07.123
धृतराष्ट्र उवाच॥
तथा गतेषु शूरेषु तेषां मम च सञ्जय। किं वै भीमस्तदाकार्षीत्तन्ममाचक्ष्व सञ्जय ॥७-१२३-१॥
सञ्जय उवाच॥
विरथो भीमसेनो वै कर्णवाक्षल्यपीडितः। अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत् ॥७-१२३-२॥
पुनः पुनस्तूबरक मूढ औदरिकेति च। अकृतास्त्रक मा योधीर्बाल सङ्ग्रामकातर ॥७-१२३-३॥
इति मामब्रवीत्कर्णः पश्यतस्ते धनञ्जय। एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत ॥७-१२३-४॥
एतद्व्रतं महाबाहो त्वया सह कृतं मया। यथैतन्मम कौन्तेय तथा तव न संशयः ॥७-१२३-५॥
तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम। यथा भवति तत्सत्यं तथा कुरु धनञ्जय ॥७-१२३-६॥
तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः। ततोऽर्जुनोऽब्रवीत्कर्णं किञ्चिदभ्येत्य संयुगे ॥७-१२३-७॥
कर्ण कर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत। अधर्मबुद्धे शृणु मे यत्त्वा वक्ष्यामि साम्प्रतम् ॥७-१२३-८॥
द्विविधं कर्म शूराणां युद्धे जयपराजयौ। तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः ॥७-१२३-९॥
मुमूर्षुर्युयुधानेन विरथोऽसि विसर्जितः। यदृच्छया भीमसेनं विरथं कृतवानसि ॥७-१२३-१०॥
अधर्मस्त्वेष राधेय यत्त्वं भीममवोचथाः। युद्धधर्मं विजानन्वै युध्यन्तमपलायिनम् ॥ पूरयन्तं यथाशक्ति शूरकर्माहवे तथा ॥७-१२३-११॥
पश्यतां सर्वसैन्यानां केशवस्य ममैव च। विरथो भीमसेनेन कृतोऽसि बहुशो रणे ॥ न च त्वां परुषं किञ्चिदुक्तवान्पण्डुनन्दनः ॥७-१२३-१२॥
यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः। परोक्षं यच्च सौभद्रो युष्माभिर्निहतो मम ॥७-१२३-१३॥
तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि। त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते ॥७-१२३-१४॥
तस्माद्वध्योऽसि मे मूढ सभृत्यबलवाहनः। कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम् ॥७-१२३-१५॥
हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे। ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः ॥ तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे ॥७-१२३-१६॥
त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे। दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम् ॥७-१२३-१७॥
अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु। महान्सुतुमुलः शब्दो बभूव रथिनां तदा ॥७-१२३-१८॥
तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये। मन्दरश्मिः सहस्रांशुरस्तं गिरिमुपागमत् ॥७-१२३-१९॥
ततो राजन्हृषीकेशः सङ्ग्रामशिरसि स्थितम्। तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्येदमब्रवीत् ॥७-१२३-२०॥
दिष्ट्या सम्पादिता जिष्णो प्रतिज्ञा महती त्वया। दिष्ट्या च निहतः पापो वृद्धक्षत्रः सहात्मजः ॥७-१२३-२१॥
धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत। सीदेत समरे जिष्णो नात्र कार्या विचारणा ॥७-१२३-२२॥
न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित्। त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम् ॥७-१२३-२३॥
महाप्रभावा बहवस्त्वया तुल्याधिकापि वा। समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात् ॥ ते त्वां प्राप्य रणे क्रुद्धं नाभ्यवर्तन्त दंशिताः ॥७-१२३-२४॥
तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम्। नेदृशं शक्नुयात्कश्चिद्रणे कर्तुं पराक्रमम् ॥ यादृशं कृतवानद्य त्वमेकः शत्रुतापनः ॥७-१२३-२५॥
एवमेव हते कर्णे सानुबन्धे दुरात्मनि। वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम् ॥७-१२३-२६॥
तमर्जुनः प्रत्युवाच प्रसादात्तव माधव। प्रतिज्ञेयं मयोत्तीर्णा विबुधैरपि दुस्तरा ॥७-१२३-२७॥
अनाश्चर्यो जयस्तेषां येषां नाथोऽसि माधव। त्वत्प्रसादान्महीं कृत्स्नां सम्प्राप्स्यति युधिष्ठिरः ॥७-१२३-२८॥
तवैव भारो वार्ष्णेय तवैव विजयः प्रभो। वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन ॥७-१२३-२९॥
एवमुक्तः स्मयन्कृष्णः शनकैर्वाहयन्हयान्। दर्शयामास पार्थाय क्रूरमायोधनं महत् ॥७-१२३-३०॥
श्रीकृष्ण उवाच॥
प्रार्थयन्तो जयं युद्धे प्रथितं च महद्यशः। पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः ॥७-१२३-३१॥
विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः। सञ्छिन्नभिन्नवर्माणो वैक्लव्यं परमं गताः ॥७-१२३-३२॥
ससत्त्वा गतसत्त्वाश्च प्रभया परया युताः। सजीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः ॥७-१२३-३३॥
तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः। वाहनैरायुधैश्चैव सम्पूर्णां पश्य मेदिनीम् ॥७-१२३-३४॥
वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः। उष्णीषैर्मुकुटैः स्रग्भिश्चूडामणिभिरम्बरैः ॥७-१२३-३५॥
कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सुप्रभैः। अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी ॥७-१२३-३६॥
चामरैर्व्यजनैश्चित्रैर्ध्वजैश्चाश्वरथद्विपैः। विविधैश्च परिस्तोमैरश्वानां च प्रकीर्णकैः ॥७-१२३-३७॥
कुथाभिश्च विचित्राभिर्वरूथैश्च महाधनैः। संस्तीर्णां वसुधां पश्य चित्रपट्टैरिवावृताम् ॥७-१२३-३८॥
नागेभ्यः पतितानन्यान्कल्पितेभ्यो द्विपैः सह। सिंहान्वज्रप्रणुन्नेभ्यो गिर्यग्रेभ्य इव च्युतान् ॥७-१२३-३९॥
संस्यूतान्वाजिभिः सार्धं धरण्यां पश्य चापरान्। पदातिसादिसङ्घांश्च क्षतजौघपरिप्लुतान् ॥७-१२३-४०॥
सञ्जय उवाच॥
एवं संदर्शयन्कृष्णो रणभूमिं किरीटिनः। स्वैः समेतः स मुदितः पाञ्चजन्यं व्यनादयत् ॥७-१२३-४१॥