Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.076
Pancharatra and Core: Several similes are used to describe the successful crossing of Drona's army by Arjuna and Krishna, getting a sight of King Jayadratha.
सञ्जय उवाच॥
स्रंसन्त इव मज्जानस्तावकानां भयान्नृप। तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनञ्जयौ ॥७-७६-१॥
सर्वे तु प्रतिसंरब्धा ह्रीमन्तः सत्त्वचोदिताः। स्थिरीबूता महात्मानः प्रत्यगच्छन्धनञ्जयम् ॥७-७६-२॥
ये गताः पाण्डवं युद्धे क्रोधामर्षसमन्विताः। तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव ॥७-७६-३॥
असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः। नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम् ॥७-७६-४॥
तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ। ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ ॥७-७६-५॥
मत्स्याविव महाजालं विदार्य विगतज्वरौ। तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत् ॥७-७६-६॥
विमुक्तौ शस्त्रसम्बाधाद्द्रोणानीकात्सुदुर्भिदात्। अदृश्येतां महात्मानौ कालसूर्याविवोदितौ ॥७-७६-७॥
अस्त्रसम्बाधनिर्मुक्तौ विमुक्तौ शस्त्रसङ्कटात्। अदृश्येतां महात्मानौ शत्रुसम्बाधकारिणौ ॥७-७६-८॥
विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव। व्यक्षोभयेतां सेनां तौ समुद्रं मकराविव ॥७-७६-९॥
तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः। नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम् ॥७-७६-१०॥
तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती। नाशशंसुर्महाराज सिन्धुराजस्य जीवितम् ॥७-७६-११॥
आशा बलवती राजन्पुत्राणामभवत्तव। द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो ॥७-७६-१२॥
तामाशां विफलां कृत्वा निस्तीर्णौ तौ परन्तपौ। द्रोणानीकं महाराज भोजानीकं च दुस्तरम् ॥७-७६-१३॥
अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ। निराशाः सिन्धुराजस्य जीवितं नाशशंसिरे ॥७-७६-१४॥
मिथश्च समभाषेतामभीतौ भयवर्धनौ। जयद्रथवधे वाचस्तास्ताः कृष्णधनञ्जयौ ॥७-७६-१५॥
असौ मध्ये कृतः षड्भिर्धार्तराष्ट्रैर्महारथैः। चक्षुर्विषयसम्प्राप्तो न नौ मोक्ष्यति सैन्धवः ॥७-७६-१६॥
यद्यस्य समरे गोप्ता शक्रो देवगणैः सह। तथाप्येनं हनिष्याव इति कृष्णावभाषताम् ॥७-७६-१७॥
इति कृष्णौ महाबाहू मिथः कथयतां तदा। सिन्धुराजमवेक्षन्तौ तत्पुत्रास्तव शुश्रुवुः ॥७-७६-१८॥
अतीत्य मरुधन्वेव प्रयान्तौ तृषितौ गजौ। पीत्वा वारि समाश्वस्तौ तथैवास्तामरिंदमौ ॥७-७६-१९॥
व्याघ्रसिंहगजाकीर्णानतिक्रम्येव पर्वतान्। अदृश्येतां महाबाहू यथा मृत्युजरातिगौ ॥७-७६-२०॥
तथा हि मुखवर्णोऽयमनयोरिति मेनिरे। तावका दृश्य मुक्तौ तौ विक्रोशन्ति स्म सर्वतः ॥७-७६-२१॥
द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात्। अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ ॥७-७६-२२॥
तौ मुक्तौ सागरप्रख्याद्द्रोणानीकादरिंदमौ। अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा ॥७-७६-२३॥
शस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितान्। रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे ॥७-७६-२४॥
उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः। शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ ॥७-७६-२५॥
द्रोणग्राहह्रदान्मुक्तौ शक्त्याशीविषसङ्कटात्। अयःशरोग्रमकरात्क्षत्रियप्रवराम्भसः ॥७-७६-२६॥
ज्याघोषतलनिर्ह्रादाद्गदानिस्त्रिंशविद्युतः। द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव ॥७-७६-२७॥
बाहुभ्यामिव सन्तीर्णौ सिन्धुषष्ठाः समुद्रगाः। तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः ॥७-७६-२८॥
इति कृष्णौ महेष्वासौ यशसा लोकविश्रुतौ। सर्वभूतान्यमन्यन्त द्रोणास्त्रबलविस्मयात् ॥७-७६-२९॥
जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया। रुरुं निपाने लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम् ॥७-७६-३०॥
यथा हि मुखवर्णोऽयमनयोरिति मेनिरे। तव योधा महाराज हतमेव जयद्रथम् ॥७-७६-३१॥
लोहिताक्षौ महाबाहू संयत्तौ कृष्णपाण्डवौ। सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः ॥७-७६-३२॥
शौरेरभीशुहस्तस्य पार्थस्य च धनुष्मतः। तयोरासीत्प्रतिभ्राजः सूर्यपावकयोरिव ॥७-७६-३३॥
हर्ष एव तयोरासीद्द्रोणानीकप्रमुक्तयोः। समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा ॥७-७६-३४॥
तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके। सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषे ॥७-७६-३५॥
तौ तु दृष्ट्वा व्यतिक्रान्तौ हृषीकेशधनञ्जयौ। सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव ॥७-७६-३६॥
द्रोणेनाबद्धकवचो राजा दुर्योधनस्तदा। ययावेकरथेनाजौ हयसंस्कारवित्प्रभो ॥७-७६-३७॥
कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः। अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप ॥७-७६-३८॥
ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत्। प्रावाद्यन्समतिक्रान्ते तव पुत्रे धनञ्जयम् ॥७-७६-३९॥
सिंहनादरवाश्चासञ्शङ्खदुन्दुभिमिश्रिताः। दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम् ॥७-७६-४०॥
ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः। ते प्रहृष्यन्त समरे दृष्ट्वा पुत्रं तवाभिभो ॥७-७६-४१॥
दृष्ट्वा दुर्योधनं कृष्णस्त्वतिक्रान्तं सहानुगम्। अब्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः ॥७-७६-४२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.