Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.159
सञ्जय उवाच॥
घटोत्कचे तु निहते सूतपुत्रेण तां निशाम्। दुःखामर्षवशं प्राप्तो धर्मपुत्रो युधिष्ठिरः ॥७-१५९-१॥
दृष्ट्व भीमेन महतीं वार्यमाणां चमूं तव। धृष्टद्युम्नमुवाचेदं कुम्भयोनिं निवारय ॥७-१५९-२॥
त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात्। सशरः कवची खड्गी धन्वी च परतापनः ॥ अभिद्रव रणे हृष्टो न च ते भीः कथञ्चन ॥७-१५९-३॥
जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधनः। अभिद्रवन्तु संहृष्टाः कुम्भयोनिं समन्ततः ॥७-१५९-४॥
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः। द्रुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ ॥७-१५९-५॥
सात्यकिः केकयाश्चैव पाण्डवश्च धनञ्जयः। अभिद्रवन्तु वेगेन भारद्वाजवधेप्सया ॥७-१५९-६॥
तथैव रथिनः सर्वे हस्त्यश्वं यच्च किञ्चन। पादाताश्च रणे द्रोणं प्रापयन्तु महारथम् ॥७-१५९-७॥
तथाज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना। अभ्यद्रवन्त वेगेन कुम्भयोनिं युयुत्सया ॥७-१५९-८॥
आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान्। प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः ॥७-१५९-९॥
ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान्। अभ्यद्रवत्सुसङ्क्रुद्ध इच्छन्द्रोणस्य जीवितम् ॥७-१५९-१०॥
ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम्। पाण्डवानां कुरूणां च गर्जतामितरेतरम् ॥७-१५९-११॥
निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे। नाभ्यपद्यन्त समरे काञ्चिच्चेष्टां महारथाः ॥७-१५९-१२॥
त्रियामा रजनी चैषा घोररूपा भयानका। सहस्रयामप्रतिमा बभूव प्राणहारिणी ॥ वध्यतां च तथा तेषां क्षतानां च विशेषतः ॥७-१५९-१३॥
अहो रात्रिः समाजज्ञे निद्रान्धानां विशेषतः। सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः ॥ तव चैव परेषां च गतास्त्रा विगतेषवः ॥७-१५९-१४॥
ते तथा पारयन्तश्च ह्रीमन्तश्च विशेषतः। स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम् ॥७-१५९-१५॥
शस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः। गजेष्वन्ये रथेष्वन्ये हयेष्वन्ये च भारत ॥७-१५९-१६॥
निद्रान्धा नो बुबुधिरे काञ्चिच्चेष्टां नराधिपाः। तेऽन्योन्यं समरे योधाः प्रेषयन्त यमक्षयम् ॥७-१५९-१७॥
स्वप्नायमानास्त्वपरे परानिति विचेतसः। आत्मानं समरे जघ्नुः स्वानेव च परानपि ॥७-१५९-१८॥
नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे। योद्धव्यमिति तिष्ठन्तो निद्रासंसक्तलोचनाः ॥७-१५९-१९॥
संमर्द्यान्ये रणे केचिन्निद्रान्धाश्च परस्परम्। जघ्नुः शूरा रणे राजंस्तस्मिंस्तमसि दारुणे ॥७-१५९-२०॥
हन्यमानं तथात्मानं परेभ्यो बहवो जनाः। नाभ्यजानन्त समरे निद्रया मोहिता भृशम् ॥७-१५९-२१॥
तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः। उवाच वाक्यं बीभत्सुरुच्चैः संनादयन्दिशः ॥७-१५९-२२॥
श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः। तमसा चावृते सैन्ये रजसा बहुलेन च ॥७-१५९-२३॥
ते यूयं यदि मन्यध्वमुपारमत सैनिकाः। निमीलयत चात्रैव रणभूमौ मुहूर्तकम् ॥७-१५९-२४॥
ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः। संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः ॥७-१५९-२५॥
तद्वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते। अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन् ॥७-१५९-२६॥
चुक्रुशुः कर्ण कर्णेति राजन्दुर्योधनेति च। उपारमत पाण्डूनां विरता हि वरूथिनी ॥७-१५९-२७॥
तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः। उपारमत पाण्डूनां सेना तव च भारत ॥७-१५९-२८॥
तामस्य वाचं देवाश्च ऋषयश्च महात्मनः। सर्वसैन्यानि चाक्षुद्राः प्रहृष्टाः प्रत्यपूजयन् ॥७-१५९-२९॥
तत्सम्पूज्य वचोऽक्रूरं सर्वसैन्यानि भारत। मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ ॥७-१५९-३०॥
सा तु सम्प्राप्य विश्रामं ध्वजिनी तव भारत। सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत् ॥७-१५९-३१॥
त्वयि वेदास्तथास्त्राणि त्वयि बुद्धिपराक्रमौ। धर्मस्त्वयि महाबाहो दया भूतेषु चानघ ॥७-१५९-३२॥
यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते। मनसश्च प्रियानर्थान्वीर क्षिप्रमवाप्नुहि ॥७-१५९-३३॥
इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः। निद्रया समवाक्षिप्तास्तूष्णीमासन्विशां पते ॥७-१५९-३४॥
अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे। गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ ॥७-१५९-३५॥
सायुधाः सगदाश्चैव सखड्गाः सपरश्वधाः। सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक् ॥७-१५९-३६॥
गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणुरूषितैः। निद्रान्धा वसुधां चक्रुर्घ्राणनिःश्वासशीतलाम् ॥७-१५९-३७॥
गजाः शुशुभिरे तत्र निःश्वसन्तो महीतले। विशीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः ॥७-१५९-३८॥
समां च विषमां चक्रुः खुराग्रैर्विक्षतां महीम्। हयाः काञ्चनयोक्त्राश्च केसरालम्बिभिर्युगैः ॥ सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः ॥७-१५९-३९॥
तत्तथा निद्रया भग्नमवाचमस्वपद्बलम्। कुशलैरिव विन्यस्तं पटे चित्रमिवाद्भुतम् ॥७-१५९-४०॥
ते क्षत्रियाः कुण्डलिनो युवानः; परस्परं सायकविक्षताङ्गाः। कुम्भेषु लीनाः सुषुपुर्गजानां; कुचेषु लग्ना इव कामिनीनाम् ॥७-१५९-४१॥
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना। नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ॥७-१५९-४२॥
ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः। अरुणं दर्शयामास ग्रसञ्ज्योतिःप्रभं प्रभुः ॥७-१५९-४३॥
अरुणस्य तु तस्यानु जातरूपसमप्रभम्। रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत् ॥७-१५९-४४॥
उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः। पर्यगच्छञ्शनैः सर्वा दिशः खं च क्षितिं तथा ॥७-१५९-४५॥
ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत्। अप्रख्यमप्रकाशं च जगामाशु तमस्तथा ॥७-१५९-४६॥
प्रतिप्रकाशिते लोके दिवाभूते निशाकरे। विचेरुर्न विचेरुश्च राजन्नक्तञ्चरास्ततः ॥७-१५९-४७॥
बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः। बुबुधे शतपत्राणां वनं महदिवाम्भसि ॥७-१५९-४८॥
यथा चन्द्रोदयोद्धूतः क्षुभितः सागरो भवेत्। तथा चन्द्रोदयोद्धूतः स बभूव बलार्णवः ॥७-१५९-४९॥
ततः प्रववृते युद्धं पुनरेव विशां पते। लोके लोकविनाशाय परं लोकमभीप्सताम् ॥७-१५९-५०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.