07.152
Pancharatra and Core: A fierce battle erupted between the two enraged demon lords; Then, Bhima comes in support of Ghatotkacha and is overpowered.
सञ्जय उवाच॥
तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे। हर्षमाहारयां चक्रुः कुरवः सर्व एव ते ॥७-१५२-१॥
तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः। अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम् ॥७-१५२-२॥
पुनर्जातमिवात्मानं मन्वानाः पार्थिवास्तदा। अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन् ॥७-१५२-३॥
तस्मिंस्त्वमानुषे युद्धे वर्तमाने भयावहे। कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने ॥७-१५२-४॥
उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः। तथैव तावका राजन्घूर्णमानास्ततस्ततः ॥७-१५२-५॥
चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः। तत्कर्म दृष्ट्वा सम्भ्रान्ता हैडिम्बस्य रणाजिरे ॥७-१५२-६॥
सर्वमाविग्नमभवद्धाहाभूतमचेतनम्। तव सैन्यं महाराज निराशं कर्णजीविते ॥७-१५२-७॥
दुर्योधनस्तु सम्प्रेक्ष्य कर्णमार्तिं परां गतम्। अलायुधं राक्षसेन्द्रमाहूयेदमथाब्रवीत् ॥७-१५२-८॥
एष वैकर्तनः कर्णो हैडिम्बेन समागतः। कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे ॥७-१५२-९॥
पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना। नानाशस्त्रैरभिहतान्पादपानिव दन्तिना ॥७-१५२-१०॥
तवैष भागः समरे राजमध्ये मया कृतः। तवैवानुमते वीर तं विक्रम्य निबर्हय ॥७-१५२-११॥
पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः। मायाबलमुपाश्रित्य कर्शयत्यरिकर्शनः ॥७-१५२-१२॥
एवमुक्तः स राज्ञा तु राक्षसस्तीव्रविक्रमः। तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत् ॥७-१५२-१३॥
ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो। प्रत्यमित्रमुपायान्तं मर्दयामास मार्गणैः ॥७-१५२-१४॥
तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः। मत्तयोर्वाशिताहेतोर्द्विपयोरिव कानने ॥७-१५२-१५॥
रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः। अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा ॥७-१५२-१६॥
तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम्। अलायुधेन समरे सिंहेनेव गवां पतिम् ॥७-१५२-१७॥
रथेनादित्यवपुषा भीमः प्रहरतां वरः। किरञ्शरौघान्प्रययावलायुधरथं प्रति ॥७-१५२-१८॥
तमायान्तमभिप्रेक्ष्य स तदालायुधः प्रभो। घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत् ॥७-१५२-१९॥
तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो। सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत् ॥७-१५२-२०॥
तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः। अभ्यवर्षत कौन्तेयं पुनः पुनररिंदमः ॥७-१५२-२१॥
तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन्। नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः ॥७-१५२-२२॥
स ताड्यमानो बलिभिर्भीमसेनो महाबलः। पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः ॥७-१५२-२३॥
ते वध्यमाना भीमेन राक्षसाः खरयोनयः। विनेदुस्तुमुलान्नादान्दुद्रुवुश्च दिशो दश ॥७-१५२-२४॥
तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम्। अभिदुद्राव वेगेन शरैश्चैनमवाकिरत् ॥७-१५२-२५॥
तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः। अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे ॥ चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत् ॥७-१५२-२६॥
स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः। गदां चिक्षेप वेगेन वज्रपातोपमां तदा ॥७-१५२-२७॥
तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः। गदया ताडयामास सा गदा भीममाव्रजत् ॥७-१५२-२८॥
स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत्। तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः ॥७-१५२-२९॥
ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः। शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान् ॥७-१५२-३०॥
पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः। न शान्तिं लेभिरे तत्र रक्षसैर्भृशपीडिताः ॥७-१५२-३१॥
तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवे। अब्रवीत्पुरुषश्रेष्ठो धनञ्जयमिदं वचः ॥७-१५२-३२॥
पश्य भीमं महाबाहो राक्षसेन्द्रवशं गतम्। पदवीमस्य गच्छ त्वं मा विचारय पाण्डव ॥७-१५२-३३॥
धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ। सहिता द्रौपदेयाश्च कर्णं यान्तु महारथाः ॥७-१५२-३४॥
नकुलः सहदेवश्च युयुधानश्च वीर्यवान्। इतरान्राक्षसान्घ्नन्तु शासनात्तव पाण्डव ॥७-१५२-३५॥
त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम्। वारयस्व नरव्याघ्र महद्धि भयमागतम् ॥७-१५२-३६॥
एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः। जग्मुर्वैकर्तनं कर्णं राक्षसांश्चेतरान्रणे ॥७-१५२-३७॥
अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः। धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान् ॥७-१५२-३८॥
हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः। जघान मिषतः सङ्ख्ये भीमसेनस्य भारत ॥७-१५२-३९॥
सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः। तस्मै गुर्वीं गदां घोरां स विनद्योत्ससर्ज ह ॥७-१५२-४०॥
ततस्तां भीमनिर्घोषामापतन्तीं महागदाम्। गदया राक्षसो घोरो निजघान ननाद च ॥७-१५२-४१॥
तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम्। भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत् ॥७-१५२-४२॥
तयोः समभवद्युद्धं तुमुलं नररक्षसोः। गदानिपातसंह्रादैर्भुवं कम्पयतोर्भृशम् ॥७-१५२-४३॥
गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम्। मुष्टिभिर्वज्रसंह्रादैरन्योन्यमभिजघ्नतुः ॥७-१५२-४४॥
रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः। यथासन्नमुपादाय निजघ्नतुरमर्षणौ ॥७-१५२-४५॥
तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम्। मत्ताविव महानागावकृष्येतां पुनः पुनः ॥७-१५२-४६॥
तमपश्यद्धृषीकेशः पाण्डवानां हिते रतः। स भीमसेनरक्षार्थं हैडिम्बं प्रत्यचोदयत् ॥७-१५२-४७॥