07.086
Pancharatra and Core: Satyaki asks Yudhishthira to re-consider keeping his own safety into consideration. Yudhishthira recommends Satyaki to go and reinforce Arjuna, expressing his confidence in Bhima and Dhrishtadyumna.
सञ्जय उवाच॥
प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च। कालयुक्तं च चित्रं च स्वतया चाभिभाषितम् ॥७-८६-१॥
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः। सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम् ॥७-८६-२॥
श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत। न्याययुक्तं च चित्रं च फल्गुनार्थे यशस्करम् ॥७-८६-३॥
एवंविधे तथा काले मदृशं प्रेक्ष्य संमतम्। वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम् ॥७-८६-४॥
न मे धनञ्जयस्यार्थे प्राणा रक्ष्याः कथञ्चन। त्वत्प्रयुक्तः पुनरहं किं न कुर्यां महाहवे ॥७-८६-५॥
लोकत्रयं योधयेयं सदेवासुरमानुषम्। त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत्सुदुर्बलम् ॥७-८६-६॥
सुयोधनबलं त्वद्य योधयिष्ये समन्ततः। विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते ॥७-८६-७॥
कुशल्यहं कुशलिनं समासाद्य धनञ्जयम्। हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम् ॥७-८६-८॥
अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप। वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः ॥७-८६-९॥
दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः। मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः ॥७-८६-१०॥
अद्य माधव राजानमप्रमत्तोऽनुपालय। आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम् ॥७-८६-११॥
त्वयि वाहं महाबाहो प्रद्युम्ने वा महारथे। नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम् ॥७-८६-१२॥
जानीषे हि रणे द्रोणं रभसं श्रेष्ठसंमतम्। प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव ॥७-८६-१३॥
ग्रहणं धर्मराजस्य भारद्वाजोऽनुगृध्यति। शक्तश्चापि रणे द्रोणो निगृहीतुं युधिष्ठिरम् ॥७-८६-१४॥
एवं त्वयि समाधाय धर्मराजं नरोत्तमम्। अहमद्य गमिष्यामि सैन्धवस्य वधाय हि ॥७-८६-१५॥
जयद्रथमहं हत्वा ध्रुवमेष्यामि माधव। धर्मराजं यथा द्रोणो निगृह्णीयाद्रणे बलात् ॥७-८६-१६॥
निगृहीते नरश्रेष्ठे भारद्वाजेन माधव। सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत् ॥७-८६-१७॥
एवं गते नरश्रेष्ठ पाण्डवे सत्यवादिनि। अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः ॥७-८६-१८॥
सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति। यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम् ॥७-८६-१९॥
स त्वमद्य महाबाहो प्रियार्थं मम माधव। जयार्थं च यशोर्थं च रक्ष राजानमाहवे ॥७-८६-२०॥
स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना। भारद्वाजाद्भयं नित्यं पश्यमानेन ते प्रभो ॥७-८६-२१॥
तस्यापि च महाबाहो नित्यं पश्यति संयुगे। नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो ॥ मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः ॥७-८६-२२॥
सोऽहं सम्भावनां चैतामाचार्यवचनं च तत्। पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते ॥७-८६-२३॥
आचार्यो लघुहस्तत्वादभेद्यकवचावृतः। उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः ॥७-८६-२४॥
यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः। तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथार्जुनः ॥७-८६-२५॥
कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि। यः प्रतीयाद्रणे द्रोणं यावद्गच्छामि पाण्डवम् ॥७-८६-२६॥
मा च ते भयमद्यास्तु राजन्नर्जुनसम्भवम्। न स जातु महाबाहुर्भारमुद्यम्य सीदति ॥७-८६-२७॥
ये च सौवीरका योधास्तथा सैन्धवपौरवाः। उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः ॥७-८६-२८॥
ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तिताः। एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम् ॥७-८६-२९॥
उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा। सराक्षसगणा राजन्सकिंनरमहोरगा ॥७-८६-३०॥
जङ्गमाः स्थावरैः सार्धं नालं पार्थस्य संयुगे। एवं ज्ञात्वा महाराज व्येतु ते भीर्धनञ्जये ॥७-८६-३१॥
यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ। न तत्र कर्मणो व्यापत्कथञ्चिदपि विद्यते ॥७-८६-३२॥
दैवं कृतास्त्रतां योगममर्षमपि चाहवे। कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय ॥७-८६-३३॥
मयि चाप्यपयाते वै गच्छमानेऽर्जुनं प्रति। द्रोणे चित्रास्त्रतां सङ्ख्ये राजंस्त्वमनुचिन्तय ॥७-८६-३४॥
आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति। प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत ॥७-८६-३५॥
कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि। यस्याहं प्रत्ययात्पार्थ गच्छेयं फल्गुनं प्रति ॥७-८६-३६॥
न ह्यहं त्वा महाराज अनिक्षिप्य महाहवे। क्वचिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते ॥७-८६-३७॥
एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर। दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम् ॥७-८६-३८॥
युधिष्ठिर उवाच॥
एवमेतन्महाबाहो यथा वदसि माधव। न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष ॥७-८६-३९॥
करिष्ये परमं यत्नमात्मनो रक्षणं प्रति। गच्छ त्वं समनुज्ञातो यत्र यातो धनञ्जयः ॥७-८६-४०॥
आत्मसंरक्षणं सङ्ख्ये गमनं चार्जुनं प्रति। विचार्यैतद्द्वयं बुद्ध्या गमनं तत्र रोचये ॥७-८६-४१॥
स त्वमातिष्ठ यानाय यत्र यातो धनञ्जयः। ममापि रक्षणं भीमः करिष्यति महाबलः ॥७-८६-४२॥
पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः। द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः ॥७-८६-४३॥
केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः। विराटो द्रुपदश्चैव शिखण्डी च महारथः ॥७-८६-४४॥
धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मारिष। नकुलः सहदेवश्च पाञ्चालाः सृञ्जयास्तथा ॥ एते समाहितास्तात रक्षिष्यन्ति न संशयः ॥७-८६-४५॥
न द्रोणः सह सैन्येन कृतवर्मा च संयुगे। समासादयितुं शक्तो न च मां धर्षयिष्यति ॥७-८६-४६॥
धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परन्तपः। वारयिष्यति विक्रम्य वेलेव मकरालयम् ॥७-८६-४७॥
यत्र स्थास्यति सङ्ग्रामे पार्षतः परवीरहा। न द्रोणसैन्यं बलवत्क्रामेत्तत्र कथञ्चन ॥७-८६-४८॥
एष द्रोणविनाशाय समुत्पन्नो हुताशनात्। कवची स शरी खड्गी धन्वी च वरभूषणः ॥७-८६-४९॥
विश्रब्धो गच्छ शैनेय मा कार्षीर्मयि सम्भ्रमम्। धृष्टद्युम्नो रणे क्रुद्धो द्रोणमावारयिष्यति ॥७-८६-५०॥