07.105
Pancharatra and Core: Duryodhana pulls up Drona for letting Arjuna, Satyaki and Bhima surpass him towards Jayadratha. Drona advises him to stay put and protect Jayadratha at all costs.
सञ्जय उवाच॥
तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते। सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात् ॥ त्वरन्नेकरथेनैव बहुकृत्यं विचिन्तयन् ॥७-१०५-१॥
स रथस्तव पुत्रस्य त्वरया परया युतः। तूर्णमभ्यपतद्द्रोणं मनोमारुतवेगवान् ॥७-१०५-२॥
उवाच चैनं पुत्रस्ते संरम्भाद्रक्तलोचनः। अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः ॥७-१०५-३॥
विजित्य सर्वसैन्यानि सुमहान्ति महारथाः। सम्प्राप्ताः सिन्धुराजस्य समीपमरिकर्शनाः ॥ व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः ॥७-१०५-४॥
यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः। कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद ॥७-१०५-५॥
आश्चर्यभूतं लोकेऽस्मिन्समुद्रस्येव शोषणम्। निर्जयं तव विप्राग्र्य सात्वतेनार्जुनेन च ॥७-१०५-६॥
तथैव भीमसेनेन लोकः संवदते भृशम्। कथं द्रोणो जितः सङ्ख्ये धनुर्वेदस्य पारगः ॥७-१०५-७॥
नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे। यत्र त्वां पुरुषव्याघ्रमतिक्रान्तास्त्रयो रथाः ॥७-१०५-८॥
एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम्। यद्गतं गतमेवेह शेषं चिन्तय मानद ॥७-१०५-९॥
यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम्। तद्ब्रवीतु भवान्क्षिप्रं साधु तत्संविधीयताम् ॥७-१०५-१०॥
द्रोण उवाच॥
चिन्त्यं बहु महाराज कृत्यं यत्तत्र मे शृणु। त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः ॥ यावदेव भयं पश्चात्तावदेषां पुरःसरम् ॥७-१०५-११॥
तद्गरीयस्तरं मन्ये यत्र कृष्णधनञ्जयौ। सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः ॥७-१०५-१२॥
तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम्। स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनञ्जयात् ॥७-१०५-१३॥
गतौ हि सैन्धवं वीरौ युयुधानवृकोदरौ। सम्प्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम् ॥७-१०५-१४॥
न सभायां जयो वृत्तो नापि तत्र पराजयः। इह नो ग्लहमानानामद्य तात जयाजयौ ॥७-१०५-१५॥
यान्स्म तान्ग्लहते घोराञ्शकुनिः कुरुसंसदि। अक्षान्संमन्यमानः स प्रा क्षरास्ते दुरासदाः ॥७-१०५-१६॥
यत्र ते बहवस्तात कुरवः पर्यवस्थिताः। सेनां दुरोदरं विद्धि शरानक्षान्विशां पते ॥७-१०५-१७॥
ग्लहं च सैन्धवं राजन्नत्र द्यूतस्य निश्चयः। सैन्धवे हि महाद्यूतं समासक्तं परैः सह ॥७-१०५-१८॥
अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः। सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ ॥ तत्र नो ग्लहमानानां ध्रुवौ तात जयाजयौ ॥७-१०५-१९॥
यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम्। तत्र याहि स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः ॥७-१०५-२०॥
इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान्। निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः ॥७-१०५-२१॥
ततो दुर्योधनः प्रायात्तूर्णमाचार्यशासनात्। उद्यम्यात्मानमुग्राय कर्मणे सपदानुगः ॥७-१०५-२२॥
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ। बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् ॥७-१०५-२३॥
तौ हि पूर्वं महाराज वारितौ कृतवर्मणा। प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया ॥७-१०५-२४॥
ताभ्यां दुर्योधनः सार्धमगच्छद्युद्धमुत्तमम्। त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली ॥७-१०५-२५॥
तावभिद्रवतामेनमुभावुद्यतकार्मुकौ। महारथसमाख्यातौ क्षत्रियप्रवरौ युधि ॥७-१०५-२६॥
युधामन्युस्तु सङ्क्रुद्धः शरांस्त्रिंशतमायसान्। व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे ॥७-१०५-२७॥
दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः। जघान चतुरश्चाश्वानुभौ च पार्ष्णिसारथी ॥७-१०५-२८॥
उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे। आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन् ॥७-१०५-२९॥
स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः। बहुभिस्ताडयामास ते हताः प्रापतन्भुवि ॥७-१०५-३०॥
हयेषु पतितेष्वस्य चिच्छेद परमेषुणा। युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे ॥७-१०५-३१॥
हताश्वसूतात्स रथादवप्लुत्य महारथः। गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत ॥७-१०५-३२॥
तमापतन्तं सम्प्रेक्ष्य क्रुद्धं परपुरञ्जयम्। अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ ॥७-१०५-३३॥
ततः स हेमचित्रं तं स्यन्दनप्रवरं गदी। गदया पोथयामास साश्वसूतध्वजं रणे ॥७-१०५-३४॥
हत्वा चैनं स पुत्रस्ते हताश्वो हतसारथिः। मद्रराजरथं तूर्णमारुरोह परन्तपः ॥७-१०५-३५॥
पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबलौ। रथमन्यं समारुह्य धनञ्जयमभीयतुः ॥७-१०५-३६॥