Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.094
सञ्जय उवाच॥
द्रोणं स जित्वा पुरुषप्रवीर; स्तथैव हार्दिक्यमुखांस्त्वदीयान्। प्रहस्य सूतं वचनं बभाषे; शिनिप्रवीरः कुरुपुङ्गवाग्र्य ॥७-९४-१॥
निमित्तमात्रं वयमत्र सूत; दग्धारयः केशवफल्गुनाभ्याम्। हतान्निहन्मेह नरर्षभेण; वयं सुरेशात्मसमुद्भवेन ॥७-९४-२॥
तमेवमुक्त्वा शिनिपुङ्गवस्तदा; महामृधे सोऽग्र्यधनुर्धरोऽरिहा। किरन्समन्तात्सहसा शरान्बली; समापतच्छ्येन इवामिषं यथा ॥७-९४-३॥
तं यान्तमश्वैः शशिशङ्खवर्णै; र्विगाह्य सैन्यं पुरुषप्रवीरम्। नाशक्नुवन्वारयितुं समन्ता; दादित्यरश्मिप्रतिमं नराग्र्यम् ॥७-९४-४॥
असह्यविक्रान्तमदीनसत्त्वं; सर्वे गणा भारत दुर्विषह्यम्। सहस्रनेत्रप्रतिमप्रभावं; दिवीव सूर्यं जलदव्यपाये ॥७-९४-५॥
अमर्षपूर्णस्त्वतिचित्रयोधी; शरासनी काञ्चनवर्मधारी। सुदर्शनः सात्यकिमापतन्तं; न्यवारयद्राजवरः प्रसह्य ॥७-९४-६॥
तयोरभूद्भरत सम्प्रहारः; सुदारुणस्तं समभिप्रशंसन्। योधास्त्वदीयाश्च हि सोमकाश्च; वृत्रेन्द्रयोर्युद्धमिवामरौघाः ॥७-९४-७॥
शरैः सुतीक्ष्णैः शतशोऽभ्यविध्य; त्सुदर्शनः सात्वतमुख्यमाजौ। अनागतानेव तु तान्पृषत्कां; श्चिच्छेद बाणैः शिनिपुङ्गवोऽपि ॥७-९४-८॥
तथैव शक्रप्रतिमोऽपि सात्यकिः; सुदर्शने यान्क्षिपति स्म सायकान्। द्विधा त्रिधा तानकरोत्सुदर्शनः; शरोत्तमैः स्यन्दनवर्यमास्थितः ॥७-९४-९॥
सम्प्रेक्ष्य बाणान्निहतांस्तदानीं; सुदर्शनः सात्यकिबाणवेगैः। क्रोधाद्दिधक्षन्निव तिग्मतेजाः; शरानमुञ्चत्तपनीयचित्रान् ॥७-९४-१०॥
पुनः स बाणैस्त्रिभिरग्निकल्पै; राकर्णपूर्णैर्निशितैः सुपुङ्खैः। विव्याध देहावरणं विभिद्य; ते सात्यकेराविविशुः शरीरम् ॥७-९४-११॥
तथैव तस्यावनिपालपुत्रः; सन्धाय बाणैरपरैर्ज्वलद्भिः। आजघ्निवांस्तान्रजतप्रकाशां; श्चतुर्भिरश्वांश्चतुरः प्रसह्य ॥७-९४-१२॥
तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेरिन्द्रसमानवीर्यः। सुदर्शनस्येषुगणैः सुतीक्ष्णै; र्हयान्निहत्याशु ननाद नादम् ॥७-९४-१३॥
अथास्य सूतस्य शिरो निकृत्य; भल्लेन वज्राशनिसंनिभेन। सुदर्शनस्यापि शिनिप्रवीरः; क्षुरेण चिच्छेद शिरः प्रसह्य ॥७-९४-१४॥
सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात्। यथा पुरा वज्रधरः प्रसह्य; बलस्य सङ्ख्येऽतिबलस्य राजन् ॥७-९४-१५॥
निहत्य तं पार्थिवपुत्रपौत्रं; रणे यदूनामृषभस्तरस्वी। मुदा समेतः परया महात्मा; रराज राजन्सुरराजकल्पः ॥७-९४-१६॥
ततो ययावर्जुनमेव येन; निवार्य सैन्यं तव मार्गणौघैः। सदश्वयुक्तेन रथेन निर्या; ल्लोकान्विसिस्मापयिषुर्नृवीरः ॥७-९४-१७॥
तत्तस्य विस्मापयनीयमग्र्य; मपूजयन्योधवराः समेताः। यद्वर्तमानानिषुगोचरेऽरी; न्ददाह बाणैर्हुतभुग्यथैव ॥७-९४-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.