07.107
धृतराष्ट्र उवाच॥
यस्मिञ्जयाशा सततं पुत्राणां मम सञ्जय। तं दृष्ट्वा विमुखं सङ्ख्ये किं नु दुर्योधनोऽब्रवीत् ॥ कर्णो वा समरे तात किमकार्षीदतः परम् ॥७-१०७-१॥
सञ्जय उवाच॥
भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम्। रथमन्यं समास्थाय विधिवत्कल्पितं पुनः ॥ अभ्ययात्पाण्डवं कर्णो वातोद्धूत इवार्णवः ॥७-१०७-२॥
क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशां पते। भीमसेनममन्यन्त वैवस्वतमुखे हुतम् ॥७-१०७-३॥
चापशब्दं महत्कृत्वा तलशब्दं च भैरवम्। अभ्यवर्तत राधेयो भीमसेनरथं प्रति ॥७-१०७-४॥
पुनरेव ततो राजन्महानासीत्सुदारुणः। विमर्दः सूतपुत्रस्य भीमस्य च विशां पते ॥७-१०७-५॥
संरब्धौ हि महाबाहू परस्परवधैषिणौ। अन्योन्यमीक्षां चक्राते दहन्ताविव लोचनैः ॥७-१०७-६॥
क्रोधरक्तेक्षणौ क्रुद्धौ निःश्वसन्तौ महारथौ। युद्धेऽन्योन्यं समासाद्य ततक्षतुररिंदमौ ॥७-१०७-७॥
व्याघ्राविव सुसंरब्धौ श्येनाविव च शीघ्रगौ। शरभाविव सङ्क्रुद्धौ युयुधाते परस्परम् ॥७-१०७-८॥
ततो भीमः स्मरन्क्लेशानक्षद्यूते वनेऽपि च। विराटनगरे चैव प्राप्तं दुःखमरिंदमः ॥७-१०७-९॥
राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः। सततं च परिक्लेशान्सपुत्रेण त्वया कृतान् ॥७-१०७-१०॥
दग्धुमैच्छश्च यत्कुन्तीं सपुत्रां त्वमनागसम्। कृष्णायाश्च परिक्लेशं सभामध्ये दुरात्मभिः ॥७-१०७-११॥
पतिमन्यं परीप्सस्व न सन्ति पतयस्तव। नरकं पतिताः पार्थाः सर्वे षण्ढतिलोपमाः ॥७-१०७-१२॥
समक्षं तव कौरव्य यदूचुः कुरवस्तदा। दासीभोगेन कृष्णां च भोक्तुकामाः सुतास्तव ॥७-१०७-१३॥
यच्चापि तान्प्रव्रजतः कृष्णाजिननिवासिनः। परुषाण्युक्तवान्कर्णः सभायां संनिधौ तव ॥७-१०७-१४॥
तृणीकृत्य च यत्पार्थांस्तव पुत्रो ववल्ग ह। विषमस्थान्समस्थो हि संरम्भाद्गतचेतसः ॥७-१०७-१५॥
बाल्यात्प्रभृति चारिघ्नस्तानि दुःखानि चिन्तयन्। निरविद्यत धर्मात्मा जीवितेन वृकोदरः ॥७-१०७-१६॥
ततो विस्फार्य सुमहद्धेमपृष्ठं दुरासदम्। चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात् ॥७-१०७-१७॥
स सायकमयैर्जालैर्भीमः कर्णरथं प्रति। भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् ॥७-१०७-१८॥
ततः प्रहस्याधिरथिस्तूर्णमस्यञ्शिताञ्शरान्। व्यधमद्भीमसेनस्य शरजालानि पत्रिभिः ॥७-१०७-१९॥
महारथो महाबाहुर्महावेगैर्महाबलः। विव्याधाधिरथिर्भीमं नवभिर्निशितैः शरैः ॥७-१०७-२०॥
स तोत्त्रैरिव मातङ्गो वार्यमाणः पतत्रिभिः। अभ्यधावदसम्भ्रान्तः सूतपुत्रं वृकोदरः ॥७-१०७-२१॥
तमापतन्तं वेगेन रभसं पाण्डवर्षभम्। कर्णः प्रत्युद्ययौ योद्धुं मत्तो मत्तमिव द्विपम् ॥७-१०७-२२॥
ततः प्रध्माप्य जलजं भेरीशतनिनादितम्। अक्षुभ्यत बलं हर्षादुद्धूत इव सागरः ॥७-१०७-२३॥
तदुद्धूतं बलं दृष्ट्व रथनागाश्वपत्तिमत्। भीमः कर्णं समासाद्य छादयामास सायकैः ॥७-१०७-२४॥
अश्वानृश्यसवर्णांस्तु हंसवर्णैर्हयोत्तमैः। व्यामिश्रयद्रणे कर्णः पाण्डवं छादयञ्शरैः ॥७-१०७-२५॥
ऋश्यवर्णान्हयान्कर्कैर्मिश्रान्मारुतरंहसः। निरीक्ष्य तव पुत्राणां हाहाकृतमभूद्बलम् ॥७-१०७-२६॥
ते हया बह्वशोभन्त मिश्रिता वातरंहसः। सितासिता महाराज यथा व्योम्नि बलाहकाः ॥७-१०७-२७॥
संरब्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ। सन्त्रस्ताः समकम्पन्त त्वदीयानां महारथाः ॥७-१०७-२८॥
यमराष्ट्रोपमं घोरमासीदायोधनं तयोः। दुर्दर्शं भरतश्रेष्ठ प्रेतराजपुरं यथा ॥७-१०७-२९॥
समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः। नालक्षयञ्जयं व्यक्तमेकैकस्य निवारणे ॥७-१०७-३०॥
तयोः प्रैक्षन्त संमर्दं संनिकृष्टमहास्त्रयोः। तव दुर्मन्त्रिते राजन्सपुत्रस्य विशां पते ॥७-१०७-३१॥
छादयन्तौ हि शत्रुघ्नावन्योन्यं सायकैः शितैः। शरजालावृतं व्योम चक्राते शरवृष्टिभिः ॥७-१०७-३२॥
तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ। प्रेक्षणीयतरावास्तां वृष्टिमन्ताविवाम्बुदौ ॥७-१०७-३३॥
सुवर्णविकृतान्बाणान्प्रमुञ्चन्तावरिंदमौ। भास्वरं व्योम चक्राते वह्न्युल्काभिरिव प्रभो ॥७-१०७-३४॥
ताभ्यां मुक्ता व्यकाशन्त कङ्कबर्हिणवाससः। पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे ॥७-१०७-३५॥
संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिंदमम्। अतिभारममन्येतां भीमे कृष्णधनञ्जयौ ॥७-१०७-३६॥
तत्राधिरथिभीमाभ्यां शरैर्मुक्तैर्दृढाहताः। इषुपातमतिक्रम्य पेतुरश्वनरद्विपाः ॥७-१०७-३७॥
पतद्भिः पतितैश्चान्यैर्गतासुभिरनेकशः। कृतो महान्महाराज पुत्राणां ते जनक्षयः ॥७-१०७-३८॥
मनुष्याश्वगजानां च शरीरैर्गतजीवितैः। क्षणेन भूमिः सञ्जज्ञे संवृता भरतर्षभ ॥७-१०७-३९॥