Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.078
सञ्जय उवाच॥
एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः। प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् ॥७-७८-१॥
वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे। प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत् ॥७-७८-२॥
तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः। अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः ॥७-७८-३॥
तेषां वैफल्यमालोक्य पुनर्नव च पञ्च च। प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः ॥७-७८-४॥
अष्टाविंशत्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान्। अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः ॥७-७८-५॥
अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम्। त्वया सम्प्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ॥७-७८-६॥
कच्चिद्गाण्डीवतः प्राणास्तथैव भरतर्षभ। मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव ॥७-७८-७॥
न चेद्विधेरयं कालः प्राप्तः स्यादद्य पश्चिमः। तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः ॥७-७८-८॥
विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान्। व्यर्थान्निपततः सङ्ख्ये दुर्योधनरथं प्रति ॥७-७८-९॥
वज्राशनिसमा घोराः परकायावभेदिनः। शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना ॥७-७८-१०॥
अर्जुन उवाच॥
द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता। अन्ते विहितमस्त्राणामेतत्कवचधारणम् ॥७-७८-११॥
अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि। एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात् ॥७-७८-१२॥
न शक्यमेतत्कवचं बाणैर्भेत्तुं कथञ्चन। अपि वज्रेण गोविन्द स्वयं मघवता युधि ॥७-७८-१३॥
जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम्। यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते ॥७-७८-१४॥
तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव। न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन ॥७-७८-१५॥
एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम्। तिष्ठत्यभीतवत्सङ्ख्ये बिभ्रत्कवचधारणाम् ॥७-७८-१६॥
यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव। स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् ॥७-७८-१७॥
पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन। पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् ॥७-७८-१८॥
इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम्। पुनर्ददौ सुरपतिर्मह्यं वर्म ससङ्ग्रहम् ॥७-७८-१९॥
दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम्। नैतद्गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया ॥७-७८-२०॥
सञ्जय उवाच॥
एवमुक्त्वार्जुनो बाणानभिमन्त्र्य व्यकर्षयत्। विकृष्यमाणांस्तेनैवं धनुर्मध्यगताञ्शरान् ॥ तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना ॥७-७८-२१॥
तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना। न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः ॥७-७८-२२॥
नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन। अस्त्रं मामेव हन्याद्धि पश्य त्वद्य बलं मम ॥७-७८-२३॥
ततो दुर्योधनः कृष्णौ नवभिर्नतपर्वभिः। अविध्यत रणे राजञ्शरैराशीविषोपमैः ॥ भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ ॥७-७८-२४॥
शरवर्षेण महता ततोऽहृष्यन्त तावकाः। चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा ॥७-७८-२५॥
ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन्। नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् ॥७-७८-२६॥
ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः। हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी ॥७-७८-२७॥
धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान्। रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ॥७-७८-२८॥
दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम्। अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा ॥७-७८-२९॥
तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः। समापेतुः परीप्सन्तो धनञ्जयशरार्दितम् ॥७-७८-३०॥
ते रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः। पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम् ॥७-७८-३१॥
अथ नार्जुनगोविन्दौ रथो वापि व्यदृश्यत। अस्त्रवर्षेण महता जनौघैश्चापि संवृतौ ॥७-७८-३२॥
ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम्। तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः ॥७-७८-३३॥
ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम्। स रथस्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः ॥७-७८-३४॥
ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत्। धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् ॥७-७८-३५॥
ततो विस्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून्। महता शरवर्षेण तलशब्देन चार्जुनः ॥७-७८-३६॥
पाञ्चजन्यं च बलवद्दध्मौ तारेण केशवः। रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् ॥७-७८-३७॥
तस्य शङ्खस्य नादेन धनुषो निस्वनेन च। निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः ॥७-७८-३८॥
तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः। जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः ॥७-७८-३९॥
ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु। चक्रुर्नादान्बहुविधान्कम्पयन्तो वसुन्धराम् ॥७-७८-४०॥
बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिस्वनैः। प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि ॥७-७८-४१॥
तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम्। प्रदध्मतुस्तदा शङ्खौ वासुदेवधनञ्जयौ ॥७-७८-४२॥
तेन शब्देन महता पूरितेयं वसुन्धरा। सशैला सार्णवद्वीपा सपाताला विशां पते ॥७-७८-४३॥
स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश। प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले ॥७-७८-४४॥
तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ। संरम्भं परमं प्राप्तास्त्वरमाणा महारथाः ॥७-७८-४५॥
अथ कृष्णौ महाभागौ तावका दृश्य दंशितौ। अभ्यद्रवन्त सङ्क्रुद्धास्तदद्भुतमिवाभवत् ॥७-७८-४६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.