Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.087
सञ्जय उवाच॥
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः। पार्थाच्च भयमाशङ्कन्परित्यागान्महीपतेः ॥७-८७-१॥
अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः। न मां भीत इति ब्रूयुरायान्तं फल्गुनं प्रति ॥७-८७-२॥
निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः। धर्मराजमिदं वाक्यमब्रवीत्पुरुषर्षभ ॥७-८७-३॥
कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशां पते। अनुयास्यामि बीभत्सुं करिष्ये वचनं तव ॥७-८७-४॥
न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते। यो वै प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते ॥७-८७-५॥
तस्याहं पदवीं यास्ये संदेशात्तव मानद। त्वत्कृते न च मे किञ्चिदकर्तव्यं कथञ्चन ॥७-८७-६॥
यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर। तथा तवापि वचनं विशिष्टतरमेव मे ॥७-८७-७॥
प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ। तयोः प्रिये स्थितं चैव विद्धि मां राजपुङ्गव ॥७-८७-८॥
तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो। भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरसत्तम ॥७-८७-९॥
द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम्। तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः ॥७-८७-१०॥
यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात्। गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः ॥७-८७-११॥
इतस्त्रियोजनं मन्ये तमध्वानं विशां पते। यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः ॥७-८७-१२॥
त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम्। आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना ॥७-८७-१३॥
अनादिष्टस्तु गुरुणा को नु युध्येत मानवः। आदिष्टस्तु त्वया राजन्को न युध्येत मादृशः ॥ अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो ॥७-८७-१४॥
हुडशक्तिगदाप्रासखड्गचर्मर्ष्टितोमरम्। इष्वस्त्रवरसम्बाधं क्षोभयिष्ये बलार्णवम् ॥७-८७-१५॥
यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि। कुलमञ्जनकं नाम यत्रैते वीर्यशालिनः ॥७-८७-१६॥
आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः। नागा मेघनिभा राजन्क्षरन्त इव तोयदाः ॥७-८७-१७॥
नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः। अन्यत्र हि वधादेषां नास्ति राजन्पराजयः ॥७-८७-१८॥
अथ यान्रथिनो राजन्समन्तादनुपश्यसि। एते रुक्मरथा नाम राजपुत्रा महारथाः ॥७-८७-१९॥
रथेष्वस्त्रेषु निपुणा नागेषु च विशां पते। धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः ॥७-८७-२०॥
गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा। खड्गप्रहरणे युक्ताः सम्पाते चासिचर्मणोः ॥७-८७-२१॥
शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम्। नित्यं च समरे राजन्विजिगीषन्ति मानवान् ॥७-८७-२२॥
कर्णेन विजिता राजन्दुःशासनमनुव्रताः। एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति ॥७-८७-२३॥
सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः। तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात् ॥७-८७-२४॥
ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः। मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात् ॥७-८७-२५॥
एतान्प्रमथ्य सङ्ग्रामे प्रियार्थं तव कौरव। प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः ॥७-८७-२६॥
यांस्त्वेतानपरान्राजन्नागान्सप्तशतानि च। प्रेक्षसे वर्मसञ्छन्नान्किरातैः समधिष्ठितान् ॥७-८७-२७॥
किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना। स्वलङ्कृतांस्तथा प्रेष्यानिच्छञ्जीवितमात्मनः ॥७-८७-२८॥
आसन्नेते पुरा राजंस्तव कर्मकरा दृढम्। त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम् ॥७-८७-२९॥
तेषामेते महामात्राः किराता युद्धदुर्मदाः। हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः ॥७-८७-३०॥
एते विनिर्जिताः सर्वे सङ्ग्रामे सव्यसाचिना। मदर्थमद्य संयत्ता दुर्योधनवशानुगाः ॥७-८७-३१॥
एतान्भित्त्वा शरै राजन्किरातान्युद्धदुर्मदान्। सैन्धवस्य वधे युक्तमनुयास्यामि पाण्डवम् ॥७-८७-३२॥
ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः। कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः ॥७-८७-३३॥
जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः। लब्धलक्ष्या रणे राजन्नैरावणसमा युधि ॥७-८७-३४॥
उत्तरात्पर्वतादेते तीक्ष्णैर्दस्युभिरास्थिताः। कर्कशैः प्रवरैर्योधैः कार्ष्णायसतनुच्छदैः ॥७-८७-३५॥
सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः। अनेकयोनयश्चान्ये तथा मानुषयोनयः ॥७-८७-३६॥
अनीकमसतामेतद्धूमवर्णमुदीर्यते। म्लेच्छानां पापकर्तॄणां हिमवद्दुर्गवासिनाम् ॥७-८७-३७॥
एतद्दुर्योधनो लब्ध्वा समग्रं नागमण्डलम्। कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् ॥७-८७-३८॥
सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान्। कृतार्थमथ चात्मानं मन्यते कालचोदितः ॥७-८७-३९॥
ते च सर्वेऽनुसम्प्राप्ता मम नाराचगोचरम्। न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः ॥७-८७-४०॥
तेन सम्भाविता नित्यं परवीर्योपजीविना। विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः ॥७-८७-४१॥
ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः। एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः ॥७-८७-४२॥
शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः। संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः ॥७-८७-४३॥
अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत। यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः ॥७-८७-४४॥
अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः। तांस्त्वहं प्रमथिष्यामि तृणानीव हुताशनः ॥७-८७-४५॥
तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च। रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः ॥७-८७-४६॥
अस्मिंस्तु खलु सङ्ग्रामे ग्राह्यं विविधमायुधम्। यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः ॥७-८७-४७॥
काम्बोजैर्हि समेष्यामि क्रुद्धैराशीविषोपमैः। नानाशस्त्रसमावापैर्विविधायुधयोधिभिः ॥७-८७-४८॥
किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः। लालितैः सततं राज्ञा दुर्योधनहितैषिभिः ॥७-८७-४९॥
शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः। अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः ॥७-८७-५०॥
तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः। समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः ॥७-८७-५१॥
तस्माद्वै वाजिनो मुख्या विश्रान्ताः शुभलक्षणाः। उपावृत्ताश्च पीताश्च पुनर्युज्यन्तु मे रथे ॥७-८७-५२॥
तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च। रथे प्रास्थापयद्राजा शस्त्राणि विविधानि च ॥७-८७-५३॥
ततस्तान्सर्वतो मुक्त्वा सदश्वांश्चतुरो जनाः। रसवत्पाययामासुः पानं मदसमीरिणम् ॥७-८७-५४॥
पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलङ्कृतान्। विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः ॥७-८७-५५॥
तान्यत्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः। संहृष्टमनसोऽव्यग्रान्विधिवत्कल्पिते रथे ॥७-८७-५६॥
महाध्वजेन सिंहेन हेमकेसरमालिना। संवृते केतनैर्हेमैर्मणिविद्रुमचित्रितैः ॥ पाण्डुराभ्रप्रकाशाभिः पताकाभिरलङ्कृते ॥७-८७-५७॥
हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे। योजयामास विधिवद्धेमभाण्डविभूषितान् ॥७-८७-५८॥
दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा। न्यवेदयद्रथं युक्तं वासवस्येव मातलिः ॥७-८७-५९॥
ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः। स्नातकानां सहस्रस्य स्वर्णनिष्कानदापयत् ॥ आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः ॥७-८७-६०॥
ततः स मधुपर्कार्हः पीत्वा कैलावतं मधु। लोहिताक्षो बभौ तत्र मदविह्वललोचनः ॥७-८७-६१॥
आलभ्य वीरकांस्यं च हर्षेण महतान्वितः। द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः ॥ उत्सङ्गे धनुरादाय सशरं रथिनां वरः ॥७-८७-६२॥
कृतस्वस्त्ययनो विप्रैः कवची समलङ्कृतः। लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः ॥७-८७-६३॥
युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः। तेन मूर्धन्युपाघ्रात आरुरोह महारथम् ॥७-८७-६४॥
ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः। अजय्या जैत्रमूहुस्तं विकुर्वन्तः स्म सैन्धवाः ॥७-८७-६५॥
अथ हर्षपरीताङ्गः सात्यकिर्भीममब्रवीत्। त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते ॥७-८७-६६॥
अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम्। आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम् ॥७-८७-६७॥
जानीषे मम वीर्यं त्वं तव चाहमरिंदम। तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम् ॥७-८७-६८॥
तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये। अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम ॥७-८७-६९॥
एवमुक्तः प्रत्युवाच भीमसेनं स माधवः। गच्छ गच्छ द्रुतं पार्थ ध्रुवोऽद्य विजयो मम ॥७-८७-७०॥
यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशगः स्थितः। निमित्तानि च धन्यानि यथा भीम वदन्ति मे ॥७-८७-७१॥
निहते सैन्धवे पापे पाण्डवेन महात्मना। परिष्वजिष्ये राजानं धर्मात्मानं न संशयः ॥७-८७-७२॥
एतावदुक्त्वा भीमं तु विसृज्य च महामनाः। सम्प्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव ॥७-८७-७३॥
तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप। भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत ॥७-८७-७४॥
ततः प्रयातः सहसा सैन्यं तव स सात्यकिः। दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् ॥७-८७-७५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.