07.134
Pancharatra and Core: Altercation between Karna, Ashwatthama, and Duryodhana regarding the insult to Kripa. The Pandava army attacks Karna. In the intense battle when Karna faces defeat and is rescued by Kripa, Duryodhana himself rushes against Arjuna in anger. Kripa and Ashwatthama try to resist Duryodhana's move, sensing the imminent danger.
सञ्जय उवाच॥
तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम्। खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम् ॥७-१३४-१॥
अश्वत्थामोवाच॥
कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम। एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते ॥७-१३४-२॥
सञ्जय उवाच॥
तमुत्पतन्तं वेगेन राजा दुर्योधनः स्वयम्। न्यवारयन्महाराज कृपश्च द्विपदां वरः ॥७-१३४-३॥
कर्ण उवाच॥
शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः। आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम ॥७-१३४-४॥
अश्वत्थामोवाच॥
तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते। दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति ॥७-१३४-५॥
दुर्योधन उवाच॥
अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद। कोपः खलु न कर्तव्यः सूतपुत्रे कथञ्चन ॥७-१३४-६॥
त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबले। महत्कार्यं समायत्तं प्रसीद द्विजसत्तम ॥७-१३४-७॥
एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः। आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः ॥७-१३४-८॥
सञ्जय उवाच॥
कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान्। कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव ॥ पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः ॥७-१३४-९॥
ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः। संरब्धस्य महाराज सिंहनादविनादितम् ॥७-१३४-१०॥
ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः। दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन् ॥७-१३४-११॥
अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे। युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम ॥७-१३४-१२॥
अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाब्रुवन्। हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः ॥७-१३४-१३॥
सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता। अत्यन्तवैरी पार्थानां सततं पापपूरुषः ॥७-१३४-१४॥
एष मूलं ह्यनर्थानां दुर्योधनमते स्थितः। हतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन् ॥७-१३४-१५॥
महता शरवर्षेण छादयन्तो महारथाः। वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः ॥७-१३४-१६॥
तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान्। न विव्यथे सूतपुत्रो न च त्रासमगच्छत ॥७-१३४-१७॥
दृष्ट्वा नगरकल्पं तमुद्धूतं सैन्यसागरम्। पिप्रीषुस्तव पुत्राणां सङ्ग्रामेष्वपराजितः ॥७-१३४-१८॥
सायकौघेन बलवान्क्षिप्रकारी महाबलः। वारयामास तत्सैन्यं समन्ताद्भरतर्षभ ॥७-१३४-१९॥
ततस्तु शरवर्षेण पार्थिवास्तमवारयन्। धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः ॥ अयोधयन्त राधेयं शक्रं दैत्यगणा इव ॥७-१३४-२०॥
शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम्। शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो ॥७-१३४-२१॥
तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम्। यथा देवासुरे युद्धे शक्रस्य सह दानवैः ॥७-१३४-२२॥
तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम्। यदेनं समरे यत्ता नाप्नुवन्त परे युधि ॥७-१३४-२३॥
निवार्य च शरौघांस्तान्पार्थिवानां महारथः। युगेष्वीषासु छत्रेषु ध्वजेषु च हयेषु च ॥ आत्मनामाङ्कितान्बाणान्राधेयः प्राहिणोच्छितान् ॥७-१३४-२४॥
ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः। बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव ॥७-१३४-२५॥
हयानां वध्यमानानां गजानां रथिनां तथा। तत्र तत्राभ्यवेक्षामः सङ्घान्कर्णेन पातितान् ॥७-१३४-२६॥
शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः। आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् ॥७-१३४-२७॥
हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः। बभूवायोधनं रौद्रं वैवस्वतपुरोपमम् ॥७-१३४-२८॥
ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम्। अश्वत्थामानमासाद्य तदा वाक्यमुवाच ह ॥७-१३४-२९॥
युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः। पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम् ॥ कार्त्तिकेयेन विध्वस्तामासुरीं पृतनामिव ॥७-१३४-३०॥
दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता। अभियात्येष बीभत्सुः सूतपुत्रजिघांसया ॥७-१३४-३१॥
तद्यथा पश्यमानानां सूतपुत्रं महारथम्। न हन्यात्पाण्डवः सङ्ख्ये तथा नीतिर्विधीयताम् ॥७-१३४-३२॥
ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः। प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया ॥७-१३४-३३॥
आयान्तं दृश्य कौन्तेयं वृत्रं देवचमूमिव। प्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान् ॥७-१३४-३४॥
धृतराष्ट्र उवाच॥
संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम्। कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम् ॥७-१३४-३५॥
स ह्यस्पर्धत पार्थेन नित्यमेव महारथः। आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे ॥७-१३४-३६॥
स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम्। कर्णो वैकर्तनः सूत किमुत्तरमपद्यत ॥७-१३४-३७॥
