Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.106
धृतराष्ट्र उवाच॥
यौ तौ कर्णश्च भीमश्च सम्प्रयुद्धौ महाबलौ। अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः ॥७-१०६-१॥
पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे। कथं भूयस्तु राधेयो भीममागान्महारथः ॥७-१०६-२॥
भीमो वा सूततनयं प्रत्युद्यातः कथं रणे। महारथसमाख्यातं पृथिव्यां प्रवरं रथम् ॥७-१०६-३॥
भीष्मद्रोणावतिक्रम्य धर्मपुत्रो युधिष्ठिरः। नान्यतो भयमादत्त विना कर्णं धनुर्धरम् ॥७-१०६-४॥
भयान्न शेते सततं चिन्तयन्वै महारथम्। तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे ॥७-१०६-५॥
ब्रह्मण्यं वीर्यसम्पन्नं समरेष्वनिवर्तिनम्। कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे ॥७-१०६-६॥
यौ तौ समीयतुर्वीरावर्जुनस्य रथं प्रति। कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ ॥७-१०६-७॥
भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः। कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन् ॥७-१०६-८॥
भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम्। सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे ॥७-१०६-९॥
आशास्ते च सदा सूत पुत्रो दुर्योधनो मम। कर्णो जेष्यति सङ्ग्रामे सहितान्पाण्डवानिति ॥७-१०६-१०॥
जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे। स कथं भीमकर्माणं भीमसेनमयुध्यत ॥७-१०६-११॥
यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः। तं सूततनयं तात कथं भीमो ह्ययोधयत् ॥७-१०६-१२॥
अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान्। स्मरमाणः कथं भीमो युयुधे सूतसूनुना ॥७-१०६-१३॥
योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान्। तं सूततनयं युद्धे कथं भीमो ह्ययोधयत् ॥७-१०६-१४॥
यो जातः कुण्डलाभ्यां च कवचेन सहैव च। तं सूतपुत्रं समरे भीमः कथमयोधयत् ॥७-१०६-१५॥
यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः। तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय ॥७-१०६-१६॥
सञ्जय उवाच॥
भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम्। इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनञ्जयौ ॥७-१०६-१७॥
तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः। अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम् ॥७-१०६-१८॥
फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली। आजुहाव रणे यान्तं भीममाधिरथिस्तदा ॥७-१०६-१९॥
भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि। अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् ॥७-१०६-२०॥
अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः। द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम् ॥७-१०६-२१॥
विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत्। तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः ॥७-१०६-२२॥
तस्मै प्रासृजदुग्राणि विविधानि परन्तपः। अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष ॥७-१०६-२३॥
तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः। सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः ॥७-१०६-२४॥
स यथावन्महाराज विद्यया वै सुपूजितः। आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे ॥७-१०६-२५॥
संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्निव। अभ्यपद्यत राधेयस्तममर्षी वृकोदरम् ॥७-१०६-२६॥
तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे। युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः ॥७-१०६-२७॥
तं भीमसेनः सम्प्राप्तं वत्सदन्तैः स्तनान्तरे। विव्याध बलवान्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥७-१०६-२८॥
सूतं तु सूतपुत्रस्य सुपुङ्खैर्निशितैः शरैः। सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः ॥७-१०६-२९॥
कर्णो जाम्बूनदैर्जालैः सञ्छन्नान्वातरंहसः। विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः ॥७-१०६-३०॥
ततो बाणमयं जालं भीमसेनरथं प्रति। कर्णेन विहितं राजन्निमेषार्धाददृश्यत ॥७-१०६-३१॥
सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा। प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः ॥७-१०६-३२॥
तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम्। क्रुद्धश्चाप्यहनत्पार्श्वे नाराचैर्मर्मभेदिभिः ॥७-१०६-३३॥
ततोऽचिन्त्य महावेगान्कर्णकार्मुकनिःसृतान्। समाश्लिष्यदसम्भ्रान्तः सूतपुत्रं वृकोदरः ॥७-१०६-३४॥
स कर्णचापप्रभवानिषूनाशीविषोपमान्। बिभ्रद्भीमो महाराज न जगाम व्यथां रणे ॥७-१०६-३५॥
ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः। विव्याध समरे कर्णं भीमसेनः प्रतापवान् ॥७-१०६-३६॥
अयत्नेनैव तं कर्णः शरैरुप समाकिरत्। भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् ॥७-१०६-३७॥
मृदुपूर्वं च राधेयो भीममाजावयोधयत्। क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन् ॥७-१०६-३८॥
तं भीमसेनो नामृष्यदवमानममर्षणः। स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित् ॥७-१०६-३९॥
ते शराः प्रेषिता राजन्भीमसेनेन संयुगे। निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः ॥७-१०६-४०॥
हेमपुङ्खा महाराज भीमसेनधनुश्च्युताः। अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा ॥७-१०६-४१॥
कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः। राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे ॥७-१०६-४२॥
तस्य तानशनिप्रख्यानिषून्समरशोभिनः। चिच्छेद बहुभिर्भल्लैरसम्प्राप्तान्वृकोदरः ॥७-१०६-४३॥
पुनश्च शरवर्षेण छादयामास भारत। कर्णो वैकर्तनो युद्धे भीमसेनं महारथम् ॥७-१०६-४४॥
तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः। समाचिततनुं सङ्ख्ये श्वाविधं शललैरिव ॥७-१०६-४५॥
हेमपुङ्खाञ्शिलाधौतान्कर्णचापच्युताञ्शरान्। दधार समरे वीरः स्वरश्मीनिव भास्करः ॥७-१०६-४६॥
रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत। तपनीयनिभैः पुष्पैः पलाश इव कानने ॥७-१०६-४७॥
तत्तु भीमो महाराज कर्णस्य चरितं रणे। नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी ॥७-१०६-४८॥
स कर्णं पञ्चविंशत्या नाराचानां समार्पयत्। महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः ॥७-१०६-४९॥
तं विव्याध पुनर्भीमः षड्भिरष्टाभिरेव च। मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे ॥७-१०६-५०॥
ततः कर्णस्य सङ्क्रुद्धो भीमसेनः प्रतापवान्। चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च ॥७-१०६-५१॥
जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः। नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि ॥७-१०६-५२॥
ते जग्मुर्धरणीं सर्वे कर्णं निर्भिद्य मारिष। यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः ॥७-१०६-५३॥
स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः। तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम् ॥७-१०६-५४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.