर्वमाविग्नमभवद्बलम् ॥७-६४-२३॥
व्यषीदन्त नरा राजञ्शङ्खशब्देन मारिष। विसञ्ज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः ॥७-६४-२४॥
ततः कपिर्महानादं सह भूतैर्ध्वजालयैः। अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान् ॥७-६४-२५॥
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह। पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः ॥७-६४-२६॥
नानावादित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः। सिंहनादैः सवादित्रैः समाहूतैर्महारथैः ॥७-६४-२७॥
तस्मिन्सुतुमुले शब्दे भीरूणां भयवर्धने। अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः ॥७-६४-२८॥
चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः। एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम् ॥७-६४-२९॥
एवमुक्तो महाबाहुः केशवः सव्यसाचिना। अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः ॥७-६४-३०॥
स सम्प्रहारस्तुमुलः सम्प्रवृत्तः सुदारुणः। एकस्य च बहूनां च रथनागनरक्षयः ॥७-६४-३१॥
ततः सायकवर्षेण पर्जन्य इव वृष्टिमान्। परानवाकिरत्पार्थः पर्वतानिव नीरदः ॥७-६४-३२॥
ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत्। अवाकिरन्बाणजालैस्ततः कृष्णधनञ्जयौ ॥७-६४-३३॥
ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि। शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः ॥७-६४-३४॥
उद्भ्रान्तनयनैर्वक्त्रैः संदष्टोष्ठपुटैः शुभैः। सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत ॥७-६४-३५॥
पुण्डरीकवनानीव विध्वस्तानि समन्ततः। विनिकीर्णानि योधानां वदनानि चकाशिरे ॥७-६४-३६॥
तपनीयविचित्राणि सिक्तानि रुधिरेण च। अदृश्यन्त यथा राजन्मेघसङ्घाः सविद्युतः ॥७-६४-३७॥
शिरसां पततां राजञ्शब्दोऽभूत्पृथिवीतले। कालेन परिपक्वानां तालानां पततामिव ॥७-६४-३८॥
ततः कबन्धः कश्चित्तु धनुरालम्ब्य तिष्ठति। कश्चित्खड्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति ॥७-६४-३९॥
नाजानन्त शिरांस्युर्व्यां पतितानि नरर्षभाः। अमृष्यमाणाः कौन्तेयं सङ्ग्रामे जयगृद्धिनः ॥७-६४-४०॥
हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी। बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत ॥७-६४-४१॥
अयं पार्थः कुतः पार्थ एष पार्थ इति प्रभो। तव सैन्येषु योधानां पार्थभूतमिवाभवत् ॥७-६४-४२॥
अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे। पार्थभूतममन्यन्त जगत्कालेन मोहिताः ॥७-६४-४३॥
निष्टनन्तः सरुधिरा विसञ्ज्ञा गाढवेदनाः। शयाना बहवो वीराः कीर्तयन्तः सुहृज्जनम् ॥७-६४-४४॥
सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वधाः। सनिर्यूहाः सनिस्त्रिंशाः सशरासनतोमराः ॥७-६४-४५॥
सबाणवर्माभरणाः सगदाः साङ्गदा रणे। महाभुजगसङ्काशा बाहवः परिघोपमाः ॥७-६४-४६॥
उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः। वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः ॥७-६४-४७॥
यो यः स्म समरे पार्थं प्रतिसंरभते नरः। तस्य तस्यान्तको बाणः शरीरमुपसर्पति ॥७-६४-४८॥
नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा। न कश्चित्तत्र पार्थस्य ददर्शान्तरमण्वपि ॥७-६४-४९॥
यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान्। लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः ॥७-६४-५०॥
हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च। अभिनत्फल्गुनो बाणै रथिनं च ससारथिम् ॥७-६४-५१॥
आवर्तमानमावृत्तं युध्यमानं च पाण्डवः। प्रमुखे तिष्ठमानं च न कञ्चिन्न निहन्ति सः ॥७-६४-५२॥
यथोदयन्वै गगने सूर्यो हन्ति महत्तमः। तथार्जुनो गजानीकमवधीत्कङ्कपत्रिभिः ॥७-६४-५३॥
हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत। अन्तकाले यथा भूमिर्विनिकीर्णैर्महीधरैः ॥७-६४-५४॥
यथा मध्यंदिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा। तथा धनञ्जयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः ॥७-६४-५५॥
तत्तथा तव पुत्रस्य सैन्यं युधि परन्तप। प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम् ॥७-६४-५६॥
मारुतेनेव महता मेघानीकं विधूयता। प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम् ॥७-६४-५७॥
प्रतोदैश्चापकोटीभिर्हुङ्कारैः साधुवाहितैः। कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च ॥७-६४-५८॥
चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः। सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः ॥७-६४-५९॥
पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागांश्चोदयन्तस्तथापरे। शरैः संमोहिताश्चान्ये तमेवाभिमुखा ययौ ॥ तव योधा हतोत्साहा विभ्रान्तमनसस्तदा ॥७-६४-६०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.