सञ्जय उवाच॥
आयान्तं पाण्डवं दृष्ट्वा गजः प्रतिगजं यथा। असम्भ्रान्ततरः कर्णः पर्त्युदीयाद्धनञ्जयम् ॥७-१३४-३८॥
तमापतन्तं वेगेन वैकर्तनमजिह्मगैः। वारयामास तेजस्वी पाण्डवः शत्रुतापनः ॥७-१३४-३९॥
तं कर्णः शरजालेन छादयामास मारिष। विव्याध च सुसङ्क्रुद्धः शरैस्त्रिभिरजिह्मगैः ॥७-१३४-४०॥
तस्य तल्लाघवं पार्थो नामृष्यत महाबलः। तस्मै बाणाञ्शिलाधौतान्प्रसन्नाग्रानजिह्मगान् ॥७-१३४-४१॥
प्राहिणोत्सूतपुत्राय त्रिंशतं शत्रुतापनः। विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् ॥७-१३४-४२॥
सव्ये भुजाग्रे बलवान्नाराचेन हसन्निव। तस्य विद्धस्य वेगेन कराच्चापं पपात ह ॥७-१३४-४३॥
पुनरादाय तच्चापं निमेषार्धान्महाबलः। छादयामास बाणौघैः फल्गुनं कृतहस्तवत् ॥७-१३४-४४॥
शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत। व्यधमच्छरवर्षेण स्मयन्निव धनञ्जयः ॥७-१३४-४५॥
तौ परस्परमासाद्य शरवर्षेण पार्थिव। छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ ॥७-१३४-४६॥
तदद्भुतमभूद्युद्धं कर्णपाण्डवयोर्मृधे। क्रुद्धयोर्वाशिताहेतोर्वन्ययोर्गजयोरिव ॥७-१३४-४७॥
ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम्। मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयान्वितः ॥७-१३४-४८॥
अश्वांश्च चतुरो भल्लैरनयद्यमसादनम्। सारथेश्च शिरः कायादहरच्छत्रुतापनः ॥७-१३४-४९॥
अथैनं छिन्नधन्वानं हताश्वं हतसारथिम्। विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः ॥७-१३४-५०॥
हताश्वात्तु रथात्तूर्णमवप्लुत्य नरर्षभः। आरुरोह रथं तूर्णं कृपस्य शरपीडितः ॥७-१३४-५१॥
राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ। धनञ्जयशरैर्नुन्नाः प्राद्रवन्त दिशो दश ॥७-१३४-५२॥
द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप। निवर्तयामास तदा वाक्यं चेदमुवाच ह ॥७-१३४-५३॥
अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः। एष पार्थवधायाहं स्वयं गच्छामि संयुगे ॥ अहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान् ॥७-१३४-५४॥
अद्य मे युध्यमानस्य सह गाण्डीवधन्वना। द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये ॥७-१३४-५५॥
अद्य मद्बाणजालानि विमुक्तानि सहस्रशः। द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः ॥७-१३४-५६॥
अद्य बाणमयं वर्षं सृजतो मम धन्विनः। जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः ॥७-१३४-५७॥
जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः। तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात् ॥७-१३४-५८॥
न हि मद्वीर्यमासाद्य फल्गुनः प्रसहिष्यति। यथा वेलां समासाद्य सागरो मकरालयः ॥७-१३४-५९॥
इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः। फल्गुनं प्रति दुर्धर्षः क्रोधसंरक्तलोचनः ॥७-१३४-६०॥
तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा। अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह ॥७-१३४-६१॥
एष राजा महाबाहुरमर्षी क्रोधमूर्छितः। पतङ्गवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति ॥७-१३४-६२॥
यावन्नः पश्यमानानां प्राणान्पार्थेन सङ्गतः। न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम् ॥७-१३४-६३॥
यावत्फल्गुनबाणानां गोचरं नाधिगच्छति। कौरवः पार्थिवो वीरस्तावद्वारय तं द्रुतम् ॥७-१३४-६४॥
यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसंनिभैः। न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम् ॥७-१३४-६५॥
अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद। स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान् ॥७-१३४-६६॥
दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना। युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः ॥७-१३४-६७॥
मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः। दुर्योधनमिदं वाक्यं त्वरितं समभाषत ॥७-१३४-६८॥
मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि। मामनादृत्य कौरव्य तव नित्यं हितैषिणम् ॥७-१३४-६९॥
न हि ते सम्भ्रमः कार्यः पार्थस्य विजयं प्रति। अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन ॥७-१३४-७०॥
दुर्योधन उवाच॥
आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति। त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम ॥७-१३४-७१॥
मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि। धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत् ॥७-१३४-७२॥
धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः। सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः ॥७-१३४-७३॥
को हि शस्त्रभृतां मुख्यो महेश्वरसमो युधि। शत्रून्न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः ॥७-१३४-७४॥
अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान्। तवास्त्रगोचरे शक्ताः स्थातुं देवापि नानघ ॥७-१३४-७५॥
पाञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान्। वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः ॥७-१३४-७६॥
एते हि सोमका विप्र पाञ्चालाश्च यशस्विनः। मम सैन्येषु संरब्धा विचरन्ति दवाग्निवत् ॥७-१३४-७७॥
तान्वारय महाबाहो केकयांश्च नरोत्तम। पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना ॥७-१३४-७८॥
आदौ वा यदि वा पश्चात्तवेदं कर्म मारिष। त्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति ॥७-१३४-७९॥
करिष्यसि जगत्सर्वमपाञ्चालं किलाच्युत। एवं सिद्धाब्रुवन्वाचो भविष्यति च तत्तथा ॥७-१३४-८०॥
न तेऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाः। किमु पार्थाः सपाञ्चालाः सत्यमेतद्वचो मम ॥७-१३४-८१॥